पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म०. 'इयं वेदिरित्यध्वर्युः' (का० २० । ७ । १५) । अध्वर्युः यजमानं प्रत्याह । इयं वेदिः उत्तरवेदिः पृथिव्याः परः अन्तोऽवधिः । वेदेः सर्वपृथ्वीरूपत्वादित्यर्थः । भुवनस्य नाभिः कारणम् । अयं यज्ञोऽश्वमेधः भुवनस्य प्राणिजातस्य नाभिः कारणम् । 'यज्ञाद्वै प्रजाः प्रजायन्ते' इति श्रुतेः । वृष्णः अश्वस्य रेतः अयं सोमः सोमलताश्वस्य वीर्याज्जातेत्यर्थः । अयं ब्रह्मा ऋत्विक् वाचः त्रयीरूपायाः परमं व्योम स्थानम् । ब्रह्मणस्त्रिवेदसंयोगादित्यर्थः । ब्रह्मोद्यं समाप्तम् ॥ ६२ ॥

त्रिषष्टी।
सु॒भूः स्व॑य॒म्भूः प्र॑थ॒मोऽन्तर्म॑ह॒त्य॒र्ण॒वे । द॒धे ह॒ गर्भ॑मृ॒त्वियं॒ यतो॑ जा॒तः प्र॒जाप॑तिः ।। ६३ ।।
उ० महिम्नः पुरोनुवाक्या । सुभूः स्वयंभूः । अनुष्टुप् प्राजापत्या । साधुभवनः स्वयंभूः स्वेच्छया गृहीतशरीरः। प्रथमः अनादिनिधनः पुरुषः । किमकरोदित्याह । अन्तर्महत्यर्णवे दधेह । अन्तर्महतोऽर्णवस्य । हेति निपातः पुराकल्पद्योतनार्थः । किं दधे । गर्भं ऋत्वियं प्राप्तकालम् । कथंभूतं गर्भम् । यतो जातः प्रजापतिः । यस्माद्गर्भात् जातः प्रजापतिः अनन्योपमः ॥ ६३ ॥
म०. सुभूरिति पूर्वस्य महिम्नः पुरोऽनुवाक्या उत्तरस्य याज्या च । 'उदिते ब्रह्मोद्यं संप्रपद्याध्वर्युर्हिरण्मयेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णाति तस्य पुरोरुग्घिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्याः सुभूः स्वयंभूः' (१३ । ५ । २।२३) इति श्रुतेः । प्रजापतिदेवत्यानुष्टुप् । ह इति प्रसिद्धम् । प्रथमः सर्वस्य आदिः अनादिनिधनः पुरुषः महति अर्णवे कल्पान्तकालीने समुद्रे अन्तर्मध्ये गर्भं दधे स्थापितवान् । कीदृशः । सुष्ठू भूरुत्पत्तिर्यस्मात्स सुभूः विश्वोत्पादकः । खयं भवतीति स्वयंभूः स्वेच्छाधृतशरीरः । कीदृशं गर्भम् । ऋत्वियम् ऋतुः प्राप्तो यस्य । घस्प्रत्ययः । प्राप्तकालम् । यतो गर्भात् प्रजापतिः ब्रह्मा जातः उत्पन्नः ॥ ६३ ॥

चतुःषष्टी।
होता॑ यक्षत्प्र॒जाप॑ति॒ᳪ सोम॑स्य महि॒म्नः । जु॒षतां॒ पिब॑तु॒ सोम॒ᳪ होत॒र्यज॑ ।। ६४ ।।
उ० प्रैषः । होता यक्षत् । दैव्यो होता यजतु । प्रजापतिम् सोमस्य महिम्नः संबन्धिनम् । स चेज्यमानः सन् जुषतां प्रीत्या परिगृह्णातु पिबतु च सोमम् । त्वमपि च हे मनुष्यहोतः, यज ॥ ६४ ॥
म० महिम्नः प्रैषः । 'होता यक्षत्प्रजापतिमिति प्रैषः' ( १३ । ५।२।२३) इति श्रुतेः । आर्षी गायत्री । महिम्नः सोमस्य महिमसंज्ञस्य सोमग्रहस्य संबन्धिनं प्रजापतिं होता दैव्यो यक्षत् यजतु । इज्यमानः स प्रजापतिः जुषतां सोमं महिमग्रहं पिबतु च । हे मनुष्यहोतः, त्वमपि यज ॥ ६४ ॥

पञ्चषष्टी ।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम् ।। ६ ५ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां त्रयोविंशोऽध्यायः ॥ २३ ॥
उ० प्रजापते न । व्याख्यातो मन्त्रः ॥ ६५॥
इति उवटकृतौ मन्त्रभाष्ये त्रयोविंशोऽध्यायः ॥ २३ ॥
म० पूर्वस्य महिम्नो याज्या । 'प्रजापते न त्वदेतान्यन्य इति होता यजतीति' (१३ । ५ । २ । २३) इति श्रुतेः । व्याख्याता (१० । २०)॥६५॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
त्रयोविंशोऽयमध्यायो व्यरंसीदाश्वमेधिकः ॥ २३ ॥

चतुर्विशोऽध्यायः।
तत्र प्रथमा ।
अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑व आग्ने॒यो र॒राटे॑ पु॒रस्ता॑त्सारस्व॒ती मे॒ष्यधस्ता॒द्धन्वो॑राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्या॑ᳪ सौर्यया॒मौ श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयो॑स्त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्य॒: श्वे॒तः पुच्छ॒ इन्द्रा॑य स्वप॒स्या॒य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः ।। १ ।।
उ० इतउत्तरं श्रुतिरूपा मन्त्रा आश्वमेधिकानां पशूनां देवतासंबन्धाभिधायिनोऽध्यायेनोच्यन्ते । अश्वस्तूपरोगोमृगस्ते प्राजापत्या इति शतपथोप्येतमध्यायं श्रुतिकृत्याह । अश्वस्तूपरोगो मृग इति । तन्मध्ये यूप आलभत इत्यादिना ग्रन्थेन दिङ्मात्रं प्रदर्शयन् सूत्रकृता चायमध्यायः सूत्रीकृतः । येनैवमाह अग्निष्टे अश्वस्तूपरो गोमृगान्नियुनक्ति । यथोक्तमश्वादौ देवता इति । तत्र वैष्णवो वामन इत्येवमन्ताः पर्यंग्याः । अश्वः तूपरो निःशृङ्गः गोमृगो गवयः एते प्रजापतिदेवत्याः । कृष्णग्रीवश्छाग आग्नेयः पुरस्ताल्ललाटे अश्वस्य बन्धनीय इति शेषः । एवं सारस्वती मेषी अधस्ताद्धन्वोः आश्विनौ अधोरामौ अधः शुक्रौ च्छागौ पूर्वपादयोः सोमपूषदेवत्यो नाभ्याम् बन्ध० । सूर्यदेवत्यः श्वेतयमदेवताः कृष्णश्च पार्श्वयोः लोमयुते सक्थनी ययोस्तौ त्वष्टृदेवत्यौ सक्थाः । वायव्यः श्वेतः पुच्छे स्वपस्याय शोभनकर्मणे इन्द्राय वेहत् विष्णुदेवत्यो वामनश्च पशुः अश्वस्य पुच्छ एव । एते पर्यंग्याः । एवमग्रेऽपि देवतापशुबन्धो ज्ञेयः । ललाटादिषु पशुबन्धनायाश्वशरीरं रज्जुभिर्वेष्टनीयम् । एते मध्यमयूपे ॥ १ ॥