पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कायां सप्त त्रिकाणि पठितानि तन्मध्ये सप्तस्वहःसु क्रमेणैकैकं त्रिकं हूयते तत्र द्वितीयत्रिके स्वाहाकाराद्यं मन्त्रत्रयं स्वाहाधिमाधीतायेत्यादीति सूत्रार्थः । औद्ग्रभणसंज्ञानि यजूंषि लिङ्गोक्तदेवतानि । काय प्रजापतये सुहुतमस्तु । कस्मै प्रजापतये कतमस्मै प्रजापतिश्रेष्ठाय । आधिमाधानमाधीताय प्राप्ताय मनः मनसि वर्तमानाय प्रजापतये चित्तं विज्ञाताय सर्वेषां चित्तसाक्षिणे । अदित्यै अखण्डितायै मह्यै पूज्यायै अदित्यै सुमृडीकायै सुखयित्र्यै अदित्यै । सरस्वत्यै वागधिष्ठात्र्यै पावयति पावका तस्यै शोधयित्र्यै सरस्वत्यै बृहत्यै महत्यै सरस्वत्यै । पूष्णे प्रपथ्याय प्रगतः पन्थाः प्रपन्थाः तत्र भवः प्रपथ्यः तस्मै पूष्णे । नरन्धिषाय ‘धिष् शब्दे' ह्वादिर्वैदिकः । नरं दिधेष्टि शब्दयति उदयेन स नरन्धिषः तस्मै पूष्णे ‘इगुपध-' (पा० ३ । १ । १३५) इति कः । त्वष्ट्रे त्वक्षति तनूकरोति त्वष्टा तस्मै । तुरीपाय 'तुर वेगे' तस्य रूपम् । तुरी वेगस्तं पाति रक्षति तुरीपस्तस्मै । त्वष्ट्रे पुरुरूपाय पुरूणि बहूनि रूपाणि यस्य तस्मै त्वष्ट्रे । वेवेष्टि व्याप्नोति विष्णुस्तस्मै निभूयपाय नितरां भूत्वा मत्स्याद्यवतारं कृत्वा पाति निभूयपस्तस्मै विष्णवे शिपिषु पशुषु प्राणिषु विष्टः प्रविष्टोऽन्तर्यामिरूपेण शिपिविष्टस्तस्मै विष्णवे। एते औद्ग्रभणमन्त्राः॥२०॥

एकविंशी ।
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।। २१ ।।
उ० विश्वो देवस्येति व्याख्यातम् ॥ २१ ॥
म० 'षडाग्निकानि चतुःस्थाने दशमं विश्वो देवस्येति' (का० २० । ४ । ९ । १०) । सप्तम्यां दीक्षणीयायामयं विशेषः । प्रत्ययानि चत्वार्यौद्ग्रभणान्याध्वरिकाणि हूयन्ते तेषां चतुर्णां स्थाने षडाग्निकानि आकूतिं प्रयुजमग्निᳪ स्वाहेति (११ । ६६) हुत्वाश्वमेधिकानि च त्रीणि विष्णवे स्वाहेत्यादीनि हुत्वा विश्वो देवस्येति दशममौद्ग्रभणं जुहोतीति सूत्रार्थः । व्याख्याता (अ० ४ । क. ८) ॥२१॥

द्वाविंशी।
आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा रा॒ष्ट्रे रा॑ज॒न्यः शूर॑ इष॒व्योऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर्वोढा॑न॒ड्वाना॒शुः सप्ति॒: पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवास्य यज॑मानस्य वी॒रो जा॑यतां॒ निका॒मे-नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो न॑: कल्पताम् ।। २२ ।।
उ० जपति । आब्रह्मन् आ जायतां हे ब्रह्मन् , ब्राह्मणः ब्रह्मवर्चसी । यज्ञाध्ययनशीलो ब्राह्मण आजायतामित्यर्थः । राष्ट्रे । आजायतां च राष्ट्रे राजन्यः शूरः इषव्यः इषुभिः विध्यति इषव्यः इषुषु वा साधुः इषव्यः । अतिव्याधी महारथः । अतिविध्यति द्विषन्तमित्यतिव्याधी । महारथश्च | दोग्ध्री धेनुः राष्ट्रे आजायतामिति सर्वत्र संबन्धः । वोढा अनड्वान् आशुः शीघ्रः सप्तिरश्वः । पुरन्धिर्योषा । पुरं शरीरं रूपादिगुणसमन्वितं धारयतीति पुरन्धिः । जिष्णू रथेष्ठाः। जयनशीलः रथे तिष्ठतीति रथेष्ठाः युयुत्सुः सभेयो युवा । सभामर्हति विद्यागुणचरित्रैः सभेयः युवा आ अस्य यजमानस्य आजायतां चास्य यजमानस्य धीरः पुत्रः । किंच निकामे निकामे नः पर्जन्यो वर्षतु प्रार्थनायामवश्यं भवतीति निकामः । अभ्यासो वीप्सार्थः । अस्माकं राष्ट्र इत्यर्थः । फलवत्य अतिशयेन फलयुक्ताः नोऽस्माकं राष्ट्रे ओषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् । योगो द्रव्यादीनां संयोगः क्षेमस्तेषामेव परिपालनम् । योगश्च क्षेमश्चास्माकं क्लृप्तो भवतु । योगश्च क्षेमश्चेति द्वन्द्वः । तत्र नपुंसकलिङ्गता वा स्यात् द्विर्वचनं वा इति । तत्र छान्दसो विसर्जनीयो द्रष्टव्यः ॥२२॥
म० 'कृष्णाजिनाद्या समिदाधानात् कृत्वा ब्रह्मन्निति जपत्युत्सर्गकाल एके' (का० २० । ४ । ११) । कृष्णाजिनदीक्षात आरभ्योखायां त्रयोदशसमिदाधानान्तं कृत्वाध्वर्युरेव ब्रह्मन्निति जपति उत्सर्गैरुपतिष्ठत इत्युत्सर्गोपस्थानकाले एके आ ब्रह्मन्निति जपमिच्छन्ति । यद्वाश्वस्योत्सर्गकाले विभूर्मात्रेति जपानन्तरमित्यर्थः । लिङ्गोक्तदेवता उत्कृतिः । हे ब्रह्मन् , राष्ट्रेऽस्मद्देशे ब्रह्मवर्चसी यज्ञाध्ययनशीलो ब्राह्मणः आजायतामुत्पद्यताम् । राजन्यः क्षत्रियश्चेदृश आजायताम् । कीदृशः । शूरः पराक्रमी । 'शूर विक्रान्तौ' शूरयति शूरः इषव्यः इषुभिर्विध्यतीति इषव्यः । यद्वा इषौ कुशलः इषव्यः । अतिव्याधी अत्यन्तं विध्यतीत्यतिव्याधी शत्रुभेदनशीलः । महारथः एकः सहस्रं यजति स महारथः । दोग्ध्री दुग्धपूरयित्री धेनुः आजायतां राष्ट्रे इति सर्वत्र संबन्धः । अनड्वान् वृषभो वोढा वहनशीलो जायताम् । सप्तिरश्व आशुः शीघ्रगामी जायताम् । | योषा स्त्री पुरन्धिः पुरं शरीरं सुर्वगुणसंपन्नं दधाति पुरन्धिः । रथे तिष्ठतीति रथेष्टाः क्विप् सप्तम्या अलुक् । रथे स्थितो युयुत्सुर्नरो जिष्णुः जयनशीलो जायताम् । युवा आ अस्येति पदच्छेदः । अस्य यजमानस्य युवा समर्थः सभेयः सभायां योग्यो वीरः पुत्रो जायताम् । सभायां साधुः सभेयः 'ढच्छन्दसि' (पा० ४ । ४ । १०६) इति सभाशब्दात्तत्र साधुरित्यर्थे ढप्रत्ययः । तस्य ण्यादेशः। किंच नोऽस्माकं राष्ट्रे पर्जन्यो निकामे निकामे नितरां कामनायां सत्यां वर्षतु । अभ्यासो वीप्सार्थः । नोऽस्माकमोषधयः यवाद्याः फलवत्यः फलयुक्ताः पच्यन्तां स्वयमेव पक्वा भवन्तु । नोऽस्माकं योगक्षेमः कल्पतां