पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पृथिव्यै । पृथिव्यादयो लोकाधिष्ठात्र्यः ॥ २९ ॥
म० पृथिव्यै । पृथिव्यादयो लोकाधिष्ठात्र्यः ॥ २९ ॥

त्रिंशी।
अस॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ वि॒भुवे॒ स्वाहा॒ विव॑स्वते॒ स्वाहा॑ गण॒श्रिये॒ स्वाहा॑ ग॒णप॑तये॒ स्वाहा॑ ऽभि॒भुवे॒ स्वाहा ऽधि॑पतये॒ स्वाहा॑ शू॒षाय॒ स्वाहा॑ सᳪस॒र्पाय॒ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ ज्योति॑षे॒ स्वाहा॑ मलिम्लु॒चाय॒ स्वाहा॒ दिवा॑ प॒तय॑ते॒ स्वाहा॑ ।। ३० ।।
उ० असवे । अस्वादयश्च ॥ ३० ॥
म० असवे । अस्वादयश्च ॥ ३० ॥

एकत्रिंशी।
मध॑वे॒ स्वाहा॒ माध॑वाय॒ स्वाहा॑ शु॒क्राय॒ स्वाहा॒ शुच॑ये॒ स्वाहा॒ नभ॑से॒ स्वाहा॑ नभ॒स्या॒य॒ स्वाहे॒षाय॒ स्वाहो॒र्जाय॒ स्वाहा॒ सह॑से॒ स्वाहा॑ सह॒स्या॒य॒ स्वाहा॒ तप॑से॒ स्वाहा॑ तप॒स्या॒य॒ स्वाहा॑ ऽᳪहसस्प॒तये॒ स्वाहा॑ ।। ३१ ।।
उ० मधवे । मध्वादयो मासाधिष्ठातारः ॥ ३१ ॥
म० मधवे । मध्वादयो मासाधिष्ठातारः ॥ ३१ ॥

द्वात्रिंशी।
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑ ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ स्व: स्वाहा॑ मू॒र्ध्ने स्वाहा॑ व्यश्नु॒विने॒ स्वाहा ऽन्त्या॑य॒ स्वाहा ऽन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहा ऽधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।। ३२ ।।
उ० वाजाय । वाजादयोऽन्नाधीशाः ॥ ३२ ॥
म० वाजाय । वाजादयोऽन्नाधीशाः ॥ ३२ ॥

त्रयस्त्रिंशी।
आयु॑र्य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॑ प्रा॒णो य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॑ ऽपा॒नो य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॑ व्या॒नो य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहो॑दा॒नो य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॑ समा॒नो य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॒ वाग्य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॒ मनो॑ य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॒ ऽऽत्मा य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॑ ब्र॒ह्मा य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॒ ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॒ स्व॒र्य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॑ पृ॒ष्ठं य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॑ य॒ज्ञो य॒ज्ञेन॑ कल्पता॒ᳪ स्वाहा॑ ।। ३३ ।।
उ० आयुः । यज्ञेनाश्वमेधेनायुः कल्पताम् । एवमग्रेऽपि प्रार्थनामन्त्राः ॥ ३३ ॥
म. आयुः । यज्ञेनाश्वमेधेनायुः कल्पताम् । एवमग्रेऽपि प्रार्थनामन्त्राः ॥ ३३ ॥

चतुस्त्रिंशी।
एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ᳪ स्वाहा॑ श॒ताय॒ स्वाहैक॑शताय॒ स्वाहा॒ व्यु॒ष्ट्यै॒ स्वाहा॑ स्व॒र्गाय॒ स्वाहा॑ ।। ३४ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां द्वाविंशोऽध्यायः ॥ २२॥
उ० व्युष्ट्या इति व्युष्ट्यम् स्वर्गायेत्युदिति । प्राणायस्वाहेत्यारभ्य द्वादशभिः कण्डिकासंमितैरनुवाकैर्देवता उक्ताः आज्यादिहविर्भिः । एते सर्वे एव यागाः महतो यज्ञस्य लोककालाग्न्यादिवपुषोऽवयविनोऽवयवभूताः । यथा देवदत्तस्यावयविनोऽवयवभूताः शिरःपाण्यादयः एवं सोऽयमश्वमेधः प्रजापतेरवयविनोऽवयवभूतः । प्रजापतेश्चात्मनः सोऽयमात्मा । शाखाप्रशाखागतः स्तूयते हूयते च ज्ञानकर्मसमुच्चयकारिभिर्यजमानैः । एकस्मै स्वाहा द्वाभ्या ᳪ स्वाहेति प्रकारदर्शनम् । त्रिभ्यः स्वाहा चतुर्भ्यः स्वाहेति एकशतात् ॥ ३४॥
इति उवटकृतौ मन्त्रभाष्ये द्वाविंशोऽध्यायः ॥ २२ ॥
म० एकस्मै । संख्याधीशाः । व्युष्टी रात्रिः स्वर्गो दिनम् । 'रात्रिर्वै व्युष्टिरहः स्वर्गोऽहोरात्रे एव तत् प्रीणाति' ( १३ । २।१।६) इति श्रुतेः । प्राणादयोऽश्वमेधस्यावयविनोऽवयवाः स च प्रजापतेरवयवः स आत्मन इत्यात्मैव स्तूयते इज्यते इति भावः । 'सर्वमिदं यदयमात्मा'इति श्रुतेः ॥ ३४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
अश्वमेधाहुतिर्नाम द्वाविंशोऽध्याय ईरितः ॥ २२ ॥

त्रयोविंशोऽध्यायः।
तत्र प्रथमा।
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १ ।।
उ. हिरण्यगर्भः सम् । महिम्नः पुरोरुक् । व्याख्यातम् ॥ १॥
म. द्वाविंशे होममन्त्रास्त्रयोविंशेऽध्याये शिष्टं कर्मोच्यते । 'प्रातरुक्थ्यो महिमानौ गृह्णाति सौवर्णेन पूर्व ᳪ हिरण्यगर्भ इति' (का० । २० । ५। १-२)। प्रातर्द्वितीयेऽहनि उक्थ्यसंस्थमहर्भवति तत्र महिमसंज्ञौ द्वौ ग्रहौ गृह्णाति आगन्तुत्वादाग्रयणोक्थ्ययोर्मध्ये तौ गृह्णाति 'अन्तराग्रयणोक्थ्यावागन्स्थातुं