पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति मन्त्रेणेति सूत्रार्थः । त्रीणि यजूंषि लिङ्गोक्तदेवतानि । हे अश्व, वसवोऽष्टौ देवा गायत्रेण छन्दसा त्वा त्वामञ्जन्तु स्निग्धं कुर्वन्तु । रुद्रा एकादश त्रैष्टुभेन छन्दसा त्वामञ्जन्तु । आदित्या द्वादश जागतेन छन्दसा त्वामञ्जन्तु । 'अभ्रᳪश्यमानान्मणीन् सौवर्णानेकशतमेकशतं केसरापुच्छेष्वावयन्ति भूर्भुवः स्वरिति प्रतिमहाव्याहृति' (का० २० ।५।१६)। महिष्याद्यास्तिस्रः पत्न्यः एकाधिकं शतं सुवर्णमयमणीन् यथा न पतन्ति तथा केसरयोः शिरःस्कन्धस्थयोः पुच्छे चाबध्नन्ति महिष्यश्वशिरोरोमसु भूरिति एकशतं मणीन्प्रवयति वावाता ग्रीवारोमसु भुव इति परिवृक्ता पुच्छरोमसु स्वरिति वयतीति सूत्रार्थः । भूर्भुवः स्वः व्याख्याताः । 'अश्वाय रात्रिहुतशेषं प्रयच्छति लाजीञ्छाचीनिति' (का० २० । ५। १८)। सक्तुधानालाजारूपं रात्रिहुतशेषमश्वाय ददाति भक्ष्याय । अश्वो नात्ति चेत् जले प्रक्षेपः । लाजीन् अश्वदेवत्यं यजुः । लाजानां समूहो लाजीनित्युक्तः सक्तूनां समूहः । शाचीन् यश्चायं यव्ये यव्यः यवसमूहः गव्ये गव्यः गोर्विकारसमूहो दध्यादिः हे देवाः, एतदन्नमत्त भक्षयत । हे प्रजापते, एतदन्नमद्धि भक्षय । येभ्योऽश्वः प्रोक्षितस्तद्रूपोऽश्वः संबोध्यते ॥ ८॥

नवमी।
कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुन॑: । किᳪ स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत् ।। ९ ।।
उ० ब्रह्मा पृच्छति होतारं यूपमभितः । कः स्वित् । चतस्रोऽनुष्टुभः प्रश्नप्रतिप्रश्नरूपाः । कः पुनरेकाकी असहायः चरति गच्छति । कउ स्वित् को नु विनष्टः सन् जायते। पुनः उकारः पादपूरणः । किं पुनः हिमस्य शीतस्य भेषजम् । किंच आवपनं महत् । उप्यते निक्षिप्यतेऽस्मिन्नित्यावपनम् ॥९॥
म० 'ब्रह्मा पृच्छति होतारं यूपमभितः कः स्विदेकाकीति' (का० २० । ५ । २०)। यूपस्य दक्षिणत उदङ्मुखो ब्रह्मा यूपोत्तरतो दक्षिणामुखं होतारं पृच्छति । ब्रह्मोद्ये कर्मणि होतुर्ब्रह्मणश्च प्रश्नप्रतिप्रश्नभूताश्चतस्रोऽनुष्टुभः। स्विदिति वितर्के। एकः असहायः कः चरति गच्छति । उ पादपूरणः । कःस्वित् विनष्टः सन् पुनर्जायते उत्पद्यते । किंस्वित् हिमस्य शीतस्य भेषजमौषधम् । किंस्वित् महत् आवपनम् आ समन्तादुप्यते यस्मिंस्तद्वपनस्थानम् ॥ ९॥

दशमी।
सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुन॑: । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ।। १० ।।
उ० होता प्रत्याह । सूर्य एकाकी चरति । चन्द्रमा जायते पुनः । अग्निश्च हिमस्य शीतस्य भेषजम् । भूमिः अयं लोकः आवपनं महत् ॥ १०॥
म० 'सूर्य इत्याचष्टे होता ब्रह्माणं प्रति वक्ति' (का २०।५।२१)। सूर्योऽसहायो गच्छति । अनेन होतृब्रह्माणौ यजमाने ब्रह्मवर्चसं धत्तः । 'असौ वा आदित्य एकाकी चरत्येष ब्रह्मवर्चसं ब्रह्मवर्चसमेवास्मिंस्तद्धत्ते' (१३ । २ । ६ ।१०) इति श्रुतेः । चन्द्रमाः क्षीणः पुनर्जायते वर्धते अनेनायुर्धत्तः । 'चन्द्रमा वै जायते पुनरायुरेवास्मिंस्तद्धत्ते' (१३।२। ६। ११) इति श्रुतेः । हिमस्य भेषजमग्निः अनेन तेजो धत्तः । 'अग्निर्वै हिमस्य भेषजं तेज एवास्मिंस्तद्धत्ते' (१३।२।६।१२) इति श्रुतेः । भूमिरयं लोको महदावपनम् अनेनास्मिन् प्रतिष्ठां धत्तः । 'अयं वै लोक आवपनं महदस्मिन्नेव लोके प्रतितिष्ठति' (१३ । २ । ६ । १३) इति श्रुतेः ॥ १० ॥

एकादशी।
का स्वि॑दासीत्पू॒र्वचि॑त्ति॒: किᳪ स्वि॑दासीद् बृ॒हद्वय॑: ।
का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ।। ११ ।।
उ० होता ब्रह्माणं पृच्छति । का स्वित् । का पुनः आसीत् पूर्वचित्तिः । किं पुनरासीत् बृहत् महत् वयः पक्षी। का पुनरासीत् पिलिप्पिला । का पुनरासीत् पिशङ्गिला ॥११॥
म० 'होता ब्रह्माणं का स्विदासीदिति' (का० २० ।५। २२) होता ब्रह्माणं पृच्छति । पूर्वं चिन्त्यत इति पूर्वचित्तिः सर्वेषां प्रथमस्मृतिविषया का स्वित् बृहत् महत् । वयः पक्षी किं स्वित् आसीत् । पिलिप्पिला का स्वित् पिशङ्गिला च का स्विदासीत् ॥ ११ ॥

द्वादशी।
द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वय॑: ।
अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ।। १२ ।।
उ० ब्रह्मा प्रश्नान् व्याकरोति । द्यौरासीत् । द्युग्रहणेनात्र वृष्टिर्लक्ष्यते । सा हि पूर्वं सर्वैः प्राणिभिश्चित्यते अश्व आसीद्बृहद्वयः अश्वशब्देनाश्वमेधो लक्ष्यते । वयसा इव ह्यनेनाश्वमेधेन स्वर्गं लोकमारोहन्ति । अविरासीत् अविः पृथिव्यभिधीयते सा आसीत् पिलिप्पिला । वृष्ट्या हि क्लिद्यमाना पृथिवी पिलिप्पिला भवति । श्रीरिति श्रुत्या पृथिव्युक्ता च । रात्रिरासीत्पिशङ्गिला । पिशमिति रूपनाम । रात्रिर्हि सर्वाणि रूपाणि गिलति अदृश्यानि करोति ॥ १२ ॥
म० 'द्यौरिति प्रत्याह' ( का० २० । ५। २३)। ब्रह्मा होतारं प्रति वक्ति । पूर्वचित्तिः पूर्वस्मरणविषया द्यौर्वृष्टिरासीत् । द्योशब्देन वृष्टिर्लक्ष्यते सर्वप्राणिनामिष्टत्वात् । तथाच श्रुतिः 'द्यौः वृष्टिः पूर्वचित्तिर्दिवमेव वृष्टिमवरुन्द्धे' (१३ । २।। १४) इति । अश्वः बृहद्वयः आसीत् । अश्वशब्देनाश्वमेधो लक्ष्यते । अश्वमेधेन वयसेव स्वर्गमारोहतीत्यश्वमेधो वयः। अवतीत्यविः पृथिवी पिलिप्पिलासीत् । वृष्ट्या भूः पिलिप्पिला