पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चिक्कणा भवति । 'श्रीवै पिलिप्पिला' (१३ । २ । ६।१६) इति श्रुत्या श्रयन्त एनामिति श्रीशब्देन भूरेव । रात्रिः पिशङ्गिला आसीत् । पिशमिति रूपनाम पिशं रूपं गिलतीति पिशङ्गिला रात्रौ सर्वाणि रूपाण्यन्तर्भवन्ति ॥ १२ ॥

त्रयोदशी।
वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑ ।
ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑ ।। १३ ।।
उ० प्रोक्षत्यश्वम् । वायुष्ट्वा वायुः त्वा पचतैः पाकैः अवतु । वाय्वग्निसंयोगाद्धि द्रव्याणि पच्यन्ते । असितग्रीवः छागैः असितग्रीवोऽग्निः धूमसंयोगात् । छागैः अवतु कृष्णग्रीवादिभिः पर्यङ्गैः । अश्वाङ्गेष्वालभ्यमाना अश्वायोपकुर्वन्ति अदृष्टेनोपकारेण । न्यग्रोधश्चमसैः अवतु सोमसंबन्धेन । शल्मलिः स्वकीयया वृद्ध्या त्वां अवतु पालयतु । एष स्यः एष सः राथ्यः रथे साधू राथ्यः । वृषा सेक्ता । पद्भिश्चतुर्भिः आ इत् आगन् आगतः । चतुर्ग्रहणं किम् । 'तस्मादश्वस्त्रिभिस्तिष्ठति अथ युक्तः सर्वैः सममायुत' इति श्रुतिः । ब्रह्माऽकृष्णश्च । ब्रह्मा परिवृढः अकृष्णः न विद्यते कृष्णमस्येत्यकृष्णश्चन्द्रमाः । स च नोऽस्माकम् अश्वम् अवतु । नमः अग्नये अग्निं नमस्करोत्यविघ्नाय ॥ १३ ॥
म० 'अश्वप्रोक्षणमद्भ्यस्त्वा वायुष्ट्वेति' (का० २० । ६ । ७)। अद्भ्यस्त्वोषधीभ्य इति प्राकृतमन्त्रेण ( ६ । ९) वायुष्ट्वेत्यारभ्य देवः सविता दधात्वित्यन्तेन (१६) कण्डिकाचतुष्टयेनाश्वमेधिकेन चाश्वप्रोक्षणं करोतीति सूत्रार्थः । चत्वारि यजूंष्यश्वदेवत्यानि । हे अश्व, वायुः पचतैः पाकैः त्वा त्वामवतु । वायुसंयोगादग्निः शीघ्रं पचति । असिता ग्रीवा यस्य धूमेनेत्यसितग्रीवोऽग्निः छागैः त्वामवतु । 'अग्निर्वा असितग्रीवः' (१३ । २ । ७।२) इति श्रुतेः । 'कृष्णग्रीव आग्नेयो रराटे' ( २४ । १) इति वक्ष्यमाणत्वादश्वाङ्गेषु कृष्णग्रीवादयः पञ्चदश पर्यङ्ग्याः पशवः सन्ति तैरग्निरवत्वित्यर्थः । न्यग्रोधः चमसैः सोमपात्रैः त्वामवतु । शल्मलिः वृक्षविशेषो वृद्ध्या त्वामवतु 'शल्मलिर्वनस्पतीनां वर्षिष्ठं वर्धते' (१३ । २ । ७।४) इति श्रुतेः । किंच स्यः स एष वृषा सेक्ताश्वः राथ्यः रथे साधुः पद्भिः पादैः चतुर्भिरेव आ अगन् आगतः आ इदगन्निति पदच्छेदः । अश्वस्त्रिभिः पादैस्तिष्ठति चतुर्भिश्च गच्छतीति चतुर्ग्रहणम् । तथाच श्रुतिः 'तस्मादश्वस्त्रिभिस्तिष्ठत्यथ युक्तः सर्वैः पद्भिः सममायुत' (१३ । २ । ७ । ५) इति । पदशब्दस्य डान्तत्वं छान्दसम् । किंच अकृष्णः नास्ति कृष्णं लाञ्छनं यस्मिन् स ब्रह्मा चन्द्रो नोऽस्मानवतु । 'चन्द्रमा वै ब्रह्मा कृष्णश्चन्द्रमस एनं परिददाति' (१३ । २ । ७ । ७) इति श्रुतेः । नोऽस्माकमश्वमवत्विति वा । अग्नये नमः नमस्कारोऽस्तु विघ्नाभावायाग्नेर्नतिः क्रियते ॥ १३ ॥

चतुर्दशी।
सᳪशि॑तो र॒श्मिना॒ रथ॒: सᳪशि॑तो र॒श्मिना॒ हय॑: ।
सᳪशि॑तो अ॒प्स्व॒प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः ।। १४ ।।
उ० सᳪ शितो रश्मिना । तिस्रोऽनुष्टुब्विराट्रि।यष्टुभः । प्रोक्षणे एव अश्वदेवत्याः । संपूर्वः श्यतिः शोभने वर्तते । संदर्शितः यथा दर्शनीयतमः रश्मिना रथो भवति । यथाच संशितः रश्मिना हयोऽश्वः । एवमयं संशितः । अप्सु । अद्भिः । अप्सुजाः अप्सु जातोऽश्वः । 'अप्सुजाता अश्वा' इति श्रुतिः । किंभूतः ब्रह्मा। विभर्ता परिवृढो वा । सोमपुरोगवः सोमसंस्कारान्पुरस्कृत्य स्वर्गं लोकं गच्छतीति सोमपुरोगवः । सोमार्था हि पशवः । स यत्पशुमालभते रसमेवास्मिन्दधाति' इति श्रुतिः ॥ १४ ॥
म० अश्वदेवत्यानुष्टुप् । संपूर्वः श्यतिः शोभनार्थः । रथः रश्मिना कृत्वा संशितः दर्शनीयो भवति 'तस्माद्रथः पर्युतो ।' दर्शनीयतमो भवति' (१३ । २ । ७ । ८) इति श्रुतेः । हयोऽश्वो रश्मिना संशितः शोभितः । अप्सु जायते अप्सुजा अश्वः अप्सु अद्भिः संशितः । विभक्तिव्यत्ययः । 'अप्सुयोनिर्वा अश्वः' (१३ । २ । ७ । ९) इति श्रुतेः । कीदृशः ब्रह्मा । परिवृढः सोमपुरोगमः सोमः पुरोगमोऽग्रगामी यस्य सः सोमं पुरस्कृत्य स्वर्गं लोकं गच्छति । 'सोमपुरोगममेवैनᳪ स्वर्गं लोकं गमयति' (१३ । २ । ७ । १०) इति श्रुतेः ॥१४॥

पञ्चदशी।
स्व॒यं वा॑जिँस्त॒न्वं॒ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व । म॒हि॒मा ते॒ऽन्येन॒ न स॒न्नशे॑ ।। १५ ।।
उ० किंच । स्वयं वाजिन् । स्वयमेव हे वाजिन्, तन्वं , शरीरं कल्पयस्व । स्वराज्यं तवास्तीत्यर्थः । अतएव स्वयमेव यजस्व । तेन्यो यष्टा नास्तीति भावः । स्वयं च जुषस्व । स्वयमेवाभिरुचितं स्थानं कुरुष्व । किमर्थमिदमुच्यतेऽस्माभिरितिचेत् । महिमा ते तव संबन्धी अन्येन महिम्ना न संनशे। नशिरदर्शनार्थः । वेदे तु व्याप्त्यर्थोऽपि भवति न संव्याप्यते ॥ १५॥
म० आश्वी विराट् । हे वाजिन् , स्वयं तन्वं शरीरं त्वं कल्पयस्व 'स्वयं रूपं कुरुष्व यादृशमिच्छसि' (१३ । २ । ७ । ११) इति श्रुतेः । स्वाराज्यं तवास्तीति भावः । अतः स्वयं यजस्व न तवान्यो यष्टास्ति । स्वयं जुषस्व इष्टस्थानं सेवस्व । यतस्ते तव महिमा अन्येन न संनश्यते महिम्ना न संनशे न व्याप्यते । नशिरदर्शनार्थोऽत्र तु व्याप्त्यर्थः । यलोपे नशे रूपम् ॥ १५ ॥

षोडशी।
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभि॑: सु॒गेभि॑: ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ।। १६ ।।