पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति श्रुतेः । सूचीनां दिग्रूपत्वादश्वसंस्कारक्षमत्वम् । ताः सूच्यः कर्मभिः अश्वदेहे सीमाकरणलक्षणैः युज्यन्ते योगं प्राप्नुवन्ति । सीमाकरणयोग्या भवन्तीत्यर्थः । कीदृश्यस्ताः । युजः युज्यन्ते ता युजः संयुताः । एकीभूता इत्यर्थः । ताः सूच्यो वाजिनो वेगवतोऽश्वस्य त्वचि सिमाः सीमारेखाः शम्यन्तु सम्यक् कुर्वन्तु। सिमाशब्दः सीमापर्यायः । कीदृश्यस्ताः । शम्यन्तीः शम्यन्त्यः संस्कारं कुर्वाणाः ॥ ३७ ॥

अष्टत्रिंशी।
कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ यज॑न्ति ।। ३८ ।।
उ० कुविदङ्गेति व्याख्यातम् ॥ ३८ ॥
म० इयं व्याख्याता (अ० १० । क० ३२ ) ॥ ३८ ॥

एकोनचत्वारिंशी।
कस्त्वाऽऽच्छ्य॑ति॒ कस्त्वा॒ विशा॑स्ति॒ कस्ते॒ गात्रा॑णि शम्यति । क उ॑ ते शमि॒ता क॒विः ।। ३९ ।।
उ० अश्वं विशास्ति अनुवाकेन षडृचेन । तत्राद्या गायत्री परा अनुष्टुभः । कस्त्वा । कः प्रजापतिः त्वाम् आच्छ्यति । 'छो छेदने' । आच्छिनत्ति त्वचः । कश्च प्रजापतिः त्वां विशास्ति त्वचा वियोजयति । कश्च प्रजापतिः ते तव गात्राणि शरीराणि शम्यति शमनेन हविर्भावमापादयति । क उ ते प्रजापतिरेव ते शमिता कविः मेधावी क्रान्तदर्शनः । यद्वा प्रश्नरूपोऽयं मन्त्रः । कोऽयं मनुष्यः त्वाम् आच्छ्यति कश्च त्वां विशास्ति कश्च ते गात्राणि शम्यति । कश्च उ ते शमिता कविः । न कश्चिदपीत्यभिप्रायः । उः पादपूरणः ॥ ३९ ॥
म० 'अश्वं विशास्त्यनुवाकेन कस्त्वाऽऽच्छ्यतीति' ( का. २०। ७ । ६)। षडृचेनानुवाकेनाश्वं विशास्ति अश्वोदरं पाटयति मेदस उद्धरणाय । वपाया अभावात् उदरमध्यस्थं स्त्यानं घृताभं घनं श्वेतं मांसं मेद इति सूत्रार्थः । अश्वदेवत्याः षडृचः। आद्या गायत्री । हे अश्व, कः प्रजापतिः त्वा त्वामाच्छ्यति छिनत्ति । 'छो छेदने' लट् 'ओतः श्यनि' (पा० ७ । ३ । ७१ ) इति ओकारलोपः । हे अश्व, कः त्वां विशास्ति त्वचा वियोजयति । ते तव गात्राणि कः शम्यति शमनेन हविः करोति । कः उ कश्च प्रजापतिरेव कविर्मेधावी ते तव शमिता शमयिता । प्रजापतिरेव सर्वं करोति नाहमित्यर्थः ॥ ३९॥

चत्वारिंशी।
ऋ॒तव॑स्त ऋतु॒था पर्व॑ शमि॒तारो॒ वि शा॑सतु । सं॒व॒त्स॒रस्य॒ तेज॑सा श॒मीभि॑: शम्यन्तु त्वा ।। ४० ।।
उ० यस्मिन् पक्षे कस्त्वा प्रजापतिस्त्वेति व्याख्यातं तस्मिन्पक्षे प्रतार्यते । ऋतवस्ते । ऋतवश्च तव शमितारः ऋतुथा ऋतावृतै काले काले पर्व पर्वणि । संवत्सरस्य च तेजसा । शमीभिः कर्मभिः शम्यन्तु शमनेन हविर्भावमापादयन्तु त्वां । हे अश्व, यदा तु कः त्वां विशासितुं समर्थों मनुष्य एवं व्याख्यातं तदा ऋतवो देवाः ते शमितार इत्येवं व्याख्येयम् ॥ ४० ॥
म० पञ्चानुष्टुभः । हे अश्व, ऋतवः शमितारः ऋतुथा ऋतौ ऋतौ काले काले ते तव पर्वणि पर्वणि अस्थिग्रन्थीन् शमीभिः कर्मभिः विशासतु भिन्नानि कुर्वन्तु । केन संवत्सरस्य संवत्सरात्मकस्य कालस्य तेजसा । किंच ऋतवः त्वा त्वां शम्यन्तु पर्वविशासनेन हविः कुर्वन्तु ॥ ४० ॥

एकचत्वारिंशी।
अ॒र्ध॒मा॒साः परू॑ᳪषि ते॒ मासा॒ आच्छ्य॑न्तु॒ शम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टᳪ सूदयन्तु ते ।। ४१ ।।
उ० अर्धमासाः पक्षाः मासाश्च ते तव परूंषि पर्वाणि आच्छ्यन्तु आच्छिन्दन्तु । शम्यन्तः शमनेन हविर्भावमापादयन्तः । किंच । अहोरात्राणि मरुतश्च विलिष्टं दुःश्लिष्टं सूदयन्तु । 'षूद क्षरणे' पठितोऽपीह संधाने वर्तते वाक्ययोगात् । संदधन्तु ते तव ॥ ४१ ॥
म० अर्धमासाः पक्षाः मासाश्च तदभिमानिनो देवाः शम्यन्तः संस्कुर्वन्तः सन्तो हे अश्व, ते तव परूंषि पर्वाणि आच्छ्यन्तु समन्ताच्छिन्दन्तु । 'ग्रन्थिर्ना पर्वपरुषी' इति कोशः । किंच अहोरात्राणि अहोरात्राभिमानिदेवा मरुतश्च देवाः ते तव विलिष्टं 'लिश अल्पीभावे' विशेषेणाल्पमङ्गम् तत् सूदयन्तु संदधतु 'सूद क्षरणे' अत्र सन्धानार्थः व्यर्थं मास्तु ॥४१॥

द्विचत्वारिंशी।
दैव्या॑ अध्व॒र्यव॒स्त्वाच्छ्य॑न्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ सिमा॑: कृण्वन्तु॒ शम्य॑न्तीः ।। ४२ ।।
उ०. दैव्या अध्वर्यवः । ये च दैव्या दिव्या अध्वर्यवः अश्विप्रभृतयः ते च त्वा त्वाम् आच्छ्यन्तु विच शासतु चकारो भिन्नक्रमः । विशासतु च । किंच गात्राणि पर्वशः ते तव सिमाः मर्यादाः कृण्वन्तु कुर्वन्तु । शम्यन्तीः मर्यादादर्शनेन शमनं कुर्वाणाः ॥ ४२ ॥
म०. देवानामिमे दैव्याः अश्विनौ देवानामध्वर्यू इत्युक्तत्वात् अश्विप्रमृतयो देवसंबन्धिनोऽध्वर्यवः हे अश्व, त्वा त्वामाच्छ्यन्तु आच्छिन्दन्तु विशासतु च । चकारो भिन्नक्रमः । हविः कुर्वन्तु । किंच ते तव गात्राणि । विभक्तिव्यत्ययः । गात्रेषु शरीरेषु पर्वशः पर्वणि पर्वणि सिमाः सीमा मर्यादाः