पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्वासि इयर्ति गच्छतीति अर्वा 'स्रामदिपद्यर्तिपॄशकिभ्यो वनिन्' (उणा० ४ । ११४) इति ननिन्प्रत्ययः । यद्वा अर्वति हिनस्ति रिपूनित्यर्वा कनिन्प्रत्ययः । सप्तिरसि सपति सैन्येन समवैति सुप्तिः ‘सप संबन्धे' क्तिन्प्रत्ययः । वाजी असि वाजति तच्छीलो वाजी । 'वज गतौ' अनेकगतिसूचनाय पुनः पुनर्गत्युक्तिः । यद्वा वाजाः पक्षा अभूवन्नस्येति वाजी । वृषासि वर्षति सिञ्चति वृषा 'कनिन्युवृषि-' ( उणा० १।१५५) इत्यादिना कनिन्प्रत्ययः । नृमणा असि नृषु यजमानेषु मनो यस्य स नृमणाः । नाम नाम्ना ययुरसि । अत्यर्थं याति ययुः 'ययुरश्वोऽश्वमेधीयः' इत्यभिधानात् 'यो द्वे च' (उणा० १।२१) इत्युप्रत्ययः । किंच नाम्ना शिशुरसि । श्यति कृशं करोति स्तनमिति शिशुः 'शः कित्सन्वच्च' (उणा० १ । २०) उप्रत्ययः सन्वद्भावाद् द्वित्वमभ्यासस्येकारश्च । एवंविधनामा त्वमादित्यानामदितेरपत्यानां देवानां पत्वा मार्गमन्विहि । पतन्ति गच्छन्ति यत्र स पत्वा मार्गः 'स्रामदि-' ( उणा० ४ । ११४ ) इत्यादिना वनिन्प्रत्ययः। आदित्या येन पथा गच्छन्ति तमनुगच्छ । देवा आशापाला इति रक्षिणोऽस्यादिशत्यनुचरीजातीयास्तावतस्तावतः कवचिनिषङ्गिकलापिदण्डिनो यथासंख्यम् (का० २० । २ । २०) । चतुर्विंशतिवार्षिकाश्वशतमध्यस्थस्यैशान्यामुत्सृष्टस्य रक्षकान्नरानादिशति । कीदृशान् । अनुचरीसजातीयान् तावतोऽनुचरीसंख्यान् तेन शतं राजपुत्रान् शतं क्षत्रियपुत्रान् शतं सूतग्रामण्यां पुत्रान् । सूता अश्वपोषकास्तेषां मध्ये ग्रामण्यो मुख्यास्तत्सुतानित्यर्थः । शतं क्षात्रसंग्रहीतॄणां पुत्रान् । क्षत्तार आयव्ययाध्यक्षास्तत्समूहः क्षात्रं तत्राधिकृताः क्षात्रसंगृहीतारस्तत्सुतान् क्रमात्कवचिनिषङ्गिकलापिदण्डिनः तेन राजपुत्राः संनाहवन्तः क्षत्रियपुत्रा निषङ्गिणः सखड्गाः सूतग्रामणीपुत्रा इषुधिमन्तः क्षात्रसंग्रहीतृपुत्राः । वंशादिदण्डधरा इत्यर्थः । वडवाभ्यो जलस्नानाच्चाश्ववारणम् वर्षमश्वरक्षणम् तावद्यजमानो वावातोर्वोः शेते सावित्रीः कारयति वीणागानं पारिप्लवशस्त्रपाठं धृतिहोमं चेत्यादि ज्ञेयमिति सूत्रार्थः । देवदेवत्यं यजुः ऋगुष्णिक् । आशा दिशः पालयन्तीति आशापाला हे देवाः, यूयमेतमश्वं रक्षत । कीटशम् । मेधाय यागाय प्रोक्षितं प्रोक्षणेन संस्कृतम् । राजपुत्रादय एवाशापालाः । तदुक्तम् 'शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनं परिददातीति' (१३ । १।६। २)। 'आहवनीयेऽस्तमिते चतस्रो धृतीरिह रन्तिरिति' (का० २० । ३। ४) । अस्तमितेऽर्केऽग्निहोत्रहोमात् प्रागग्निहोत्राद्धृते आहवनीयेऽसौ चतस्रो धृतिसंज्ञा आहुतीः प्रतिमन्त्रं जुहोति वर्षपर्यन्तं प्रत्यहम् एवं चत्वारिंशदधिका चतुर्दशशती भवति । तथाच श्रुतिः 'संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नातीति' ( १३ । १। ६ । २)। चत्वारि यजूंषि अग्निदेवत्यानि । चतुर्थमन्त्रान्ते स्वाहाकारश्रवणात्रिष्वपि स्वाहाकारः प्रयोज्यः । अश्वं प्रत्युच्यते । हे अश्व, इह रन्तिः रमणं तेऽस्तु । इह भवान् रमताम् । इह ते धृतिः सन्तोषोऽस्तु । इह यज्ञे स्वधृतिः स्वा निजा धृतिर्धारणमस्तु स्वाहा ॥ १९ ॥

विंशी।
काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहा॒ स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा॒ स्वाहा॒ मन॑: प्र॒जाप॑तये॒ स्वाहा॑ चि॒त्तं विज्ञा॑ता॒यादि॑त्यै॒ स्वाहा ऽदि॑त्यै मह्यै॒ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॒ सर॑स्वत्यै बृहत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॒य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ विष्ण॑वे शिपिवि॒ष्टाय॒ स्वाहा॑ ।। २० ।।
उ० औद्ग्रभणानि जुहोति । काय स्वाहा । कस्मै स्वाहा । कतमस्मै स्वाहा । स्वाहाधिमाधीताय । पूर्वं स्वाहाकारान्तास्तिस्र आहुतयः प्राजापत्याः । आधिमाध्यानम् । चतुर्थी चात्र कर्तव्या । आधये स्वाहेति । आधीताय स्वाहा । चित्तं विज्ञाताय । चित्तायेति विभक्तिव्यत्ययः । | मनः मनसे इति विभक्तिव्यत्ययः । प्राजापत्याय स्वाहा । अदित्यै मह्यै । 'मह पूजायाम्' पूजितायै अदित्यै सुमृडीकायै 'मृड सुखने' । सुख यित्र्यै सरस्वत्यै स्वाहा । सरस्वत्यै पावकायै पावयित्र्यै । सरस्वत्यै बृहत्यै महत्यै । पूष्णे स्वाहा पूष्णे प्रपथ्याय । प्रगतः पन्थाः प्रपथः तत्र भवः प्रपथ्यः । पूष्णे नरन्धिषाय । नरान् दधाति धारयतीति नरन्धिषः । त्वष्ट्रे स्वाहा । त्वष्ट्रे तुरीपाय । तूर्णं पाति रक्षतीति तुरीपः । त्वष्ट्रे पुरुरूपाय बहुरूपाय विष्णवे स्वाहा । विष्णवे निभूयपाय । नीचैर्भूत्वा यः पाति स निभूयपः । विष्णवे शिपिविष्टाय । शिपिं पशुं यज्ञस्य वेष्टयति साधुं करोतीति शिपिविष्टः ॥ २० ॥
म० 'काय स्वाहेति चाश्वमेधिकानि' ( का० २० । ४ । ३-५) त्रीणि कृष्णाजिनदीक्षातोऽध्वरदीक्षणीयायाश्चत्वारि त्रीणि त्रीणि चाश्वमेधिकानि । चत्वार्याध्वरिकाण्यौद्ग्रभणानि हुत्वा काय स्वाहेत्याश्वमेधिकानि त्रीण्यौद्ग्रभणानि जुहुयात् अत औद्ग्रभणहोमानन्तरं दीक्षणीयाशेषं समाप्य कृष्णाजिनदीक्षा तत्रोपवेशनान्ता कर्तव्या । 'सप्ताहं प्रचरन्ति' (१३ । १। | ७।२) इति श्रुतेः सप्ताहं दीक्षणीया कार्या । तत्र प्रत्यहं कर्तव्यमाह । अध्वरदीक्षणीयायाश्चत्वारि चत्वार्यौद्ग्रभणानि आकूत्यै प्रयुजे इत्यादीनि ( ४ । ७) त्रीणि त्रीणि चाश्वमेधिकानि काय स्वाहेति कण्डिकापठितानि प्रत्यहमन्यान्यन्यानि पाठक्रमेण एवं सप्त-सप्त प्रत्यहं हूयन्ते । काय स्वाहेति कण्डि