पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टत्रिंशी।
व॒र्षा॒हूरृ॒तू॒ना॑मा॒खुः कशो॑ मान्था॒लस्ते पि॑तॄ॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्ज॑लः क॒पोत॒ उलू॑कः श॒शस्ते निरृ॑त्यै॒ वरु॑णायार॒ण्यो मे॒षः ।। ३८ ।।
उ० वर्षाहूः वर्षाभूः भेकी ऋतूनाम् । आखुः मूषकः कशः मान्थालश्च तद्विशेषौ ते त्रयः पितॄणाम् । अथैकोनविंशे । अजगरो महासर्पः बलाय । कपिञ्जलो वसूनाम् । कपोतः उलूकः शशः ते निर्ऋत्यै । आरण्यो मेषो वरुणाय ॥ ३८॥
म० वर्षाहूः वर्षाभूः भेकी ऋतूनाम् । आखुः मूषकः कशः मान्थालश्च तद्विशेषौ ते त्रयः पितॄणाम् । अथैकोनविंशे । अजगरो महासर्पः बलाय । कपिञ्जलो वसूनाम् । कपोतः उलूकः शशः ते निर्ऋत्यै । आरण्यो मेषो वरुणाय ॥ ३८ ॥

एकोनचत्वारिंशी।
श्वि॒त्र आ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान्वार्ध्रीन॒सस्ते म॒त्या अर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः क्वयि॑: कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ।। ३९ ।।
उ० श्वित्रः श्वेतः पशुरादित्यानाम् । उष्ट्रः दीर्घग्रीवः घृणिवान् तेजस्वी पशुविशेषः । संहितायां घृणिशब्दो दीर्घः । वार्ध्रीनसः कण्ठे स्तनवानजः ते त्रयो मत्यै देव्यै । सृमरः गवयोऽरण्याय देवाय । रुरुः मृगः रौद्रः रुद्रदेवतः। क्वयिः पक्षिविशेषः । अथ विंशेऽवकाशे । कुटरुः कुक्कुटः दात्यौहः कालकण्ठः ते त्रयो वाजिनां देवानाम् । पिकः कोकिलः कामाय ॥ ३९॥
म० श्वित्रः श्वेतः पशुरादित्यानाम् । उष्ट्रः दीर्घग्रीवः घृणिवान् तेजस्वी पशुविशेषः। संहितायां घृणिशब्दो दीर्घः । वार्रीेतनसः कण्ठे स्तनवानजः ते त्रयो मत्यै देव्यै । सृमरः गवयोऽरण्याय देवाय । रुरुः मृगः रौद्रः रुद्रदेवतः क्वयिः पक्षिविशेषः । अथ विंशेऽवकाशे । कुटरुः कुक्कुटः दात्यौहः कालकण्ठः ते त्रयो वाजिनां देवानाम् । पिकः कोकिलः कामाय ॥ ३९ ॥

चत्वारिंशी।
ख॒ड्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सि॒ᳪहो मा॑रु॒त: कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या॒यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ।। ४० ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां चतुर्विंशोऽध्यायः ॥ २४ ॥
उ० खड्गो मृगविशेषो विश्वदेवदेवतः एकः कृष्णः श्वा सारमेयः द्वितीयः कर्णो लम्बकर्णो गर्दभः तृतीयस्तरक्षुः मृगादनः ते त्रयो रक्षसां पशवः । सूकरः इन्द्राय । सिंहो मारुतः मरुद्देवतः । कृकलासः सरटः पिप्पका पक्षिणी शकुनिः पक्षी एते त्रयः शरव्यायै । एकः पृषतः मृगविशेषो विश्वेषां देवानां पशुर्भवति विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मीति योज्यः । एवं षष्ट्यधिकं शतद्वयमारण्याः पशव उक्ताः । अत्र द्वाविंशतिरेकादशिनः सप्तविंशत्यधिकानि त्रीणि शतानि अश्वादयः सौर्यान्ताः षडधिकं शतद्वयं कपिञ्जलादयः पृषतान्ताः आरण्याः पशवः सर्वे मिलित्वा षट् शतानि नवाधिकानि पशवो भवन्ति । श्लोकश्च । षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य यज्ञस्य नवभिश्चाधिकानि चेति । तेष्वारण्याः सर्वे उत्स्रष्टव्या न तु हिंस्याः ॥ ४०॥
इति उवटकृतौ मन्त्रभाष्ये चतुर्विंशोऽध्यायः ॥ २४ ॥
म० खड्गो मृगविशेषो विश्वदेवदेवतः । एकः कृष्णः श्वा सारमेयः द्वितीयः कर्णो लम्बकर्णो गर्दभः तृतीयस्तरक्षुः मृगादनः ते त्रयो रक्षसां पशवः । सूकरः इन्द्राय । सिंहो मारुतः मरुद्देवतः । कृकलासः सरटः पिप्पका पक्षिणी शकुनिः पक्षी ते त्रयः शरव्यायै । एकः पृषतः मृगविशेषो विश्वेषां देवानां पशुर्भवति । विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मीति योज्यः । एवं षष्ट्यधिकं शतद्वयमारण्याः पशव उक्ताः । अत्र द्वाविंशतिरेकादशिनः सप्तविंशत्यधिकानि त्रीणि शतानि अश्वादयः सौर्यान्ताः षष्ट्यधिकं शतद्वयं कपिञ्जलादयः पृषतान्ता आरण्याः पशवः । सर्वे मिलित्वा षट्शतानि नवाधिकानि पशवो भवन्ति । श्लोकश्च । षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । । अश्वमेधस्य यज्ञस्य नवभिश्चाधिकानि चेति । तेष्वारण्याः सर्वे उत्स्रष्टव्या न तु हिंस्याः ॥ ४० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
गतोऽध्यायश्चतुर्विंशो देवतापशुवाचकः ॥ २४ ॥

पञ्चविंशोऽध्यायः ।
तत्र प्रथमा।
शादं॑ द॒द्भिरव॑कां दन्तमूलै॒र्मृदं॒ बर्स्वै॑स्ते॒गान्दᳪष्ट्रा॑भ्या॒ᳪ सर॑स्वत्या अग्रजि॒ह्वं जि॒ह्वाया॑ उत्सा॒दम॑वक्र॒न्देन॒ तालु॒ वाज॒ᳪ हनु॑भ्याम॒प आ॒स्ये॒न॒ वृष॑णमा॒ण्डाभ्या॑मादि॒त्याँ श्मश्रु॑भि॒: पन्था॑नं भ्रू॒भ्यां द्यावा॑पृथि॒वी वर्तो॑भ्यां वि॒द्युतं॑ क॒नीन॑काभ्याᳪ शु॒क्लाय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॒ पार्या॑णि॒ पक्ष्मा॑ण्यवा॒र्या॒ इ॒क्षवो॑ऽवा॒र्या॒णि॒ पक्ष्मा॑णि॒ पार्या॑ इ॒क्षव॑: ।। १ ।।