पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पत्न्यः त्रिः परियन्त्यश्वम् । गणानां त्वा स्त्रीगणानां मध्ये त्वां युगपत् गणपतिं हवामहे आह्वयामः । एवमेव । प्रियाणां मनुष्याणां मध्ये त्वामेव प्रियपतिं प्रियं भर्तारं हवामहे । एवमेव निधीनां सुखनिधीनां मध्ये त्वामेव निधिपतिं हवामहे । कथं कृत्वा । हे वसो अश्व, मम त्वं पतिर्भूयाः इति । महिषी अश्वमुप संविशति । आहमजानि । आकृष्य अहम् अजानि 'अज गतिक्षेपणयोः' । क्षिपामि । गर्भधं गर्भस्य धारयितृ रेतः । आत्वमजासि गर्भधम् । आकृष्य च त्वं हे अश्व, अजासि क्षिपसि गर्भधं रेतः ॥१९॥
म० अश्वं त्रिस्त्रिः परियन्ति पितृवन्मध्ये गणानां प्रियाणां निधीनामिति' (का० २० । ६ । १३)। सर्वाः पत्न्यः पान्नेजनहस्ता एव प्राणशोधनात्प्राक् अश्वं त्रिस्त्रिः परियन्ति मध्ये पितृवत् अप्रदक्षिणं परियन्ति त्रिः त्रिभिर्मन्त्रैः । वसो ममेति त्रिष्वप्यनुषङ्गः । ततश्चैवं प्रथमं गणानामिति त्रिः प्रदक्षिणं परियन्ति । तत्र सकृन्मन्त्रेण द्विस्तूष्णीम् । ततः प्रियाणामित्यप्रदक्षिणं त्रिः निधीनामिति प्रदक्षिणं त्रिः एवं नवकृत्व इति सूत्रार्थः । त्रीणि यजूंषि लिङ्गोक्तदेवत्यानि । हे अश्व, वयं त्वां हवामहे आह्वयामः । कीदृशं त्वाम् । गणपतिं गणानां मध्ये गणपतिं गणरूपेण पालकम् । प्रियाणां वल्लभानां मध्ये प्रियपतिं प्रियस्य पालकम् । निधीनां सुखनिधीनां मध्ये निधिपतिं सुखनिधेः पालकं त्वां हवामहे । हे वसुरूप अश्व, मम पतिस्त्वं भूया इति शेषः । 'प्रक्षालितेषु महिष्यश्वमुपसंविशत्याहमजानीति' (का० २०।६।१४)। प्रक्षालितेषु शोधितेषु पशूनां प्राणेषु पत्नीभिरध्वर्युणा यजमानेन प्राणशोधने कृते महिषी अश्वसमीपे शेते । अश्वदेवत्यम् । हे अश्व, गर्भधं गर्भं दधाति गर्भधं गर्भधारकं रेतः अहम् आ अजानि आकृष्य क्षिपामि । 'अज गतिक्षेपणयोः' लोट् । तं च गर्भधं रेतः आ अजासि आकृष्य क्षिपसि ॥ १९॥

विंशी।
ता उ॒भौ च॒तुर॑: प॒दः सं॒प्रसा॑रयाव स्व॒र्गे लो॒के प्रोर्णु॑वाथां॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु ।। २० ।।
उ० ता उभौ । यो आवां कृतसंकेतौ तौ उभौ त्वं चाहं च । चतुरः पदः पादान् । द्वौ तव संबन्धिनौ द्वौ च मम संबन्धिनौ । संप्रसारयाव । एवं हि संबन्धे संवेशप्रकार इत्यभिप्रायः । अधीवासेन प्रच्छादयति । स्वर्गे लोके । 'एष वै स्वर्गो लोको यत्र पशुᳪ संज्ञपयन्ति' । प्रोर्णुवाथाम् । उर्णोतिराच्छादने । प्रोर्णुवनं कुरुतमित्यध्वर्युराह । अश्वशिश्नमुपस्थे कुरुते । वृषा वाजी वृषा सेक्ता वाजी अश्वः रेतोधा रेतसः धारयिता रेतो दधातु आसिञ्चतु ॥ २०॥
म० पूर्वमन्त्रशेषः । तौ त्वमहं च उभौ चतुरः पदः पादा नावां संप्रसारयाव तव द्वौ मम द्वौ एवं संवेशनप्रकारः । 'अधीवासेन प्रच्छादयति स्वर्गे लोक इति' ( का० २० । ६ ।१४) । अधीवासेनाश्वमहिष्यौ छादयति अध उपरिष्टाच्चाच्छादनक्षमं वासोऽधीवासः । अश्वदेवत्यम् । अध्वर्युर्वदति । हे अश्वमहिष्यौ, युवां स्वर्गे लोकेऽस्यां यज्ञभूमौ प्रोर्णुवाथां वास आच्छादयतम् । 'ऊर्णुञ् आच्छादने' 'एष वै स्वर्गों लोको यत्र पशुᳪ संज्ञपयन्ति' (१३ । २ । ८ । ५) इति श्रुतेः। 'अश्वशिश्नमुपस्थे कुरुते वृषा वाजीति' (का० २० । ६ । १६)। महिषी स्वयमेवाश्वशिश्नमाकृष्य स्वयोनौ स्थापयति । अश्वदेवत्यम् । वाजी अश्वो रेतो दधातु मयि वीर्यं स्थापयतु । कीदृशोऽश्वः । वृषा सेक्ता रेतोधाः रेतो दधातीति रेतोधाः वीर्यस्य धारयिता ॥ २०॥

एकविंशी।
उत्स॑क्थ्या॒ अव॑ गु॒दं धे॑हि॒ सम॒ञ्जिं चा॑रया वृषन् । यः स्त्री॒णां जी॑व॒भोज॑नः ।। २१ ।।
उ० उत्सक्थ्या । गायत्र्याऽश्वं यजमानोऽभिमन्त्रयते । उद्गते सक्थिनी यस्याः सा उत्सक्थी तस्या उत्सक्थ्या महिष्याः। अवगुदं धेहि अवाचीनं गुदम् रेतो धेहि सिञ्च । कथमितिचेत् । समञ्जिं चारया वृषन् संचारय अञ्जिम् । अनक्ति व्यनक्ति पुंस्त्वमित्यञ्जिः पुंस्त्वजननमुक्तम् । हे वृषन् सेक्तः । कथंभूतोऽञ्जिः । यः स्त्रीणां जीवभोजनः यस्मिन्सति स्त्रियो जीवन्तीत्युच्यन्ते । यस्मिंश्च सति भोजनादीन् भोगान् लभ्यते । स जीवभोजनः ॥ २१ ॥
म० 'उत्सक्थ्या इत्यश्वं यजमानोऽभिमन्त्रयते' (का० २० । ६ । १७)। अश्वदेवत्या गायत्री । हे वृषन् सेक्तः अश्व, महिष्या गुदमव गुदोपरि रेतो धेहि वीर्यं धारय । कीदृश्याः । उत्सक्थ्याः उत् ऊर्ध्वे सक्थिनी ऊरू यस्याः सा उत्सक्थी तस्याः । कथं तदाह । अञ्जिं लिङ्गं संचारय । अनक्ति व्यनक्ति पुंस्त्वमित्यञ्जिर्लिङ्गम् । लिङ्गं योनौ प्रवेशय । योऽञ्जिः स्त्रीणां जीवभोजनः जीवयति जीवः भोजयति भोजनः जीवश्चासौ भोजनश्च जीवभोजनः । यस्मिन् लिङ्गे योनौ प्रविष्टे स्त्रियो जीवन्ति भोगांश्च लभन्ते तं प्रवेशय ॥ २१ ॥

द्वाविंशी।
य॒कास॒कौ श॑कुन्ति॒काऽऽहल॒गिति॒ वञ्च॑ति । आह॑न्ति ग॒भे पसो॒ निग॑ल्गलीति॒ धार॑का ।। २२ ।।
उ० इत उत्तरं दशानुष्टुभोऽभिमेथिन्यः । पुंस्त्वजननमुक्तम् । द्वितीयोपरिष्टाद्बृहती । अत्र च यो यत्र भण्यते स तत्र देवतात्वमुपगच्छति । अध्वर्युः कुमारीमभिमेथयति । | यकासकौ । अकच्प्रत्ययोऽत्र कुत्सायाम् । अङ्गुल्या प्रदर्शयन्नाह । यकाऽसकौ शकुन्तिका । अल्पे कन् प्रत्ययः ।