पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निर्दिश्यते अत्यन्तं लक्ष्यते । दिश्यतेर्यङ्प्रत्ययः । भोगसमये सर्वस्य नार्यङ्गस्य नरेण व्याप्तत्वादूरुमात्रं लक्ष्यते इयं नारीत्यर्थः । तत्र दृष्टान्तः । सत्यस्याक्षिभुवो यथेति । सत्यं द्विविधम् अक्षिभ्यां भवतीत्यक्षिभु प्रत्यक्षं । एकं च श्रोत्रग्राह्यम् । षष्ठ्यौ तृतीयार्थे । भवति यथा कश्चिदक्षिभुवा प्रत्यक्षेण सत्येन निर्दिश्यते तत्र विश्वासो भवति तथा उरुणा दृष्टेन नारीति लक्ष्यत इत्यर्थः । श्रोत्रग्राह्ये तु सत्ये वक्तुराप्ततमत्वमपेक्षितम् ॥ २९ ॥

त्रिंशी।
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ।। ३० ।।
उ० क्षत्ता पालागलीमभिमेथयति । यद्धरिणः । यदा हरिणो मृगः यवं सस्यम् अत्ति भक्षयति । अथ तदा क्षेत्री। न पुष्टं पशु । पशुमिति प्राप्ते विभक्तिलोपः । पुष्टं पशुम् मन्यते अवगच्छति । मम क्षेत्रं भक्षितमिति यथा । एवं शूद्रा यत् यस्य शूद्रस्य भर्तुः । अर्यजारा अर्यः वैश्यः जारो यस्याः सा अर्यजारा भवेत् तदा स शूद्रः क्षेत्री । न पोषाय ममैतदिति मन्यते । नच तस्यां धनायति धनमिव च तां न मन्यते परस्योपभोग्यत्वात् ॥ ३०॥
म० क्षत्ता पालागलीमाह । यत् यदा हरिणो यवमत्ति मृगो यदा क्षेत्रस्थं धान्यं भक्षयति तदा क्षेत्री पशु पशुं हरिणं पुष्टं न मन्यते मम धान्यभक्षणेन पशुः पुष्टो जातः सम्यगिति न जानाति किंतु मदीयं क्षेत्रं भक्षितमिति दुःखी भवतीत्यर्थः । पशुशब्दात् 'सुपां सुलुक्' इत्यमो लुक् । एवं शूद्रा शूद्रजातिः स्त्री यदा अर्यजारा भवति 'अर्यः स्वामिवैश्ययोः' (पा० ३।१।१०३) इति निपातनादर्यो वैश्यो जार उपपतिर्यस्याः सा अर्यजारा । 'शूद्रा चामहत्पूर्वा जातिः' (पा. ४।१।४) इति शूद्राज्जात्यर्थे टाप् । वैश्यो यदा शूद्रां गच्छति तदा शूद्रः पोषाय न धनायते पुष्टिं न गच्छति मद्भार्या वैश्येन भुक्ता सती पुष्टा जातेति न मन्यते किंतु व्यभिचारिणी जातेति दुःखितो भवतीत्यर्थः । 'अशनायोदन्य-' (पा. ७ । ४ ।। ३४) इति क्यचि धनायतीति इच्छार्थे निपातः ॥ ३० ॥

एकत्रिंशी।
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं ब॒हु मन्य॑ते । शू॒द्रो यदर्या॑यै जा॒रो न पोष॒मनु॑ मन्यते ।। ३१ ।।
उ० पालागली प्रत्याह । यद्धरिणो यवमत्ति न पुष्टं बहु मन्यते क्षेत्रीति । यदुक्तं भवतोप्येतदेवमिति सोल्लुण्ठमाह ।' इयांस्तु विशेषः । शूद्र यत् अर्यायै अर्यायाः वैश्यायाः जारः जारयिता । तदा क्षेत्री वैश्यः आत्मनः पोषं नानुमन्यते । नहि सा तस्य पोष्या निकृष्टश्च शूद्रः उत्कृष्टा वैश्या इति । समाप्तमश्लीलभाषणम् ॥ ३१ ॥
म० पालागली क्षत्तारमाह । यदा हरिणो यवमत्ति तदा बहु यथा तथा पशुं पुष्टं न मन्यते । इदं भवतोऽपि तुल्यम् । इयान् विशेषः । यत् यदा शूद्रः अर्यायै अर्याया वैश्याया जारो भवति तदा वैश्यः पोषं पुष्टिं नानुमन्यते मम स्त्री पुष्टा जातेति नानुमन्यते किंतु शूद्रेण नीचेन भुक्तेति क्लिश्यतीत्यर्थः । अश्लीलभाषणं समाप्तम् ॥ ३१ ॥

द्वात्रिंशी।
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयू॑ᳪषि तारिषत् ।। ३२ ।।
उ० ऋत्विजो यजमानश्च सुरभिमतीमृचमन्तत आहुः वाचमेवं पुनन्ति । दधिक्राव्णः । अनुष्टुब्वैश्वदेवत्या । यत् दधिक्राव्णः अश्वस्य संस्कारार्थमश्लीलभाषणं अकारिषं अकार्षम् अकार्ष्म कृतवन्तः । वचनव्यत्ययः एकवचनस्य स्थाने बहुवचनं बोध्यम् । उपरिष्टाद्बहूनि पदानि बहुवचनान्तानि दृश्यन्ते । किंभूतस्य दधिक्राव्णः । जिष्णोः जेतुः अश्वस्य अशनस्य व्यापिनः वाजिनः। 'ओविजी भयचलनयोः' वेजनवतः तत्र सुरभीणि सुगन्धीनि । अश्लीलभाषणेन हि दुर्गन्धीनि मुखानि भवन्ति पापहेतुत्वात् । नः अस्माकं मुखानि । निकारलोपश्छान्दसः । करत् करोतु यज्ञ इत्यध्याहारः । किंच । प्राणः आयूंषि तारिषत् । प्रतारिषत् प्रवर्धयतु च नः अस्माकम् । बहुवचनं बालयौवनवृद्धवयोपेक्षम् ॥३२॥
म० 'महिषीमुत्थाप्य पुरुषा दधिक्राव्ण इत्याहुः' ( का० २० । ६ । २१)। महिषीं यजमानस्य प्रथमपरिणीतां पत्नीमश्वसमीपसुप्तामुत्थाप्य पुरुषा अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारो मन्त्रं पठेयुरिति सूत्रार्थः । वामदेवात्मजदधिक्रावदृष्टाश्वदेवत्यानुष्टुप् । वयमध्वर्यादयः अकारिषमकार्ष्म कृतवन्तः । वचनव्यत्ययः । अश्लीलभाषणमिति शेषः । किमर्थम् । अश्वस्य संस्कारायेति शेषः । अश्वसंस्कारायाश्लीलभाषणं कृतवन्त इत्यर्थः । कीदृशस्याश्वस्य । दधिक्राव्णः दधाति धारयति नरमिति दधिः 'आदृगमहन-' (पा० ३।२ । १७१) इति किप्रत्ययः । । दधिः सन् क्रामतीति दधिक्रावा । तस्य 'अन्येभ्योऽपि दृश्यते' (पा० ३ । २ । ७५) इति वनिप्प्रत्ययः 'विड्वनोरनुनासिकस्यात्-' (पा० ६ । ४ । ४१) इति धातोराकारः । जिष्णोः जयनशीलस्य । वाजिनः वजति गच्छतीति वाजी वाजोऽस्यास्तीति वा वाजी तस्य च नोऽस्माकं मुखा मुखानि सुरभि सुरभीणि करत् करोतु यज्ञ इति शेषः । अश्लीलभाषणेन दुर्गन्धं प्राप्तानि 'मुखानि सुरभीणि यज्ञः करोत्वित्यर्थः । तथाच श्रुतिः 'सुरभिमतीमृचमन्ततोऽन्वाहुर्वाचमेव पुनन्तः (१३ । २ । ९ । ९) इति । सुरभिशब्दाद्विभक्तिलोपः । किंच नोऽस्माकमायूंषि जीवनानि बाल्ययौवनवार्धकानि प्रतारिषत् प्रतारयतु प्रवर्धयतु । लेटि रूपम् ॥ ३२॥