पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरवेदेः पश्चादुपविश्य पूर्वौ पूर्वोक्तौ होत्रध्वर्यू चतुर्ऋग्भिः संवदेते इति सूत्रार्थः । होताध्वर्युं पृच्छति । व्याख्याता (११) ॥ ५३ ॥

चतुःपञ्चाशी।
द्यौ॑रासीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वय॑: ।
अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ।। ५४ ।।
उ० प्रत्याह । द्यौरासीत् व्याख्यातौ ॥ ५४ ॥
म० व्याख्याता (१२) ॥ ५४ ॥

पञ्चपञ्चाशी।
का ई॑मरे पिशङ्गि॒ला का ईं॑ कुरुपिशङ्गि॒ला ।
क ई॑मा॒स्कन्द॑मर्षति॒ क ईं॒ पन्थां॒ वि स॑र्पति ।। ५५ ।।
उ० अध्वर्युर्होतारं पृच्छति । का ईमरे । ईमिति चकारार्थे । अरे इत्यामन्त्रितविषयः । उभावपि निपातौ । का च अरे होतः, पिशङ्गिला । का च कुरुपिशङ्गिला। कश्च आस्कन्दम् अर्षति कश्च पन्थां विसर्पति ॥ ५५ ॥
म० अध्वर्युर्होतारं पृच्छति । ईमिति निपातश्चार्थः । अरे होतः, का च पिशंगिला का च कुरुपिशंगिला कश्च आस्कन्दं णमुलन्तः । आस्कद्य उत्प्लुत्य अर्षति गच्छति 'ऋष गतौ' तुदादिः व्यत्ययेन शप् । कश्च पन्थां पन्थानं मार्गं प्रति विसर्पति विविधं गच्छति ॥ ५५ ॥

षट्पञ्चाशी।
अ॒जारे॑ पिशङ्गि॒ला श्वा॒वित्कु॑रुपिशङ्गि॒ला ।
श॒श आ॒स्कन्द॑मर्ष॒त्यहि॒: पन्थां॒ वि स॑र्पति ।। ५६ ।।
उ० प्रत्याह अजारे अजा नित्यारात्रिः अरे अध्वर्यो, पिशङ्गिला । सा हि पिशं रूपं गिलति भक्षयति । स हि तस्याः प्रभावः । श्वावित् सेधा उच्यते । कुरुपिशंगिला । कृत्वा उपलभ्योपलभ्य पिशं रूपं गिलति भक्षयति सा कुरुपिशंगिला । सा हि शतं मूलानां श्वोभक्षणाय कुक्षौ स्थापयति शतं च भक्षयति स हि तस्याः स्वभावः । शशश्च आस्कन्दं आस्कन्द्यास्कन्द्य अर्षति गच्छति स हि तस्य स्वभावः । अहिश्च स्वकीयं पन्थानम् विसर्पति विकुर्वन् गच्छति ॥ ५६ ॥
म० अरे अध्वर्यो, अजा पिशंगिला अजा नित्या माया रात्रिर्वा पिशंगिला पिशं रूपं गिलति भक्षयति पिशंगिला माया विश्वं ग्रसते । रात्रावपि रूपाणि न प्रतीयन्ते तमसा । श्वावित् सेधा कुरुपिशंगिला कुरुशब्दोऽनुकरणे ‘पिश अवयवे' इति धातोरिगुपधेति कप्रत्ययः । कुरु इति शब्दमनुकुर्वाणा पिशान् मूलाद्यवयवान् गिलति पिशंगिला । मूलानां शतं कुक्षौ स्थापयति शतं च भक्षयतीति सेधायाः स्वभावः । शशः वन्यो जीवविशेषः आस्कन्दमास्कन्द्यास्कन्द्य अर्षति स तस्य स्वभावः । अहिः सर्पः पन्थां पन्थानं विसर्पति विशेषेण | गच्छति ॥ ५६ ॥

सप्तपञ्चाशी।
कत्य॑स्य वि॒ष्ठाः कत्य॒क्षरा॑णि॒ कति॒ होमा॑सः कति॒धा समि॑द्धः ।
य॒ज्ञस्य॑ त्वा वि॒दथा॑ पृच्छ॒मत्र॒ कति॒ होता॑र ऋतु॒शो य॑जन्ति ।। ५७ ।।
उ० ब्रह्मोद्गातारं पृच्छति । कत्यस्य अस्य यज्ञस्य कति विष्ठाः विशेषेण तिष्ठति यज्ञो यासु ता विष्ठा अन्नानि । कति च अक्षराणि कति च होमाः कतिधा च समिद्धः समिधः यज्ञस्य त्वा भवन्तम् विदथा आवेदनेन हेतुना पृच्छं पृच्छामि । अत्र च यज्ञे कति होतारः ऋतुशः ऋतुयाज्यान् यजन्ति ॥ ५७ ॥ |
म० 'उत्तरौ च कत्यस्येति' ( का० २० । ७ । १३)। । उत्तरौ पश्चादुक्तौ ब्रह्मोद्गातारौ चतुर्ऋग्भिः संवदेते । ब्रह्मोद्गातारं पृच्छति । अस्य कति विष्टाः कियन्ति अन्नानि । का संख्या यासां ताः कति । विशेषेण तिष्ठति यज्ञो यासु ताः विष्ठाः अन्नानि कियत्प्रकाराणि यज्ञे । अक्षराणि च कति । होमासः होमाः कति । समिद्धः समिधः कतिप्रकाराः । धकारस्य द्वित्वमार्षम् । यज्ञस्य विदथा वेत्तीति विदः विदस्य भावो विदथा यज्ञावेदितृत्वेन हेतुना अत्र स्थले त्वा त्वामहं पृच्छमपृच्छं पृच्छामि । पृच्छतेर्लङ् । अडभाव आर्षः । ऋतुशः ऋतौ ऋतौ कति होतारः यजन्ति ॥ ५७ ॥

अष्टपञ्चाशी।
षड॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमा॑: स॒मिधो॑ ह ति॒स्रः ।
य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑र ऋतु॒शो य॑जन्ति ।। ५८ ।।
उ० प्रत्याह । षडस्य । रससंख्ययोपसंजिहीर्षुराह । अस्य यज्ञस्य षड्विष्ठाः अन्नानि सर्वान्नानां पड्रसात्मकत्वात् शतमक्षराणि । छन्दसामुद्धारेणोपसंजिहीर्षुराह । चतुर्दश छन्दांसि गायत्रीप्रभृतीनि चतुर्विंशत्यक्षरादीनि । चतुरुत्तराणि अतिधृतिपर्यन्तानि । अतिधृतिस्तु षट्सप्तत्या भवति । एतैः प्रायशो यज्ञस्तायते । तत्र गायत्री अतिधृतिश्च शतम्। एवमुष्णिक् धृतिश्च शतम् । एवमन्येष्वपि छन्दस्सु इत्येतदभिप्रायम् । अशीतिर्होमाः । एकविंशतिरश्वमेधे यूपाः । । तत्राग्निष्टे अश्वस्तूपरो गोमृगान् नियुनक्ति । इतरेषु षोडशषोडश । तत्र विंशतियूपैः चतस्रोऽशीतयो भवन्ति तदभिप्रायमेतत् । कतिधा समिद्ध इति यदुक्तम् अत्र ब्रूमः । समिधो ह तिस्रः याभिः समिद्भिः संदीप्तो यज्ञः तास्तिस्रः अश्वस्तूपरो गोमृगाः प्राजापत्याः पशवः यज्ञस्य ते तव विदथा वेदनेन । ब्रवीमि सप्तहोतारः वषट्कर्तारः ऋतुशः । ऋतुयागेषु यजन्ति ॥ ५८ ॥