पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रीनजान् सान्तपनेभ्यः मरुद्भ्यः सप्त० । बष्किहान् चिरप्रसूतान् त्रीन् गृहमेधिभ्यो मरुद्भ्यः सप्त० । संसृष्टान् सह सृष्टान् त्रीन् क्रीडिभ्यः मरुद्भ्यः सप्त० । अनुसृष्टान् अनुक्रमेण जातान् त्रीन् स्वतवद्भ्यो मरुद्भ्यः सप्त० ॥ १६ ॥

सप्तदशी।
उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः ।। १७ ।।
उ० अथाष्टादशे यूपे महाहविःपशवः कृष्णग्रीवादयः पञ्चदश पूर्ववत् । अथैकोनविंशतितमे एताः कर्बुरास्त्रय ऐन्द्राग्नाः एकोन० । प्राशृङ्गाः संहितायां दीर्घः । प्रकृष्टशृङ्गयुक्ता माहेन्द्राः महेन्द्रदेवता एकोन० । बहुरूपास्त्रयो वैश्वकर्मणाः विश्वकर्मदेवताः एकोन० ॥ १७ ॥
म० अथाष्टादशे यूपे महाहविःपशवः कृष्णग्रीवादयः पञ्चदश पूर्ववत् । अथैकोनविंशतितमे एताः कर्बुरास्त्रय ऐन्द्राग्नाः एकोन० । प्राशृङ्गाः संहितायां दीर्घः । प्रकृष्टशृङ्गयुक्ता माहेन्द्राः महेन्द्रदेवताः एकोन० । बहुरूपास्त्रयो वैश्वकर्मणाः विश्वकर्मदेवताः एकोन० ॥ १७ ॥

अष्टादशी।
धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णाᳪ सोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ।। १८ ।।
उ० अथ पित्र्येष्टिदेवतापशवः धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः बभ्रुनीकाशाः कपिलवर्णसदृशास्त्रयः पशवः सोमवतां पितॄणां नियोज्याः एकोन० । बभ्रवः कपिलाः धूम्रनीकाशाः धूम्रा इव नितरां काशन्ते इति तादृशास्त्रयः बर्हिषदां पितॄणामेकोन० । अथ विंशे । यूपे कृष्णाः बभ्रुनीकाशाः अग्निष्वात्तानां पितॄणां विंशे । कृष्णाः पृषन्तः बिन्दुयुक्ताः त्र्यम्बकदेवताः विंशे ॥ १८ ॥
म०. अथ पित्र्येष्टिदेवतापशवः । धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः बभ्रुनीकाशाः कपिलवर्णसदृशास्त्रयः पशवः सोमवतां पितॄणां नियोज्याः एकोन० । बभ्रवः कपिलाः धूम्रनीकाशाः धूम्रा इव नितरां काशन्ते इति तादृशास्त्रयः बर्हिषदां पितॄणामेकोन० । अथ विंशे यूपे । कृष्णा बभ्रुनीकाशाः अग्निष्वात्तानां पितॄणां विंशे । कृष्णाः पृषन्तः बिन्दुयुक्ताः त्रैयम्बकाः त्र्यम्बकदेवताः विंशे ॥ १८ ॥

एकोनविंशी।
उ॒क्ताः स॑ञ्च॒रा एता॑: शुनासी॒रीया॑: श्वे॒ता वा॑य॒व्या॒: श्वे॒ताः सौ॒र्याः ।। १९ ।।
उ० अथ शुनासीरीयपशवः । तत्र संचराः आग्नेयादयः पञ्चदशोक्ताः । तेन कृष्णग्रीवा आग्नेयाः विंशे । बभ्रवः सौम्याः विंशे । उपध्वस्ताः सावित्राः विंशे । अथैकविंशे यूपे वत्सतर्यः सारस्वत्यः एकविंशे । श्यामाः पौष्णाः एक० । एताः कर्बुराः शुनासीरीयाः शुनासीरदेवताः एक० । श्वेताः त्रयो वायव्याः वायुदेवत्याः एक० । श्वेताः त्रयः सौर्याः सूर्यदेवताः एक० । एवं समाप्ताः यूपाः। इत्यश्वाद्याः सौर्यान्ताः सप्तविंशत्यधिकशतत्रयं ग्राम्याः पशवः सर्वे उक्ताः ॥ १९॥
म० अथ शुनासीरीयपशवः । तत्र संचराः आग्नेयादयः पञ्चदशोक्ताः तेन कृष्णग्रीया आग्नेयाः विंशे। बभ्रवः सौम्याः विंशे । उपध्वस्ताः सावित्राः विंशे । अथैकविंशे यूपे । वत्सतर्यः सारस्वत्यः एकविंशे । श्यामाः पौष्णाः एक० । एताः कर्बुराः शुनासीरीयाः शुनासीरदेवताः एक० । श्वेताः त्रयो वायव्याः वायुदेवत्याः एक० । श्वेताः त्रयः सौर्याः सूर्यदेवताः एक० । एवं समाप्ताः यूपाः । इत्यश्वाद्याः सौर्यान्ताः सप्तविंशत्यधिकशतत्रयं ग्राम्याः पशवः सर्वे उक्ताः ॥ १९ ॥

विंशी।
व॒स॒न्ताय॑ क॒पिञ्ज॑ला॒नाल॑भते ग्री॒ष्माय॑ कल॒विङ्का॑न्व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्ति॑का हेम॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान् ।। २० ।।
उ० वसन्ताय कपिञ्जलानालभते इत्यादयः विश्वेषां देवानां पृषन्त इत्येवमन्ता यूपान्तरेषु त्रयोदश त्रयोदशारण्याः पशव आलभ्यन्ते ॥ २० ॥
म० अथारण्याः पशव उच्यन्ते । अत्रैकविंशतिर्यूपाः तेषां यूपानां विंशतिरन्तरालानि तेष्वन्तरालेषु अन्तरालोत्पत्तिक्रमेण कपिञ्जलादयस्त्रयोदश त्रयोदश पशव आलम्भनीयाः । अत्र यूपान्तरालेष्वारण्यपशूनां बन्धनोपाय उक्तो मानवसूत्रे । नाडीषु प्लुषिमशकान् करण्डेषु सर्पान् पञ्जरेषु मृगव्याघ्रसिंहान् कुम्भेषु मकरमत्स्यमण्डूकान् जालेषु पक्षिणः कारासु हस्तिनो नौषु चौदकानि यथार्थमितरानिति । ये पशवो येनोपायेन यूपान्तरालेषु तिष्ठन्ति ते तेनोपायेन स्थापनीया इति तात्पर्यम् । अत्र येषामारण्यजीववाचिपदानामर्था न ज्ञायन्ते ते निगमनिरुक्तनिघण्टुव्याकरणोणादिवृत्त्यभिधानग्रन्थेभ्यो विलोक्यावगन्तव्याः । आटविकेभ्यश्च लक्षणीयाः । तत्र प्रथमोत्पन्ने यूपान्तराले त्रीन् कपिञ्जलान् वसन्ताय आलभते नियुनक्ति । त्रीन् कलविङ्कान् चटकान् ग्रीष्माय । तित्तिरीन् त्रीन् वर्षाभ्यः। वर्तिकाः पक्षिविशेषान् शरदे । ततस्त्रयाणां ककराणां मध्ये एक ककरं हेमन्ताय । अथ द्वितीयेऽवकाशे शिष्टौ द्वौ ककरौ पक्षिविशेषौ हेमन्ताय । त्रीन् विककरान् शिशिराय ॥ २० ॥

एकविंशी।
स॒मु॒द्राय॑ शिशु॒मारा॒नाल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न्मि॒त्राय॑ कुली॒पया॒न्वरु॑णाय ना॒क्रान् ।। २१ ।।