पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० उद्गाता प्रत्याह । रससंख्यया अन्नसंख्यामाह । अस्य यज्ञस्य षट् विष्ठाः अन्नानि । सर्वेषामन्नानां षड्रसात्मकत्वात्षडेवान्नानीत्यर्थः । अस्य यज्ञस्य शतमक्षराणि छन्दोभिर्यज्ञो निष्पाद्यते तानि च छन्दांसि गायत्र्यादीन्यतिधृत्यन्तानि चतुर्दश चतुर्विशत्यक्षरादीनि चतुर्वर्णान्तराणि तेषां क्रमोत्क्रमगत्या द्वाभ्यां शतमक्षराणि भवन्ति । तथा हि । गायत्री चतुर्विंशतिवर्णा । अतिधृतिः षट्सप्तत्यक्षरा एवं द्वे मिलित्वा शतमक्षराणि उष्णिक् २८ धृतिः ७२ एवं शतम् । अनुष्टुप् ३२ अत्यष्टिः ६८ एवं शतम् । अष्टिः ६४ बृहती ३६ एवं शतम् । अतिशक्वरी ६० पङ्क्तिः ४० एवं शतम् । शक्वरी ५६ त्रिष्टुप् ४४ एवं शतम् । अतिजगती ५२ जगती ४८ एवं शतमक्षराणि । अनेनाभिप्रायेण शतमक्षराणीत्युक्तम् । होमाः अशीतिः अश्वमेध एकविंशतिर्यूपाः तत्राग्निष्टे मध्यमयूपेऽश्वतूपरगोमृगान्नियुनक्ति इतरेषु षोडश पशून् तत्र विंशतियूपेषु चतस्रोऽशीतयः पशवो भवन्तीत्यभिप्रायेणोक्तम् । अशीतिर्होमाः ह स्फुटम् । तिस्रः समिधः अश्वतूपरगोमृगाः प्राजापत्याः पशवः तद्रूपाभिः समिद्भिर्यज्ञो दीप्त इति तिस्रः समिध उक्ताः । यज्ञस्य विदथा वेदनेन हेतुना ते तुभ्यं प्रव्रवीमि प्रवदामि । किंच सप्त होतारो वषट्कर्तारः ऋतुशः ऋतुयाजेषु यजन्ति ॥ ५८ ॥

एकोनषष्टी।
को अ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः ।। ५९ ।।
उ० उद्गाता ब्रह्माणं पृच्छति । को अस्य । कः अस्य वेद जानाति । कश्च द्यावापृथिवी अन्तरिक्षं च वेद । कश्च सूर्यस्य वेद जानाति । बृहतः महतः जनित्रं जन्म । कश्च वेद चन्द्रमसम् । चन्द्रमसः इति विभक्तिव्यत्ययः । यतोजाः यतो जन्म ॥ ५९ ॥
म० उद्गाता ब्रह्माणं पृच्छति । हे ब्रह्मन् , अस्य भुवनस्य जातस्य नाभिं नभ्यते यत्र स नाभिर्बन्धनस्थानं कारणमिति यावत् । नाभौ हि सर्वा नाड्यो बध्यन्ते 'नभ हिंसायाम्' अत्र बन्धनार्थः । औणादिक इप्रत्ययः । भूतजातस्य कारणं को वेद जानाति । द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च को वेद । बृहतो महतो जनित्रं जन्म को वेद । सूर्यस्योत्पत्तिः कस्मादित्यर्थः । जनेस्त्रल्प्रत्ययः। यतो जायते उत्पद्यते इति यतोजाः यत इत्युपपदे 'जनसनखनक्रमगमो विट्' (पा० ३। २।६७) इति विट्प्रत्ययः । 'विड्वनोरनुनासिकस्य' (पा० ६। ४ । ४१) इति नकारस्यात्वम् । प्रथमा द्वितीयार्था । यतोजाः यत उत्पन्नं चन्द्रमसमिन्दुं को वेद । यतश्चन्द्रस्योत्पत्तिस्तं को वेदेत्यर्थः ॥ ५९॥

षष्टी।
वेदा॒हम॒स्य भुव॑नस्य॒ नाभिं॒ वेद॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
वेद॒ सूर्य॑स्य बृह॒तो ज॒नित्र॒मथो॑ वेद च॒न्द्रम॑सं यतो॒जाः ।। ६० ।।
उ० प्रत्याह । वेदाहम् । वेद जानामि अहम् । अस्य भुवनस्य नाभिं नहनं बन्धनं परं ब्रह्म । वेद च द्यावापृथिवी अन्तरिक्षं च ब्रह्मणो विकारभूतम् । वेद च सूर्यस्य बृहतः जनित्रं परमात्मलक्षणम् । अथो अपिच वेद जानामि चन्द्रमसं यतोजाः चन्द्रमसः यतो जन्म परमात्मनः यज्ञाद्वा ॥ ६०॥
म० ब्रह्मा प्रत्याह । अस्य भुवनस्य नाभिं कारणमहं वेद जानामि विदो लटो वा' (पा० ३।४। ८३ ) परब्रह्मव जगकारणं जानामीत्यर्थः । द्यावापृथिवी अन्तरिक्षं च वेद ब्रह्मणो विकारभूतं जानामि । वृहतः सूर्यस्य जनित्रमुत्पत्तिकारणं ब्रह्मैव वेद । अथो अपिच यतोजाः चन्द्रमसमहं वेद परमात्मनो जातं चन्द्रमहं वेमीत्यर्थः ॥ ६० ॥

एकषष्टी।
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑: ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑: पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ।। ६१ ।।
उ० अध्वर्युं यजमानः पृच्छति पृच्छामि त्वा । पृच्छामि त्वां भवन्तम् परम् अन्तं पृथिव्याः । पृच्छामि च यत्र भुवनस्य नाभिः नहनम् । पृच्छामि च भवन्तम् वृष्णः सेक्तुः अश्वस्य रेतः । पृच्छामि च वाचः परमं व्योम व्यवनं स्थानम् ॥ ६१ ॥
म० 'यजमानोऽध्वर्यु पृच्छामि बेति' (का० २० । ७ । १४) । यजमानोऽध्वर्यु पृच्छति । हे अध्वर्यो, पृथिव्याः परमन्तमवधिभूतं पर्यन्तं त्वा त्वामहं पृच्छामि । द्विकर्मकः । यत्र यस्मिन्स्थले भुवनस्य भूतजातस्य नाभिः कारणं तदपि त्वां पृच्छामि । वृष्णः सेक्तुः अश्वस्य रेतः वीर्यं त्वां पृच्छामि । वाचो वाण्याः त्रयीलक्षणायाः परममुत्कृष्टं व्योम स्थानं त्वां पृच्छामि ॥ ६१ ॥

द्विषष्टी।
इ॒यं वेदि॒: परो॒ अन्त॑: पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑: ।
अ॒यᳪ सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ।। ६२ ।।
उ० प्रत्याह इयं वेदिः । इयं वेदिः परः अन्तः पृथिव्याः। वेदिर्हि सर्वा पृथिवीरूपा भवति । अयं च यज्ञः भुवनस्य नाभिः नहनम् 'यज्ञाद्वै प्रजाः प्रजायन्ते' इति श्रुतेः । अयं च सोमः चन्द्रमाः लता सोमो वा वृष्णः सेक्तुः अश्वस्य रेतः । अयं च ब्रह्मा ऋत्विक् वाचः परमं व्योम व्यवनं स्थानम् त्रिवेदयोगात् । समाप्तं ब्रह्मोद्यम् ॥ ६२ ॥