पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दिवि द्युलोके । तं युञ्जन्ति रथे बध्नन्ति । कथंभूतम् । ब्रध्नम् परिवृढं आदित्यम् अरुषमरोषणम् । चरन्तं गच्छन्तं वैदिककर्मसिध्यर्थम् । के युञ्जन्ति परितस्थुषः सर्वतः स्थिता ऋत्विग्यजमानाः ॥५॥
म० 'युनक्त्येनं युञ्जन्ति ब्रध्नमिति' (का० २० । ५ । ११)। अश्वं रथे युनक्ति । मधुच्छन्दोदृष्टा आदित्यदेवत्या गायत्री । तस्थुषः । विभक्तेर्व्यत्ययः । तस्थिवांसः कर्मार्थं स्थिता ऋत्विजः ब्रध्नमादित्यं युञ्जन्ति रथे योजयन्ति । अश्व आदित्यत्वेन स्तूयते । 'असौ वा आदित्यो ब्रध्नोऽरुषोऽमुमेवास्या आदित्यं युनक्ति स्वर्गस्य लोकस्य समष्ट्यै (१३ । २ ६।१) इति श्रुतेः । किंभूतं ब्रध्नम् । अरुषं रोषति क्रुध्यति रुषः 'इगुपध-' (पा० ३ । १ । १३५) इति कः । न रुषः अरुषः तं क्रोधरहितम् । परिचरन्तं वैदिककर्मसिद्ध्यर्थं सर्वत्र गच्छन्तम् । यस्य ब्रध्नस्य रोचना । विभक्तिलोपः । दीप्तयो दिवि आकाशे रोचन्ते प्रकाशन्ते । यद्वा रोचनानि दीप्तानि चन्द्रग्रहतारकादीनि ब्रध्नस्य भासा रोचन्ते 'तेजसां गोलकः सूर्यो नक्षत्राण्यम्बुगोलकाः' इति ज्योतिःशास्त्रोक्तेः ॥ ५॥

षष्ठी।
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।। ६ ।।
उ० इतराश्वं युनक्ति । युञ्जन्त्यस्य । गायत्री । युञ्जन्ति रथे अस्थाश्वमेधिकस्याश्वस्य काम्या काम्यौ कामसंपादिनौ । नह्येको रथं वोढुं शक्तः । हरी हरितवर्णावश्वौ हरिणौ वा वेगवन्तौ विपक्षसा । विविधाः पक्षसः पक्षा ययोस्तौ विपक्षसौ विविधपक्षावस्थितौ । यद्वा विरिति शकुनिनाम वेतेर्गतिकर्मणः । वेः शकुनेरिव पक्षौ ययोस्तौ शोणा शोणौ। शोणशब्दोऽत्र वर्णवचनः । रक्तो वर्णो धूम्रभासः शोण इत्युच्यते । धृष्णू प्रसहनौ । नृवाहसा नृणां मनुष्याणां वोढारौ ॥६॥
म०. 'इतरांश्च युञ्जन्त्यस्येति' (का० २० । ५ । ११) इतरान्त्रीनश्वान्रथे युनक्ति । गायत्री अश्वस्तुतिः । ऋत्विजो हरी अश्वौ रथे युञ्जन्ति । कीदृशौ । अस्याश्वमेधिकाश्वस्य काम्या काम्यौ काम्येते तौ काम्यौ कामसंपादिनौ न त्वेको वोढुं शक्त इति तौ काम्यौ । विपक्षसा 'पक्ष परिग्रहे' असुन्प्रत्ययः । पक्षयन्ति शरीरं गृह्णन्ति पक्षसः पक्षाः विविधाः पक्षसः पक्षाः ययोस्तौ विपक्षसौ । यद्वा विरिति शकुनिनाम 'वेतेर्गतिकर्मणः' (निरु० २।६) इति यास्कः । वेः पक्षिण इव पक्षसो ययोस्तौ । शोणा शोणौ रक्तौ धृष्णू प्रगल्भौ 'ञिधृषा प्रागल्भ्ये' कुप्रत्ययः । नृवाहसा नॄन् वहतस्तौ । वहेरसुन्प्रत्ययः सर्वत्र विभक्तेराकारः । नृणां वोढारौ ॥ ६ ॥

सप्तमी।
यद्वातो॑ अ॒पो अ॑गनीगन्प्रि॒यामिन्द्र॑स्य त॒न्व॒म् । ए॒तᳪ स्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि नः ।। ७ ।।
उ० अपो यात्वावगाढेषु वाचयति । यद्वातः बृहती। | अश्वदेवत्या । यत् यस्मात् वातः वातवेगोऽश्वः अपः प्रति अगनीगन् अत्यर्थं गतः । प्रियांच इन्द्रस्य तन्वं शरीरम् अगनीगन् । अतो ब्रवीमि । एतम् अश्वम् हे स्तोतः अध्वर्यो, अनेन पथा येन गतः पुनः अश्वम् आवर्तयासि आवर्तय आनय नोऽस्माकम् ॥ ७ ॥
म० 'अपो यात्वावगाढेषु वाचयति यद्वात इति' (का. २० । ५। १४) । चतुर्भिरश्वैर्युक्तं रथमध्वर्युयजमानावारुह्य तडागादिजलं गत्वा जलं प्रविष्टेष्वश्वेषु यजमानं वाचयति । बृहती अश्वस्तुतिः । सिंहो माणवक इति वत् वातः वातसमानवेगोऽश्वः यत् यस्मात् अपो जलानि अगनीगन् इन्द्रस्य प्रियं तन्वं शरीरं चागनीगन् अत्यर्थं गतः 'दाधर्तिदर्धर्ति-' | (पा० ७ । ४ । ६५) इत्यादिना यङ्लुगन्तो निपातः । अतो हे स्तोतः अध्वर्यो, एतं नोऽस्माकमश्वमनेन पथा मार्गेण येन गतस्तेन पुनरावर्तयासि आवर्तय आनय । 'लेटोऽडाटौं' पुरुषव्यत्ययः ॥ ७ ॥

अष्टमी।
वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ऽऽदि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा ।
भूर्भुव॒: स्वर्ला॒जी३ञ्छा॒ची३न्यव्ये॒ गव्य॑ ए॒तदन्न॑मत्त देवा ए॒तदन्न॑मद्धि प्रजापते ।। ८ ।।
उ० 'आगतमश्वं महिषी वावाता परिवृक्ता आज्येनाभ्यञ्जयन्ति वसवस्त्वेति प्रतिमन्त्रम् । वसवस्त्वाञ्जन्तु । निगदव्याख्यातम् । सौवर्णान्मणीनेकशतमश्वकेसरपुच्छेषु प्रवयन्ति पत्न्यः । भूर्भुवः स्वः । व्याख्यातम् । अश्वाय रात्रिहुतशेषं प्रयच्छति । लाजीन् शाचीन् । योयं लाजानां समूहो लाजीनित्युक्तः । योयं सक्तूनां समूहः शाचीनित्युक्तः । सक्तवो हि अतितरां शच्या कर्मणा निष्पद्यन्त इति शाचीनित्युक्ताः। यश्चायं यव्ये यवमयः समूह उक्तो धानाः । यश्चायं गोर्विकारसमूह उक्तो गव्य इति । एतदन्नम् अत्त भक्षयत हे देवाः । एतदन्नमद्धि भक्षय हे प्रजापते । येभ्योऽश्वः प्रोक्षितः तद्देवतत्वादेतद्देवत्य इति ॥ ८॥
म०. 'आयाय विमुक्तमश्वं महिषी वावाता परिवृक्ताज्येनाभ्यञ्जन्ति पूर्वकायमध्यापरकायान्यथादेशं वसवस्त्वेति प्रतिमन्त्रम्' (का० २।५।१५) । आयाय जलप्रदेशाद्देवयजनमागत्य रथाद्विमुक्तमश्वं महिष्याद्यास्तिस्रः पत्न्यो यथाक्रममश्वस्य पूर्वादिकानभ्यञ्जन्ति घृतेन महिषी पूर्वकायं वसव इति वावाता देहमध्यं रुद्रा इति परिवृक्ता पश्चाद्भागमादित्या