पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० ब्रह्मोद्गातारं पृच्छति । पृच्छामि त्वा भवन्तं चितये । 'चिती संज्ञाने' परिज्ञानाय । हे देवसख उद्गातः । यदि त्वम् अत्र पृष्टः सन्मनसा प्रश्नविवेचनाय सूक्ष्मानर्थान् जगन्थ अवगच्छसि । येषु विष्णुः यज्ञः त्रिषु पदेषु गार्हपत्याहवनीयदक्षिणाग्निषु आ इष्टः । यजेरेतद्रूपम् । तेषु विश्वं भुवनं भूतजातम् । आविवेश उत नेति प्रश्ने प्लुतः ॥ ४९ ॥
म० 'ब्रह्मोद्गातारौ च पृच्छामि त्वेति' ( का० २० । ७ । ११)। ब्रह्मोद्गातारं पृच्छति पृच्छामीति । चकाराच्चतुर्ऋग्भिः सदसि ब्रह्मोद्गातारौ संवदेते । ब्रह्मा उद्गातारं पृच्छति । पृच्छामि । देवानां सखा देवसखः 'राजाहःसखिभ्यष्टच्' हे देवसख देवानां मित्र उद्गातः, त्वा त्वां चितये ज्ञानायाहं पृच्छामि । अत्र मत्कृते प्रश्ने यदि त्वं मनसा जगन्थ जनासि गमेर्लिट् । ये गत्यर्थास्ते ज्ञानार्थाः । किं पृच्छसीत्यत आह । विष्णुः यज्ञो येषु त्रिषु पदेषु गार्हपत्याहवनीयदक्षिणाग्निषु एष्टः आ इष्टः यागेन तर्पितः । यजेः क्तः । तेषु त्रिषु पदेषु विश्वं सर्वं भुवनमाविवेश प्रविष्टमुत नेति प्रश्ने प्लुतः ॥ ४९ ॥

पञ्चाशी।
अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑ ।
स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वो अ॒स्य पृ॒ष्ठम् ।। ५० ।।
उ० प्रत्याह । अपि तेषु तेषु अहमस्मि अपि त्वं चेत्यपिशब्दः । तेषु गार्हपत्याहवनीयदक्षिणाग्निषु त्रिषु पदेषु । अहमस्मि त्वं च । केषु येषु । विश्वं भूतजातम् । आविवेश आविष्टम् । यत्पुनरेतदुक्तं भवता यदि त्वमत्र मनसा जगन्थेति । अत्र ब्रूमः । सद्यः एककालमेव । पर्येमि परिगच्छामि पृथिवीम् । उत अपिच द्याम् एकेन अङ्गेन मनसा अस्य दिवः पृष्ठं च किमुत भूतानि तत्राविष्टानीति ॥५०॥
म० उद्गाता प्रत्याह । येषु त्रिषु पदेषु विश्वं भुवनमाविवेशेति यत्त्वया पृष्टम् तेषु त्रिषु पदेषु गार्हपत्यादिषु अहमस्मि अहमपि तत्रैव स्थितोऽस्मि । अपिशब्दात् त्वं च तत्रैवासि । किमेतावदेव जानामि किंतु पृथिवीमुतापि च द्यां स्वर्गं दिवः स्वर्गस्य पृष्ठमुपरिभागमपि सद्यः तत्क्षणमेव एकेनाङ्गेन मनसा पर्येमि परिगच्छामि सर्वं जानामि किंपुनर्भूतानि प्रविष्टानीति भावः ॥ ५० ॥

एकपञ्चाशी।
केष्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि ।
ए॒तद्ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ किᳪ स्वि॑न्न॒: प्रति॑ वोचा॒स्यत्र॑ ।। ५१ ।।
उ० उद्गाता ब्रह्माणं पृच्छति । केष्वन्तः । केषु अन्तर्मध्ये पुरुषः आविवेश आविष्टः प्रविष्टः । कानि चान्तः : मध्ये पुरुषे अर्पितानि । एतत् हे ब्रह्मन् उपवल्हामसि । • 'वल्ह प्राधान्ये' । इह तु आह्वानपूर्वे संहर्षे वर्तते । उपसङ्गम्याहूयोत्क्षिप्य बाहू पृच्छामि भवन्तम् किंस्विन्नः किं पुनरस्माकं प्रति वोचासि मध्ये पुरुष आविवेश । किंच तानि प्राणाधीनानि करणानि अन्तः पुरुषे अर्पितानि । : एतत् त्वा भवन्तं प्रति मन्वानः प्रतिजानानः अस्मि अवस्थितः । नच मायया प्रज्ञया भवसि उत्तरः उद्गातृतरः मत् प्रति ब्रवीपि अत्र प्रश्ने ॥ ५१ ॥
म० उद्गाता ब्रह्माणं पृच्छति । हे ब्रह्मन् , पुरुषः केषु ' पदार्थेषु अन्तर्मध्ये आविवेश प्रविष्टः । पुरुषे अन्तः पुरुषमध्ये कानि वस्तूनि अर्पितानि स्थापितानि । एतत् त्वा त्वां वयमुपवल्हामसि उपवल्हामः स्पर्धया पृच्छामः 'वल्ह प्राधान्यपरिभाषणहिंसादानेषु' लट् 'इदन्तो मसि' अत्र प्रश्ने । किं स्वित् त्वं प्रतिवोचासि प्रतिवदसि । 'वच उम्' (पा० ७ । ४ । २० ) इति लेटि छान्दस उम् । 'लेटोऽडाटौ' (पा० ३ । । ४ । ९४) इत्याडागमः ॥५१॥

द्विपञ्चाशी। ।
प॒ञ्चस्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि ।
ए॒तत्त्वात्र॑ प्रतिमन्वा॒नो अ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत् ।। ५२ ।।
उ० प्रत्याह । पञ्चस्वन्तः पञ्चस्विति प्राणाः ख्यायन्ते । पञ्चसु प्राणेषु मत्तः मामपेक्ष्य ॥ ५२ ॥
म० ब्रह्मा प्रत्याह । पुरुषः आत्मा पञ्चसु प्राणेषु अन्तः प्राणमध्ये आविवेश प्रविष्टः तानि प्रसिद्धानि श्रोत्राधिकरणानि पुरुषे अन्तः मध्ये अर्पितानि । प्राणात्मनामन्योन्यापेक्षासिद्धिरित्यर्थः । नचात्मानमन्तरेण प्राणाः ख्यायन्ते 'न प्राणानन्तरेणात्मेति' बह्वृचश्रुतेः । यद्वा पञ्चसु भूतेषु भूम्यादिषु आत्मा प्रविष्टस्तानि चात्मनि प्रविष्टानि 'तानि सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः । उद्गातः, अहमत्र प्रश्ने । त्वा त्वां प्रति एतदुत्तरं प्रतिमन्वानः प्रतिजानानोऽस्मि । एवमुत्तरं ददामीत्यर्थः । किंच मायया बुद्ध्या मत् मत्तः उत्तरोऽधिकस्वं न भवसि । मत्तो बुद्धिमान्नासीत्यर्थः ॥ ५२ ॥

त्रिपञ्चाशी।
का स्वि॑दासीत्पू॒र्वचि॑त्ति॒: किᳪ स्वि॑दासीद् बृ॒हद्वय॑: ।
का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ।। ५३ ।।
उ० होताध्वर्युं पृच्छति । कास्विदासीत् ॥ ५३ ॥
म० 'पुनः पूर्वावपरेणोत्तरवेदिं का स्विदिति' (का. । २० । ७ । १२)। ततः सदसो निष्क्रम्य हविर्धानस्य पुर