पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चनोहितः चन इत्यन्ननाम । चनसेऽन्नाय हितः हवीरूपान्नस्यादनाय स्थापितः ॥ १६ ॥

सप्तदशी।
अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे । दे॒वाँ२।। आ सा॑दयादि॒ह ।। १७ ।।
उ० अग्निं दूतम् । यम् अग्निम् दूतं देवानां दूतम् अहं पुरोदधे अग्रतः स्थापयामि । हव्यवाहं हविषो वोढारम् । तम् उपगम्य ब्रुवे ब्रवीमि । किं ब्रवीमि तदाह । देवानासादयादिह । हे अग्ने, देवान् आसादयात् आसादय इह अस्मिन्यज्ञे गृहे यागाय ॥ १७ ॥
म० यमग्निमहं पुरो दधे पुरतः स्थापयामि तं प्रति उपब्रुवे कथयामि । किं तदाह । हे अग्ने, इह यज्ञे त्वं देवानासादयात् आसादय स्थापय । कीदृशमग्निम् । दूतं देवानां हव्यवाहं हविषां वोढारम् ॥ १७ ॥

अष्टादशी।
अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पय॑: । गोजी॑रया॒ रᳪह॑माण॒: पुर॑न्ध्या ।। १८ ।।
उ० अजीजनो हि । पावमानी सौमी विहृतिः अनुष्टुप् । यस्मात् अजीजनः जनितवानसि जनयसि वा हे पवमान सोम, सूर्यम् । यस्माच्च शक्मना चर्मणा पयः अपः विधारे उपरिष्टात् विधारयसि । केन हेतुना । गोजीरया जीवेरेतदूपम् । गोजीविकया हेतुभूतया । कथंनु नाम गावो जीवेयुरिति । गोभिर्हि यज्ञस्तायते प्राणिनश्च जीवन्तीति । किं कुर्वन् । रंहमाणः पुरंध्या रंहमाणः गच्छन् दशापवित्राद्द्रोणकलशं प्रति पुरन्ध्या बहुधारयित्र्या धारया । तस्मात्त्वां स्तुम इति शेषः ॥ १८॥
म० अरुणत्रसदस्युभ्यां दृष्टा पवमानदेवत्या पिपीलिकमध्या कृतिरनुष्टुप् । यस्या आद्यतृतीयौ पादौ द्वादशार्णौ द्वितीयोऽष्टार्णः सा पिपीलिकमध्या कृतिरनुष्टुप् जागतावष्टकश्च कृतिर्मध्ये चेदष्टकः पिपीलिकमध्येति वचनात् । पवमानस्तुतिः । हे पवमान, त्वं सूर्यमजीजनः उत्पादितवानसि । जनेर्णिजन्ताल्लुङ् । शक्मना शकनं शक्म 'शक्लृ शक्तौ' मनिन्प्रत्ययः । शक्मना सामर्थ्येन पयः जलं विधारे विशेषेण धारयामि वृष्टये । केन हेतुना । गोजीरया जीवनं जीरा । वस्य रेफः छान्दसः । गवां जीरा गोजीरा तया गवां जीविकाहेतुना जलं धारयसि तासां हविषा यज्ञनिष्पत्तेः प्राणिनां जीवनाच्च । कीदृशस्त्वम् । पुरन्ध्या रंहमाणः पुरं बहु दधाति पुरन्धिर्धारा तया रंहमाणः रंहत इति रंहमाणो गच्छन् । दशापवित्राद्द्रोणकलशमभिगच्छन्नित्यर्थः । विधारे विधारये विधारयसि पुरुषव्यत्ययः । धारयतेस्तङि लटि उत्तमैकवचने धारये इति प्राप्ते 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इति शितोऽप्यार्धधातुकत्वे सति ‘णेरनिटि' (पा० ६।४।११) इति शिलोपे धारे इति रूपम् ॥ १८॥

एकोनविंशी।
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राऽश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ मयो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॒सि॒ वृषा॑ऽसि नृ॒मणा॑ असि । ययु॒र्नामा॑ऽसि॒ शिशु॒र्नामा॑स्यादि॒त्यानां॒ पत्वाऽन्वि॑हि॒ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑तᳪ रक्षते॒ह रन्ति॑रि॒ह र॑मतामि॒ह धृति॑रि॒ह स्वधृ॑ति॒: स्वाहा॑ ।। १९ ।।
उ० अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतः। विभूर्मात्रा। अश्व उच्यते । यस्त्वं विभूरसि विभवसि मात्रा प्रभवसि च पित्रा । 'इयं वै मातासौ ते पिता' इति श्रुतिः । अथाश्वं नामक्रियाभिः स्तौति । अश्वो महाशनस्त्वमसि । हयोऽसि 'हि गतौ' अस्य हयः । अत्योऽसि 'अत सातत्यगमने' । |मयोऽसि मय इति सुखनाम । सुखरूपोऽसि अर्वासि ऋगतावस्यार्वा । सप्तिरसि सरणोसि । वाज्यसि वेजनवानसि । वृषा सेक्ता असि । नृमणा असि नृणां मनुष्याणां यत्र मनः स नृमणाः । ययुर्नामासि ययुः एवं नामा त्वमसि । ययुर्यानशीलः । शिशुर्नामासि शिशुः एवंनामा त्वमसि शंसनीयो भवसि । अपारमार्थिको वा नामशब्दः । यस्त्वमेवंप्रभावः तं त्वां ब्रवीमि । आदित्यानां पत्वान्विहि । पत्वा पतनमार्गेण । येन यथा आदित्याः पतन्ति गच्छन्ति तमनुगच्छेत्यर्थः । रक्षिणोऽस्यादिशति । देवा आशापालाः । एतं देवेभ्यः प्रोक्षितम् अश्वम् मेधाय यज्ञाय रक्षत । चतस्रो धृतीर्जुहोति । अश्व उच्यते । इह रन्तिः रमणम् । इह रमताम् । इह धृतिः इह स्वधृतिः साधुधृतिः । इह यज्ञे हे अश्व, तव क्रीडादय इत्यर्थः ॥ १९ ॥
म०. 'अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतो विभूर्मात्रेति' (का० २० । २ । १८ )। तृतीयायां सावित्र्यामिष्टौ समाप्तायामध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतोऽभिभूर्मात्रेति सूत्रार्थः । अश्वदैवतं यजुः अतिजगतीच्छन्दस्कम् । मात्रा पित्रेति तृतीये पञ्चम्यर्थे । हे अश्व, त्वं मात्रा मातुः पृथिव्याः सकाशात् विभूरसि विभवति विभूः समर्थोऽसि । पित्रा पितुः सकाशाद्दिवः प्रभुः समर्थोऽसि । 'इयं वै मातासौ पिता ताभ्यामेवैनं परिददाति' ( १३ । १ । ६ । १) इति श्रुतेः । अथ नामभिरश्वं स्तौति । त्वमश्वोऽसि । अश्नुते व्याप्नोति मार्गमित्यश्वः 'अशूप्रुषि-' ( उणा० १ । १५०) इत्यादिना अशेः क्वन्प्रत्ययः । अश्नाति वाश्वः । हयोऽसि हयति याति हयः 'हय गतौ' पचाद्यच् । अत्योऽसि 'अत सातत्यगमने' अततीत्यत्यः सततगामी । औणादिको यत्प्रत्ययः । मयोऽसि मयते गच्छति मयः 'यम गतौ' पचाद्यच् । यद्वा मय इति सुखनाम । सुखरूपोऽसि। ।