पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अल्पीयसी पक्षिणीव । आहलक् इति प्रकारवचनम् । हलेहले इति ब्रुवन्ती । वञ्चति त्वरितं गच्छति । चपलेत्यर्थः । तस्या अपि आहन्ति । हन्तिर्गत्यर्थः। आगच्छति । अन्तर्भावितण्यर्थो वा । आगमयति प्रवेशयति । अत्यर्थं वाहन्ति । गभे पसः गभ इति आद्यन्तवर्णविपर्ययः । पसः पसतेः स्पृशतिकर्मणः । भगे शिश्नमाहन्तीत्यर्थः । अथ तदा निगल्गलीति अत्यर्थं शुक्रं मुञ्चति धारका योनिः । यद्वा शब्दानुकरणम् निगल्गलीति गिरते वा । निगिरति शिश्नं योनिः ॥ २२ ॥
म० 'अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यकासकाविति दशर्चस्य द्वाभ्यां द्वाभ्याᳪ हये-हयेऽसावित्यामन्त्र्यामन्त्र्य' ( का० २० । १।१८) । अध्वर्य्वादयः पञ्च हये हयेऽसाविति संबुद्ध्यन्तनामोच्चारणपूर्वकं संमुखीकृत्य यकासकाविति दशर्चसंबन्धिनीभ्यां द्वाभ्यामृग्भ्यां कुमारीपत्नीभिः सहसोपहासं संवदन्ते । तत्र प्रथममध्वर्युः कुमारीं पृच्छति कुमारि हये हये कुमारि यकासकौ शकुन्तिकेत्यर्थः । कुमार्यादिदेवत्या दश तन्मध्ये द्वितीयोपरिष्टाद्बृहती अन्या नवानुष्टुभः । 'अव्ययसर्वनाम्नामकच्प्राक्टेः' (पा० ५। ३ । ७१) इति अकच् कुत्सायाम् । अल्पा शकुन्तिः शकुन्तिका 'अल्प' (पा० ५। ३ । ८५) इति कन् । अङ्गुल्या योनिं प्रदर्शयन्नाह । यका या असकौ असौ शकुन्तिका अल्पपक्षिणीव आहलक् शब्दानुकरणम् । हले हले इति शब्दयन्ती वञ्चति गच्छति । स्त्रीणां शीघ्रगमने योनौ हलहलाशब्दो भवतीत्यर्थः । गभे वर्णविपर्यय आर्षः । भगे योनौ शकुनिसदृश्यां यदा पसो लिङ्गमाहन्ति आगच्छति । 'पस इति पसतेः स्पृशतिकर्मणः' (निरु. ५। १६) इति यास्कः । पुंस्प्रजननस्य नाम । हन्तिर्गत्यर्थः । यदा भगे शिश्नमागच्छति तदाधारका धरति लिङ्गमिति धारका योनिर्निगल्गलीति नितरां गलति वीर्यं क्षरति । यद्वानुकरणम् । गल्गलेति शब्द करोति ॥ २२ ॥

त्रयोविंशी।
य॒को॒ऽस॒कौ श॑कुन्त॒क आ॒हल॒गिति॒ वञ्च॑ति । विव॑क्षत इव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः ।। २३ ।।
उ० अध्वर्युं प्रत्याह कुमारी। यकोऽसकौ । यकः असकौ यः असौ शकुन्तक इव आहलगिति वञ्चति । तस्याश्लीलं भाषिणः किमन्यत् ब्रवीमि । विवक्षत इव ते मुखम् । असाधु वक्तुमिच्छत इव ते मुखं पश्यामि अतो हे अध्वर्यो, मा नः अस्मान् त्वमभिभाषथाः ॥ २३ ॥
म० कुमारी अध्वर्युं प्रत्याह । अङ्गुल्या शिश्नं प्रदर्शयन्त्याह । हे अध्वर्यो, यकः यः असकौ असौ शकुन्तकः पक्षीव विवक्षतः वक्तुमिच्छतस्ते तव मुखमिव आहलगिति वञ्चति इतस्ततश्चलति अग्रभागे सच्छिदं लिङ्गं तव मुखमिव भासते । अतो नोऽस्मान्प्रति मा अभिभाषथाः मा वद तुल्यत्वात् ॥ २३ ॥

चतुर्विशी।
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः । प्रति॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तᳪसयत् ।। २४ ।।
उ० ब्रह्मा महिषीमभिमेथति । माता च ते । हे महिषि, यदा माता च तव पिता च तव । अग्रं वृक्षस्य । वार्क्ष्यस्येति तद्धितलोपः । वार्क्ष्यस्य पर्यङ्कस्य उपरितनं भागं रोहतः मैथुनार्थमेकं पर्यङ्कमारोहत इति अश्लीलाभिप्रायं वचनम् तदा प्रतिलामीति 'तिल स्नेहने' । स्नेहाम्यहमनेन कर्मणा इति एवमिति प्रकारवचनं वदन् । तव पिता गभे भगे मुष्टिं मुष्ट्याकारं शिश्नम् अतंसयत् अक्षिपत् । एवं तवोत्पत्तिः ॥ २४ ॥
म० ब्रह्मा महिषीमाह । महिषि हे महिषि, ते तव माता च पुनस्ते तव पिता यदा वृक्षस्य वृक्षजस्य काष्ठमयस्य मञ्चकस्याग्रमुपरिभागं रोहतः आरोहतः तदा ते पिता गभे भगे मुष्टिं मुष्टितुल्यं लिङ्गमतंसयत् तंसयति प्रक्षिपति एवं तवोत्पत्तिरित्यश्लीलम् । 'तसि अलंकृतौ' चुरादिः । लिङ्गमुत्थानेनालंकरोति वा । किं कुर्वन् । प्रतिलामीति वदन्निति शेषः । 'तिल स्नेहने' तव भोगेन स्निह्यामीति वदन् । एवं तवोत्पत्तिः ॥ २४ ॥

पञ्चविंशी।
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रे॑ वृ॒क्षस्य॑ क्रीडतः । विव॑क्षत इव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु ।। २५ ।।
उ० महिषी प्रत्याह । माता च ते। हे ब्रह्मन् , यदा माता च ते पिता च ते अग्रे वृक्षस्य पर्यङ्कस्य क्रीडतः । तदा त्वमुत्पन्नः । तुल्योत्पत्तिरावयोः। यश्चोभयोर्दोषो न तमेकश्चोदयितुमर्हति । एवं सति यदसाधु वदितुमिच्छत इव ते मुखं पश्यामि तत् हे ब्रह्मन्, मा त्वं वदो बहु ॥ २५॥
म० सानुचरी महिषी ब्रह्माणं प्रत्याह । हे ब्रह्मन् , ते तव माता ते पिता च यदि वृक्षस्य वृक्षविकारस्य मञ्चकस्याग्रे क्रीडतः रमेते तदा तवोत्पत्तिरिति तवापि तुल्यम् । 'यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनयोक्तव्यस्तादृगर्थविचारणे' इति न्यायात्त्वयेदं न वक्तव्यमिति भावः । एवं सत्यपि विवक्षतः वक्तुमिच्छोरिव ते तव मुखं लक्ष्यत इति शेषः । हे ब्रह्मन् , त्वं मा बहु वदः मा ब्रूहि ॥ २५ ॥

षड्विंशी।
ऊ॒र्ध्वमे॑ना॒मुच्छ्रा॑पय गि॒रौ भा॒रᳪ हर॑न्निव । अथा॑स्यै॒ मध्य॑मेधताᳪ शी॒ते वाते॑ पु॒नन्नि॑व ।। २६ ।।