पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० त्रीनृष्यान्वसुभ्यः । ऋष्यादयो मृगविशेषाः रुद्रेभ्यः रुरुन् । त्रीन्न्यङ्कूनादित्येभ्यः । अथ दशमेऽवकाशे त्रीन् पृषतान्विश्वेभ्यो देवेभ्यः । त्रीन् कुलुङ्गान् साध्येभ्यः ॥ २७॥
म० त्रीनृष्यान् वसुभ्यः । ऋष्यादयो मृगविशेषाः । रुद्रेभ्यः । रुरून् । त्रीन् न्यङ्कूनादित्येभ्यः । अथ दशमेऽवकाशे त्रीन् पृषतान् विश्वेभ्यो देवेभ्यः । त्रीन् कुलुङ्गान् साध्येभ्यः ॥२७॥

अष्टाविंशी।
ईशा॑नाय॒ पर॑स्वत॒ आल॑भते मि॒त्राय॑ गौ॒रान्वरु॑णाय महि॒षान्बृह॒स्पत॑ये गव॒याँस्त्वष्ट्र॒ उष्ट्रा॑न् ।। २८ ।।
उ० परस्वतः मृगविशेषानीशानाय । त्रीन्गौरान्मृगान्मित्राय । त्रीन्महिषान्वरुणाय तत्रैकं दशमे । अथैकादशेऽवकाशे त्रीन् गवयान्गोसदृशानारण्यपशून्बृहस्पतये । त्रीनुष्ट्रान त्वष्ट्रे ॥ २८ ॥
म० परस्वतः मृगविशेषानीशानाय । त्रीन् गौरान्मृगान् । मित्राय । त्रीन् महिषान्वरुणाय तत्रैकं दशमे । अथैकादशेऽवकाशे त्रीन् गवयान्गोसदृशानारण्यपशून् बृहस्पतये । त्रीनुष्ट्रान् त्वष्ट्रे ॥ २८ ॥

एकोनत्रिंशी।
प्र॒जाप॑तये॒ पुरु॑षान्ह॒स्तिन॒ आल॑भते वा॒चे प्लुषीँ॒श्चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य॒ भृङ्गा॑: ।। २९ ।।
उ० प्रजापतये पुरुषान्हस्तिनः त्रीन् । त्रीन् प्लुषीन्वक्रतुण्डान्वाचे। तन्मध्ये द्वौ प्लुषी एकादशे। अथ द्वादशेऽवकाशे एकं प्लुषिम् । त्रीन्मशकान् चक्षुषे । त्रयो भृङ्गाः श्रोत्राय नियोज्याः ॥ २९॥
म० प्रजापतये पुरुषान् हस्तिनः त्रीन् । त्रीन् प्लुषीन् । वक्रतुण्डान् वाचे तन्मध्ये द्वौ प्लुषी एकादशे । अथ द्वादशेऽवकाशे एकं प्लुषिम् । त्रीन् मशकान् चक्षुषे । त्रयो भृङ्गाः श्रोत्राय नियोज्याः ॥ २९ ॥

त्रिंशी।
प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कट॑: शार्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्ति॑का॒ नील॑ङ्गो॒: कृमि॑: समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती ।। ३० ।।
उ० प्रजापतये च वायवे च एको गोमृगः गवयः। एक आरण्यो मेषे वरुणाय । एकः कृष्णो मेषे यमाय । एको मर्कटः मनुष्यराजाय । एको रोहिदृष्यः शार्दूलाय । एका गवयी ऋषभाय तदाख्यदेवाय । अथ त्रयोदशेऽवकाशे एका वर्तिका क्षिप्रश्येनाय देवाय । एकः कृमिः कीट: नीलङ्गोः नीलङ्गवे । शिशुमारः एको जलचरः समुद्राय । हस्ती हिमवते ॥ ३० ॥
म० प्रजापतये च वायवे च एको गोमृगः गवयः । एक आरण्यो मेषो वरुणाय । एकः कृष्णो मेषो यमाय । एको मर्कटः मनुष्यराजाय । एको रोहिदृष्यः शार्दूलाय । एका गवयी ऋषभाय तदाख्यदेवाय । अथ त्रयोदशेऽवकाशे एका वर्तिका क्षिप्रश्येनाय देवाय । एकः कृमिः कीटः नीलङ्गोः नीलङ्गवे । शिशुमारः एको जलचरः समुद्राय । हस्ती हिमवते ॥ ३० ॥

एकत्रिंशी।
म॒युः प्रा॑जाप॒त्य उ॒लो ह॒लिक्ष्णो॑ वृषद॒ᳪशस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी क॑ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्च॑: ।। ३१ ।।
उ० मयुः प्राजापत्यः तुरङ्गवदनः किन्नरः प्रजापतिदेवतः । उलो मृगविशेषः हलिक्ष्णः सिंह विशेषः वृषदंशो विडालः ते त्रयो धात्रे । एकः कङ्कः बकः दिशां दिग्भ्यः । एका धुङ्क्षा पक्षिणी आग्नेयी अग्निदेवत्या । कलविङ्कः चटकः लोहिताहिः रक्तवर्णसर्पः पुष्करसदः पुष्करे सीदतीति कमलभक्षी पक्षिविशेषः ते त्रयः त्वाष्ट्राः त्वष्टृदेवताः । अथ | चतुर्दशेऽवकाशे एकः क्रुञ्चः वाचे ॥ ३१ ॥ ।
म० मयुः प्राजापत्यः तुरङ्गवदनः किन्नरः प्रजापतिदेवतः । उलो मृगविशेषः हलिक्ष्णः सिंहविशेषः वृषदंशो विडालः ते त्रयो धात्रे । एकः कङ्कः बकः दिशां दिग्भ्यः । एका धुङ्क्षा पक्षिणी आग्नेयी अग्निदेवत्या । कलविङ्कः चटकः लोहिताहिः रक्तवर्णसर्पः पुष्करसादी पुष्करे सीदतीति कमलभक्षी पक्षिविशेषः ते त्रयः त्वाष्ट्राः त्वष्टृदेवताः । अथ चतुर्दशेऽवकाशे एकः क्रुञ्चः वाचे ॥ ३१ ॥

द्वात्रिंशी। ।
सोमा॑य कुलु॒ङ्ग आ॑र॒ण्योऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कु॑: कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः ।। ३२ ।।
उ० कुलुङ्गः कुरङ्गो हरिण एकः सोमाय । आरण्यो वनजोऽजश्छागः नकुलः शका शकुन्तिः एते त्रयः पौष्णाः पूषदेवत्याः । क्रोष्टा शृगालो मायोर्देवस्य । एको गौरमृगः इन्द्रस्य । पिद्वो मृगविशेषः न्यङ्कुः अपि कक्कटः स एव ते त्रयोऽनुमत्यै । चक्रवाकः प्रतिश्रुत्कायै ॥ ३२ ॥ ।
म० कुलुङ्गः कुरङ्गो हरिण एकः सोमाय । आरण्यो वनजोऽजच्छागः नकुलः शका शकुन्तिः एते त्रयः पौष्णाः पूषदेवत्याः । क्रोष्टा शृगालो मायोर्दवस्य । एको गौरमृगः इन्द्रस्य । पिद्वो मृगविशेषः न्यङ्कुः अपि कक्कटः स एव ते त्रयोऽनुमत्यै । चक्रवाकः प्रतिश्रुत्कायै ॥ ३२ ॥

त्रयस्त्रिंशी। .
सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारि॑: पुरुष॒वाक् श्वा॒विद्भौ॒मी शा॑र्दू॒लो वृक॒: पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुक॑: पुरुष॒वाक् ।। ३३ ।।