पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


उ० नवै ।वै उ पादपूरणौ । न एतत् म्रियसे यत् संज्ञप्यसे। न च रिष्यसि विनश्यसि विशस्यमानः । किमिति । यत् देवान् इत्प्रति एषि गच्छसि । पथिभिः सुगेभिः साधुगमनैर्देवयानैरित्यर्थः । किंच । यत्र आसते सुकृतः साधुकारिणः । यत्र च ते ययुः गताः तत्र त्वां देवः सविता दधातु ॥१६॥
म० आश्वी त्रिष्टुप् । हे अश्व, अस्माभिर्यत्त्वं संज्ञप्यसे एतत्त्वं न म्रियसे मरणं नाप्नोषि नच रिष्यसे न विनश्यसि विशस्यमानः । वै उ निपातौ पादपूरणौ । यत्सुगेभिः सुगैः 'सुदुरोरधिकरणे' (पा० ३ । १ । ४८) इति गमेर्डप्रत्ययः । साधुगमनैः पथिभिः देवयानमार्गैः देवानित् देवान्प्रति एषि गच्छसि । किंच सुकृतः साधुकारिणो नरा यत्र लोके आसते तिष्ठन्ति । यत्र च ते सुकृतो ययुर्गताः तत्र लोके सविता देवः त्वा त्वां दधातु स्थापयतु । 'सवितैवैनᳪ स्वर्गे लोके दधाति' (१३ । २ । ७ । १२) इति श्रुतेः ॥ १६ ॥

सप्तदशी।
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॑न्वा॒युः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
सूर्य॑: प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॒न्त्सूर्य॒: स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।। १७ ।।
उ० उपगृह्णात्यपः । अग्निः पशुः सृष्टियज्ञे देवानामासीत् । तेनाग्निना ते अयजन्त । स चाग्निस्तत्र साधनभावमुपगतः सन् । एतं पृथिवीलोकम् अजयत् । यस्मिन् लोके अग्निः । अतः स ते लोको भविष्यति तं च जेष्यसि । पिब एताः प्रोक्षणीः अपः। वायुः सूर्यः पशुः । व्याख्यातमन्यत् ॥ १७ ॥
म० 'उपगृह्णात्यपां पेरुरग्निः पशुरिति' (का० २० । ६ । ८)। अपां पेरुरिति (अ० ६ । क० १०) प्राकृतेन मन्त्रेणाग्निः पशुरिति वैकृतेन च प्रोक्षणीरश्वास्ये उपगृह्णातीति सूत्रार्थः । अश्वदेवत्यानि त्रीणि यजूंषि । सृष्टिदेवानामग्निः पशुरासीत् तेनाग्निरूपेण पशुना देवा अयजन्त ईजिरे । स पशुभावमुपगतोऽग्निः एतं लोकं पृथ्वीलोकमजयत् यस्मिन् लोकेऽग्निः हे अश्व, स लोकः ते तव भविष्यति तं लोकं त्वं जेष्यसि एताः प्रोक्षणीरपः पिब । तथाच श्रुतिः ‘यावानग्नेर्विजयो यावांल्लोको यावदैश्वर्यं तावांस्ते विजयस्तावांल्लोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह' (१३ । २ । ७ । १३) इति ।
वायुः पशुरासीत् सूर्यः पशुरासीत् वायुलोकोऽन्तरिक्षं सूर्यलोकः स्वर्गः तावपि ते भविष्यत इत्यर्थः ॥ १७ ॥

अष्टादशी।
प्रा॒णाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ ।
अम्बे॒ अम्बि॒केऽम्बा॑लिके॒ न मा॑ नयति॒ कश्च॒न ।
सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ।। १८ ।।
उ० परिपशव्ये हुत्वा प्राणाय स्वाहेति । तिस्रोऽपराः वाचयति पत्नीर्नयन् । अम्बे । अनुष्टुप् । अश्वस्तुतिः। पत्न्यः परस्परमामन्त्रयन्ते । हे अम्बे, हे अम्बिके, हे अम्बाले, न मां नयति अश्वं प्रति प्रापयति कश्चन कश्चिदपि मदगमनेन च । ससस्ति 'सस् स्वप्ने' । यः अन्यां परिगृह्य शेते । कुत्सितोऽश्वः अश्वकः । अकुत्सितोऽपीर्ष्यया कुत्स्यते । सुभद्रिकाम् कुत्सिता सुभद्रा सुभद्रिका । इयमपीर्ष्यया कुत्स्यते । काम्पीलवासिनीम् । काम्पीलनगरे हि सुभगा सुरूपा विदग्धा विनीताश्च स्त्रियो भवन्ति ॥ १८ ॥
म० 'परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपराः' (का० २० । ६ । ११)। 'परिपशव्ये खाहा देवेभ्यः स्वाहेति' (२० । ६ । ११) द्वे आहुती हुत्वा प्राणायेत्याद्यास्तिस्र आहुतीर्जुहोति एकामश्वसंज्ञपनादौ चतस्रोऽन्ते इति सूत्रार्थः । त्रीणि यजूंषि । प्राणाय अपानाय व्यानाय आभिराहुतिभिरश्वं प्राणवन्तं करोति । तथाच श्रुतिः 'प्राणानेवास्मिन्नेतद्दधाति तथो हास्यैतेन जीवतैव पशुनेष्टं भवति' (१३ । २। ८ । २)। 'वाचयति पत्नीर्नयन्नमस्तेऽन्व इति' (का०२०।६।१२)। 'सर्वाः पत्नीः पशुशोधनाय पान्नेजनीहस्ताः पशून् प्रति नयन्नमस्ते आतानेति' (२० । ६ । १२) प्राकृतं मन्त्रमम्बे इत्याश्वमेधिकं च वाचयतीति सूत्रार्थः । अश्वदेवत्यानुष्टुप् । पत्न्यः परस्परं वदन्ति हे अम्बे, हे अम्बिके, हे अम्बालिके, नामान्येतानि । कश्चन नरो मां न नयति अश्वं प्रति न प्रापयति । तर्हि किमर्थं गम्यते तत्राह । अश्वकः कुत्सितोऽश्वोऽश्वकः अकु त्सितोऽपीर्ष्यया कुत्स्यते । सुभद्रिकां कुत्सिता सुभद्रा सुभद्रिका ईर्ष्यया कुत्स्यते तां नारीमादाय ससस्ति शेते 'सस् स्वप्ने' ह्वादिः । मदगमनेऽश्वोऽन्यामादाय शयिष्यत इति मया गम्यते न तु मां कश्चिन्नयतीति भावः । किंभूतां सुभद्रिकाम् । काम्पीलवासिनीं काम्पीले नगरे वसतीति काम्पीलवासिनी ताम् । तत्र हि विदग्धाः सुरूपाः कामिन्यो भवन्ति । 'आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे' (पा० ६।१।११८) इति प्रकृतिभावः ॥ १८ ॥

एकोनविंशी।
ग॒णानां॑ त्वा ग॒णप॑तिᳪ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिᳪ हवामहे नि॒धीनां॑ त्वा॑ निधि॒पति॑ᳪ हवामहे वसो मम ।
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ।। १९ ।।