पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० त्रीन् शिशुमारान् जलचरजन्तून् समुद्रायालभते । त्रीन्मण्डूकान्भेकान् पर्जन्याय । त्रयाणां मत्स्यानां मध्ये द्वौ अद्भ्यः । अथ तृतीयेऽवकाशे एकं शिष्टं मत्स्यमद्भ्यः । त्रीन् कुलीपयान् सोमाय । जलजान् मित्राय । त्रीन् नाक्रान् नक्रा एव नाक्रास्ताञ्जलचरान् वरुणाय ॥ २१ ॥
म० त्रीन् शिशुमारान् जलचरजन्तून् समुद्रायालभते । त्रीन्मण्डूकान्भेकान् पर्जन्याय । त्रयाणां मत्स्यानां मध्ये द्वौ अद्भ्यः । अथ तृतीयेऽवकाशे एकं शिष्टं मत्स्यमद्भ्यः । त्रीन् कुलीपयान जलजान् मित्राय । त्रीन् नाक्रान् नक्रा एव नाक्रास्ताञ्जलचरान् वरुणाय ॥ २१ ॥

द्वाविंशी।
सोमा॑य ह॒ᳪसानाल॑भते वा॒यवे॑ ब॒लाका॑ इन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न्मि॒त्राय॑ म॒द्गून्वरु॑णाय चक्रवा॒कान् ।। २२ ।।
उ० त्रीन् हंसान् तिस्रो बलाकाः बकपत्नीः वायवे । अथ चतुर्थेऽवकाशे । त्रीन् क्रुञ्चान् पक्षिणः इन्द्राग्निभ्याम् । त्रीन् मद्गून् जलकाकान् मित्राय। त्रीन् चक्रवाकान् वरुणाय ॥२२॥
म० त्रीन् हंसान् सोमाय । तिस्रो बलाकाः बकपत्नीः वायवे । अथ चतुर्थेऽवकाशे । त्रीन् क्रुञ्चान् पक्षिणः इन्द्राग्निभ्याम् । त्रीन् मद्गून्जलकाकान् मित्राय । त्रीन् चक्रवाकान् वरुणाय ॥ २२ ॥

त्रयोविंशी।
अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ उलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न॒श्विभ्यां॑ म॒यूरा॑न्मि॒त्रावरु॑णाभ्यां क॒पोता॑न् ।। २३ ।।
उ० त्रीन् कुटरून् कुक्कुटानग्नये । ततस्त्रयाणामुलूकानां मध्ये एकमुलूकं वनस्पतिभ्यः । अथ पञ्चमेऽवकाशे द्वौ उलूकौ काकवैरिणौ । त्रीन् चाषानग्नीषोमाभ्याम् त्रीन्मयूरानश्विभ्यां श्रीन्कपोतान्मित्रावरुणाभ्याम् ॥ २३ ॥
म० त्रीन् कुटरून् कुक्कुटानग्नये । ततस्त्रयाणामुलूकानां मध्ये एकमुलूकं वनस्पतिभ्यः । अथ पञ्चमेऽवकाशे द्वौ उलूकौ काकवैरिणौ । त्रीन् चाषानग्नीषोमाभ्यां त्रीन् मयूरानश्विभ्यां त्रीन् कपोतान् मित्रावरुणाभ्याम् ॥ २३ ॥

चतुर्विंशी।
सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान्गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हप॑तये पारु॒ष्णान् ।। २४ ।।
उ० त्रयाणां लबानां लावकानां मध्ये द्वौ सोमाय अथ षष्ठेऽवकाशे एकं लबं सोमाय । कौलीकान् पक्षिणः त्वष्ट्रे । तिस्रो गोषादीः गवां सादयित्रीः पक्षिणीः देवानां पत्नीभ्यः । तिस्रः कुलीकाः पक्षिणीः देवजामिभ्यः देववधूभ्यः । 'जामिः स्वसृकुलस्त्रियोः' । त्रीन्पारुष्णसंज्ञान्गृहपतयोऽग्नये ॥ २४ ॥
म त्रयाणां लबानां लावकानां मध्ये द्वौ सोमाय । अथ षष्ठेऽवकाशे एक लबं सोमाय । कौलीकान् पक्षिणः त्वष्ट्रे । तिस्रो गोषादीः गवां सादयित्रीः पक्षिणीः देवानां पत्नीभ्यः । तिस्रः कुलीकाः पक्षिणीः देवजामिभ्यः देववधूभ्यः । 'जामिः स्वसृकुलस्त्रियोः' । त्रीन् पारुष्णसंज्ञान् गृहपतयेऽग्नये ॥ २४ ॥

पञ्चविंशी।
अह्ने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयो॑: स॒न्धिभ्यो॑ ज॒तूर्मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ।।
उ० अथ सप्तमेऽवकाशे त्रीन्पारावतान्कलरवाह्ने। तिस्रः सीचापूः पक्षिणीः रात्र्यै । तिस्रो जतूः पात्राख्याः अहोरात्रयोः सन्धिभ्यः । त्रीन्दात्यूहान् कालकण्ठान्मासेभ्यः । त्रयाणां महतां सुपर्णानां मध्ये एकं संवत्सराय । अथाष्टमेऽवकाशे द्वौ महान्तौ सुपर्णौ संवत्सराय ॥ २५ ॥ ।
म० अथ सप्तमेऽवकाशे त्रीन् पारावतान् कलरवानह्ने । | तिस्रः सीचापूः पक्षिणी रात्र्यै । तिस्रो जतूः पात्राख्याः पक्षिणीः अहोरात्रयोः सन्धिभ्यः। त्रीन् दात्यूहान् कालकण्ठान् मासेभ्यः। त्रयाणां महतां सुपर्णानां मध्ये एकं संवत्सराय । अथाष्टमेवकाशे द्वौ महन्तौ सुपर्णौ संवत्सराय ॥ २५ ॥

षड्विंशी।
भूम्या॑ आ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्त्रान्दि॒वे कशा॑न्दि॒ग्भ्यो न॑कु॒लान्बभ्रु॑कानवान्तरदि॒शाभ्य॑: ।। २६ ।।
उ० भूम्यै आखून्मूषकान् त्रीन् पाङ्क्त्रान् मूषकजातिविशेषानन्तरिक्षाय । काशान् तद्भेदानेव दिवे । त्रीन्नकुलान्दिग्भ्यः तत्र द्वौ अष्टमे । अथ नवमे एकम् त्रीन्बभ्रुकानवान्तरदिशाभ्यः ॥ २६ ॥
म० भूम्यै आखून् मूषकान् त्रीन् पाङ्क्त्रान् मूषकजाति: विशेषानन्तरिक्षाय । काशान् तद्भेदानेव दिवे । त्रीन् नकुलान् दिग्भ्यः तत्र द्वौ अष्टमे । अथ नवमे एकम् । त्रीन् बभ्रुकानवान्तरदिशाभ्यः ॥ २६ ॥

सप्तविंशी।
वसु॑भ्य॒ ऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒॒न्विश्वे॑भ्यो दे॒वेभ्य॑: पृष॒तान्त्सा॒ध्येभ्य॑: कुलु॒ङ्गान् ।। २७ ।।