पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कृण्वन्तु कुर्वन्तु । 'कॄ करणे' स्वादिः । कीदृशीः सीमाः । शम्यन्तीः संस्कुर्वाणाः ॥ ४२ ॥

त्रिचत्वारिंशी।
द्यौ॑स्ते पृथि॒व्यन्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते । सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या ।। ४३ ।।
उ० द्यौस्ते द्यौश्च ते तव पृथिवी च अन्तरिक्षं च वायुश्च छिद्रं पृणातु पूरयतु ते । किंच । सूर्यश्च ते तव नक्षत्रैः सह लोकं स्थानं कृणोतु । साधुया साधुम् । द्वितीयार्थे या छान्दसः ॥ ४३ ॥
म० द्यौः स्वर्गः पृथिवी अन्तरिक्षं लोकत्रयाभिमानिनो देवाः अग्निवायुसूर्याः वायुरन्योऽपि शरीरस्थः प्राणादिः हे अश्व, ते तव छिद्रं पृणातु । वचनव्यत्ययः पृणन्तु पूरयन्तु । यत् न्यूनं तत् पूरयन्तु । किंच नक्षत्रैः सह नक्षत्रयुक्तः सूर्यः ते तव साधुया साधुं समीचीनं लोकं कृणोतु करोतु । 'सुपां सुलुक्' इत्यादिना साधुशब्दात्परस्यामो यादेशः । सूर्यस्ते उत्तमं लोकं ददात्वित्यर्थः ॥ ४३ ॥

चतुश्चत्वारिंशी ।
शं ते॒ परे॑भ्यो॒ गात्रे॑भ्य॒: शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्य॒: शम्व॑स्तु त॒न्वै तव॑ ।। ४४ ।।
उ० शं ते सुखं ते तव अस्तु । हे अश्व, परेभ्यः गात्रेभ्यः । शं सुखम् अवरेभ्यः अस्तु । शम् अस्थभ्यः अस्थिभ्यः मज्जभ्यश्च अस्तु । शं चास्तु तन्वै शरीराय । षष्ठ्यर्थे छन्दसि चतुर्थी वक्तव्येति षष्ठ्यर्थे चतुर्थी । तन्वाः तव ॥४४॥
म० हे अश्व, ते तव परेभ्योऽवयवेभ्य उच्चेभ्यः शिरआदिभ्यः शं सुखमस्तु । अवरेभ्यः अधःस्थेभ्यश्च पादादिभ्यो गात्रेभ्यः शमस्तु । अस्थभ्यः तवास्थिभ्यश्च शमस्तु । 'अस्थिदधि-' (पा. ७ । १ । ७५) इत्यस्यानुवृत्तौ 'छन्दस्यपि दृश्यते' (पा० ७ । १ । ७६ ) इति सूत्रेण हलादावप्यस्थिशब्दस्यानङादेशः । मज्जभ्यः पृष्ठधातुभ्योऽपि शमस्तु । किंबहुना तव तन्वै तन्वाः सर्वस्यापि शरीरस्य शमु सुखमेवास्तु ।। षष्ठी चतुर्थ्यर्थे । आशिषि वा चतुर्थी । उ एवार्थे ॥ ४४ ॥

पञ्चचत्वारिंशी।
कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुन॑: । किᳪ स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत् ।। ४५ ।।
उ० इत उत्तरं ब्रह्मोद्यमष्टादशर्चम् (उत्तरप्रत्युत्तरैः परस्परं संवादो ब्रह्मोद्यम्) । तत्राद्याश्चतस्रोऽनुष्टुभः कास्विदासीत्पूर्वचित्तिरित्याद्याश्च चतस्रोऽनुष्टुभः त्रिष्टुभोऽन्याः । होताध्वर्युं पृच्छति कः स्विदेकाकी इति ॥४५॥
म० 'प्राग्वपाहोमाद्धोताध्वर्युश्च सदसि संवदेते चतसृभिः' (का २० । ७ । १०)। कः स्विदेकाकीति पूर्ववत् । वपाहोमात्प्राक् च चतुर्ऋग्भिः पूर्ववदुक्तिप्रत्युक्त्या सदोमध्ये गत्वा होता अध्वर्युश्च संवादं कुरुतः । अष्टादश ऋचो ब्रह्मोद्यसंज्ञाः । ब्रह्मोद्यं परस्परं संवादः । आद्याश्चतस्रोऽनुष्टुभः का स्विदित्याद्याश्च (५३) अनुष्टुभः । होताध्वर्युं पृच्छति । व्याख्याता ॥४५॥

षट्चत्वारिंशी।
सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुन॑: । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ।। ४६ ।।
उ० तं प्रत्याह । सूर्य एकाकी चरति । अग्रे व्याख्यातौ ॥ ४६॥
म० व्याख्याता ॥ ४६ ॥

सप्तचत्वारिंशी।
किᳪ स्वि॒त्सूर्य॑समं॒ ज्योति॒: किᳪ स॑मु॒द्रस॑म॒ᳪ सर॑: । किᳪ स्वि॑त्पृथि॒व्यै वर्षी॑य॒: कस्य॒ मात्रा॒ न वि॑द्यते ।। ४७ ।।
उ० अध्वर्युर्होतारं पृच्छति । किᳪ स्वित्सूर्यसमं ज्योतिः । किंच समुद्रसमं सरः । किंस्वित्पृथिव्यै पृथिव्याः वर्षीयः महत्तरम् । कस्य च मात्रा परिमाणं न विद्यते नास्ति ॥ ४७ ॥
म० अध्वर्युर्होतारं पृच्छति । हे होतः, स्विदिति तर्के । सूर्यसमं सूर्यमण्डलतुल्यं ज्योतिः तेजः किं तत् ब्रूहि । समुद्रसमं सरः किं स्वित् । पृथिव्यै पृथिव्याः सकाशात् वर्षीयः महत्तरं किं स्वित् । 'प्रियस्थिर-' (पा० ६ । ४ । १५७) इत्यादिना वृद्धस्य वर्षादेशः । कस्य मात्रा परिमाणं न विद्यते ॥ ४७ ॥

अष्टचत्वारिंशी।
ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑म॒ᳪ सर॑: । इन्द्र॑: पृथिव्यै॒ वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते ।। ४८ ।।
उ० तं प्रत्याह । ब्रह्म सूर्यसमम् । ब्रह्म त्रयीलक्षणं परं वा सूर्यसमं ज्योतिः। द्यौः समुद्रसमं सरः। इन्द्रः पृथिव्यै वर्षीयान् महत्तरः । गोस्तु मात्रा न विद्यते । गवा हि यज्ञो धार्यते । स जातः कारणं भवतीत्येतदभिप्रायम् । पृथिवी वा गौः ॥४८॥
म०. होता प्रत्याह सूर्यसमं ज्योतिर्ब्रह्म त्रयीलक्षणं परं च । समुद्रसमं सरो द्यौरन्तरिक्षं यतो वृष्टिर्भवति । पृथिव्यै पृथिव्याः सकाशात् इन्द्रः वर्षीयान् वृद्धतरः । तु पुनः गोः धेनोः मात्रा न विद्यते यज्ञधारकत्वात् ॥ ४८ ॥

एकोनपञ्चाशी।
पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑ ।
येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मा वि॑वेशा३ ।। ४९ ।।