पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्रहाणाम्' इति वचनात् द्वयोर्मध्ये पूर्वं महिमानं सौवर्णेनोलूखलेन गृह्णाति । व्याख्याता (अ० १३ । क० ४) ॥१॥

द्वितीया ।
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒: सूर्य॑स्ते महि॒मा ।
यस्तेऽह॑न्त्संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ वा॒याव॒न्तरि॑क्षे महि॒मा स॑म्ब॒भूव॒ यस्ते॑ दि॒वि सूर्ये॑ महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ दे॒वेभ्य॑: ।। २ ।।
उ० उपयामगृहीतोसि । प्रजापतये त्वा जुष्टमभिरुचितं गृह्णामि । सादयति । एष ते तव योनिः स्थानं सूर्यस्तव महिमा महाभाग्यं शक्तिः दीपस्येव प्रभा । जुहोति । यस्तेऽहन् यस्तव अहनि संवत्सरे च महिमा संबभूव संभूत उत्पनः । अहनि निमित्तभूते सर्वाण्येव भूतानि संपद्यन्ते । निमित्तसप्तम्यश्चैताः । 'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्' इति यथा । यः ते वायौ अन्तरिक्षे च महिमा संबभूव । यस्ते दिवि सूर्ये च महिमा संबभूव । तस्मै ते तव महिम्ने प्रजापतये च स्वाहा देवेभ्यश्च ॥ २ ॥
म० उपयाम० प्रजापतये जुष्टं रुचितं त्वां हे ग्रह, अहं गृह्णामि । 'एष ते योनिरिति ग्रहसादनम्' (का० ९ । ५ । २५) । एष ते योनिः स्थानं ते तव महिमा शक्तिः सूर्यः दीपस्येव प्रभा । 'यस्तेऽहन्निति जुहोति' (का० २० । ७ । १६) । पूर्वमहिमानं ग्रहं जुहोति वषट्कृते सर्वहुतम् । देवदेवत्यं यजुः द्व्यधिका शक्वरी । हे महिमन् , यः ते तव महिमा अहन् अह्नि दिवसे संवत्सरे च निमित्ते संबभूव उत्पन्नः, वायौ अन्तरिक्षे च यः तव महिमा संबभूव, दिवि सूर्ये च यस्ते महिमा संबभूव ते तव तस्मै महिम्ने प्रजापतये देवेभ्यश्च स्वाहा सुहुतमस्तु ॥ २ ॥

तृतीया।
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। ३ ।।
उ० द्वितीयं गृह्णाति तस्य पुरोरुक्यः प्राणतः कायी प्राजापत्या । यः कः प्रजापतिः प्राणतः प्राणनं कुर्वतः भूतग्रामस्य निमिषतः निमेषणं कुर्वतः क्रियावत इत्यर्थान्तरम् महित्वा स्वकीयेन महाभाग्येन । एकइत् । इच्छब्द एवार्थे । एकएव समस्तस्य जगतो राजा बभूव संवृत्तः । यश्च ईशे ईष्टे अस्य द्विपदः प्राणिजातस्य यश्च चतुष्पदः ईष्टे प्राणिजातस्य । तस्मै कस्मै देवाय प्रजापतये हविषा विधेम । विदधातिर्दानकर्मा । हविरिति विभक्तिव्यत्ययो द्वितीयान्तः । हविर्दद्मः ॥३॥
म०. 'द्वितीयᳪ राजतेन यः प्राणत इति' (का० २० । ५।२)। द्वितीयं महिमानं ग्रहं राजतेनोलूखलेन गृह्णाति । हिरण्यगर्भदृष्टा कदेवत्या त्रिष्टुप् । तस्मै कस्मै प्रजापतये देवाय वयं हविर्विधेम हविर्दद्मः । विधृतिर्दानार्थः। तृतीया द्वितीयार्थे। तस्मै कस्मै । यः प्रजापतिः प्राणतः प्राणनं जीवनं कुर्वतो निमिषतो निमेषणं कुर्वतः । उपलक्षणमेतत् दृगादीन्द्रियव्यापारं कुर्वतः सचेतनस्य जगतः । विश्वस्य एक एव राजा बभूव । केन । महित्वा महेर्महिम्नो भावो महित्वं तेन महित्वेन । विभक्तेः पूर्वसवर्णः । महाभाग्येनेत्यर्थः । यश्चास्य द्विपदः द्वौ पादौ यस्य स द्विपात् तस्य ‘पादः पत्' (पा० ६।४। १३०) | इति पदादेशः। द्विपादस्य मनुष्यपक्ष्यादेः चतुष्पदः हस्तिगवादेः प्राणिजातस्य ईशे ईष्टे ऐश्वर्यं करोति । 'लोपस्त आत्मनेपदेषु' (पा० ७ । १ । ४१) इति तकारलोपे ईशे इति रूपम् । 'अधीगर्थदयेशां कर्मणि' (पा० २।३ । ५२) कर्मणि | षष्ठी ॥ ३ ॥

चतुर्थी।
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमा॑स्ते महि॒मा ।
यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्य॒: स्वाहा॑ ।। ४ ।।
उ० उपयामगृहीतोऽसि प्रजापतये त्वां जुष्टं गृह्णामि । सादयति । एष ते योनिः चन्द्रमास्ते महिमा । जुहोति यस्ते रात्रौ संवत्सरे पृथिव्यामग्नौ च नक्षत्रेषु चन्द्रमसि च महिमा संबभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा ॥४॥
म० उपयामपात्रेण गृहीतोऽसि प्रजापतये जुष्टं त्वां गृह्णामि । सादयति । एष ते । चन्द्रमास्ते तव महिमा दीप्तिः । 'वपान्ते द्वितीयेन पूर्ववद् यस्ते रात्राविति जुहोति' (का० २० । ७ । २६ )। वपायागान्ते द्वितीयेन महिम्ना पूर्ववदिति सर्वहुतं महिमानं जुहोति । अष्टिः हे महिमन् , रात्रौ संवत्सरे च यस्ते तव महिमा संबभूव पृथिव्यामग्नौ च यस्ते महिमा संबभूव नक्षत्रेषु चन्द्रमसि च यस्तव महिमा संबभूव सर्वव्यापकस्तव यो महिमा तस्मै महिम्ने प्रजापतये देवेभ्यश्च स्वाहा सुहुतमस्तु ॥ ४॥

पञ्चमी।
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुष॑: । रोच॑न्ते रोच॒ना दि॒वि ।। ५ ।।
उ० अश्वं युनक्ति । युञ्जन्ति ब्रध्नम् । अश्वोऽत्रादित्यवत्स्तूयते उत्तरोर्धर्चः प्रथमं व्याख्यायते । यस्य भासा रोचन्ते देदीप्यन्ते रोचनाः रोचनानि दीप्तानि चन्द्रग्रहतारकादीनि।