पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० उद्गाता वावातामभिमेथयति ऊर्ध्वामेनाम् कंचित्पुरुषमाह । ऊर्ध्वामेनां वावाताम् उच्छ्रितां कुरु । कथमिव । गिरौ भारं मध्ये निगृह्य हरेत् एवमेनां मध्ये निगृह्य ऊर्ध्वामुच्छ्रापय । अथ यथेत्येतस्य स्थाने । तथाच उच्छ्रापय यथा अस्या वावाताया मध्यं योनिप्रदेशः एधताम् । 'एध वृद्धौ' वृद्धिं यायात् अथैनां गृह्णीयाः । शीते वाते पुनन्निव । यथा कृषीवलः धान्यं वाते शुद्धं कुर्वन् ग्रहणमोक्षौ झटिति करोति ॥ २६ ॥
म० उद्गाता वावातामाह । कंचिन्नरं प्रत्याह । हे नर, एनां वावातामूर्ध्वमुच्छ्रापय उच्छ्रितां कुरु । कथमिव । गिरौ भारं हरन्निव । यथा कश्चित् गिरौ पर्वते भारं हरन् पर्वतोपरि भारमारोपयन् यथा तमुच्छ्रयति तथैनामूर्ध्वां कुरु । कथमूर्ध्वा कार्या तदाह । अथेति निपातो यथार्थः । यथा अस्यै अस्या वावाताया मध्यमेधतां योनिप्रदेशो वृद्धिं यायात् । यथा योनिर्विशाला भवति तथा मध्ये गृहीत्वोच्छ्रापयेत्यर्थः । दृष्टान्तान्तरमाह । शीते वाते पुनन्निव । यथा शीतले वायौ वाति पुनन्धान्यपवनं कुर्वाणः कृषीवलो धान्यपात्रं यथा ऊर्ध्वं करोति तथेत्यर्थः ॥ २६ ॥

सप्तत्रिंशी।
ऊ॒र्ध्वमे॑न॒मुच्छ्र॑यताद्गि॒रौ भा॒रᳪ हर॑न्निव । अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व ।। २७ ।।
उ० वावाता प्रत्याहोद्गातारम् । भवतोप्येतदेवम् । ऊर्ध्वमेनम् । उद्गातारमुच्छ्रयतात् उच्छ्रापय । अत्र स्त्री पुरुषायते । गिरौ भारं हरन्निव । अथैवं क्रियमाणस्यास्य मध्यं प्रजननम् एजतु चलतु । अथैनं निगृहीष्व शीते वाते पुनन्निव यवान् ॥ २७ ॥
म० वावातोद्गातारं प्रत्याह । भवतोऽप्येतत्समानम् । हे नर, एनमुद्गातारमूर्ध्वमुच्छ्रयतात् ऊर्ध्वं कुरु । गिरौ भारमिति पूर्ववत् । अथ यथास्य उद्गातुर्मध्यं लिङ्गमेजत् कम्पताम् ‘एजृकम्पने' लोट् । शीते वाते उक्तम् ॥ २७ ॥

अष्टाविंशी।
यद॑स्या अᳪहु॒भेद्या॑: कृ॒धु स्थू॒लमु॒पात॑सत् । मु॒ष्काविद॑स्या एजतो गोश॒फे श॑कु॒लावि॑व ।। २८ ।।
उ० होता परिवृक्तामभिमेथयति । यदस्याः । यत् यदा अस्याः परिवृक्तायाः । अंहुभेद्याः अल्पयोनेः । अंहुः हन्तव्यः भेद्यप्रदेशः प्रजननमस्या इति अंहुभेदी तस्याः अंहुभेद्याः । कृधु इति ह्रस्वनाम । ह्रस्वं शिश्नम् स्थूलं च उपातसत् उपसङ्गच्छेत् । अथ तदा अल्पत्वात् योनेः स्थूलत्वात् ह्रस्वत्वाच्च दुःप्रजननस्य । मुष्कौ वृषणौ इत् एवम् अस्याः प्रजननस्योपरि एजतः । 'एजृ कम्पने' कम्पनं कुरुतः । कथमिव गोशफे गोष्पदे उदकपूर्णे । शकुलाविव मत्स्याविव ॥२८॥
म० होता परिवृक्तामाह । यत् यदा अस्याः परिवृक्तायाः कृधु ह्रस्वं स्थूलं च शिश्नमुपातसत् उपगच्छेत् योनिं प्रति गच्छेत् 'तंस उपक्षये' तदा मुष्कौ वृषणौ इत् एव अस्याः योनेरुपरि एजतः कम्पेते । लिङ्गस्य स्थूलत्वाद्योनेरल्पत्वाद्वृषणौ बहिस्तिष्ठत इत्यर्थः । तत्र दृष्टान्तः । गोशफे जलपूर्णे गोः खुरे शकुलौ मत्स्याविव यथा उदकपूर्णे गोः पदे मत्स्यौ कम्पेते । कृध्विति ह्रस्वनाम । कीदृश्या अस्याः । अंहुभेद्याः अंहु भगं भेद्यं विदार्यं यस्याः सा अंहुभेदी तस्याः, अंहुर्भिद्यते यस्या वा ॥ २८ ॥

एकोनत्रिंशी।
यद्दे॒वासो॑ ल॒लाम॑गुं॒ प्र वि॑ष्टी॒मिन॒मावि॑षुः । स॒क्थ्ना दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॒ यथा॑ ।। २९ ।।
उ० परिवृक्ता प्रत्याह । यद्देवासः । होतृप्रमुखान् सर्वानेव ऋत्विजः परिवदति । यदा एते देवासः शिश्नदेवाः शिश्नक्रीडनाः । ललामगुम् । ललामेति सुखमभिधीयते । सुखं कर्तुं गच्छतीति ललामगुः शिश्नम् । यद्वा ललामेति पौण्ड्रमभिधीयते । शिश्नं हि योनिं प्रविशत् पौण्ड्रं भवति । प्रविष्टीमिनम् प्रवेश्य विष्टभ्य च । आविषुः आलिङ्गनचुम्बनादिभिर्निगृह्णीयुर्नारीम् । अथ तदा सक्थ्ना देदिश्यते नारी सक्थिकृतेन कुटिलगमनेन निर्दिश्यते लक्ष्यते नारी । नहि तस्याः किंचिदव्याप्तं पुरुषेण भवति अन्यत्र सक्थ्न इत्यभिप्रायः । कथमिव सत्यस्याक्षिभुवो यथा। द्विप्रकारं सत्यम् अक्षिप्रभवमनक्षिप्रभवं चेति । | अक्षिग्राह्यमक्षिप्रभवम् । तत्र हि सर्वं व्याप्तं भवति । अनक्षिप्रभवं श्रोत्रग्राह्यम् । तत्तु साकाङ्क्षं वक्तुराप्ततामपेक्षते । अतो विशिनष्टि अक्षिभुव इति । सत्यस्य अक्षिभुवो यथा अवितथत्वं तथेति ॥ २९॥
म० परिवृक्ता होतारमाह । यत् यदा देवासः देवाः दीव्यन्ति क्रीडन्ति देवा होत्रादय ऋत्विजो ललामगुं लिङ्गं प्र आविषुः योनौ प्रवेशयन्ति । 'अव रक्षे गतौ कान्तौ तृप्तौ ' प्रीतौ द्युतौ श्रुतौ । प्राप्तौ श्लेषेऽर्पणे वेशे भागे वृद्धौ गृहे वधे ॥'इत्युक्तेरत्रावधातुः प्रवेशनार्थः । लुङ् 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६ ) इति वर्तमाने लुङ् 'व्यवहिताश्च' (पा. १।४। ८२) इति प्रोपसर्गेण व्यवधानम् । ललामेति सुखनाम । ललाम सुखं गच्छति प्राप्नोति ललामगुः शिश्नः । यद्वा 'ललामं पुण्ड्रं गच्छति ललामगुः लिङ्गं योनिं प्रविशदुत्थितं पुड्राकारं भवतीत्यर्थः । कीदृशं ललामगुम् । विष्टीमिनं 'ष्टीम क्लेदे' विशेषेण स्तीमनं क्लेदनं विष्टीमः घञ्प्रत्ययः विष्टीमः क्लेदोऽस्यास्ति विष्टीमी तम् 'अत इनिठनौ' (पा० ५।२। । ११५) इत्यस्त्यर्थे इनिप्रत्ययः । शिश्नस्य योनिप्रवेशे क्लेदनं भवतीत्यर्थः । यदा देवाः शिश्नक्रीडिनो भवन्तो ललामगुं योनौ प्रवेशयन्ति तदा नारी सक्थ्ना ऊरुणा ऊरुभ्यां देदिश्यते