पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० देवस्य चेततः । देवस्य दानादिगुणयुक्तस्य चेततः विराजमानस्य महीं महतीम् प्रहवामहे आह्वयामि । सवितुः संबन्धिनीं सुमतिं कल्याणीं मतिम् । किंभूतां मतिम् । सत्यराधसम् अनश्वरधनां सत्यसाधयित्रीं वा ॥ ११ ॥
म०. वयं सवितुः देवस्य सुमतिं शोभनां बुद्धिं प्रहवामहे प्रकर्षेण प्रार्थयामहे । कीदृशस्य सवितुः । चेततः चेततीति चेतन् तस्य जानतः । कीदृशीं सुमतिम् । महीं महतीं सत्यराधसं सत्यमनश्वरं राधो धनं यस्यास्ताम् । यद्वा सत्यं राधयति साधयति सा सत्यराधास्ताम् ॥ ११ ॥

द्वादशी।
सु॒ष्टु॒तिᳪ सु॑मती॒वृधो॑ रा॒तिᳪ स॑वि॒तुरी॑महे । प्र दे॒वाय॑ मती॒विदे॑ ।। १२ ।।
उ० सुष्टुतिं सुमतीवृधः । सुष्टुतिं शोभनां स्तुतिम् सुमतीवृधः शोभनां मतिं वर्धयतीति सुमतीवृत् तस्य सुमतीवृधः संबन्धिनीं रातिं दानं च सवितुः ईमहे याचेम। प्रदेवाय मतीविदे देवस्य मतीविदे देवस्य मतीविदः इत्युभयोः पदयोः विभक्तिव्यत्ययः ॥ १२ ॥
म०. देवाय मतिविदे इति चतुर्थ्यौ षष्ठ्यर्थे । वयं सवितुर्देवस्य सुष्टुतिं शोभनां स्तुतिं रातिं दानं च प्र ईमहे प्रकर्षेण याचामहे । 'छन्दसि परेऽपि' (पा० १।४। ८१) इति क्रियापदात्परः प्रशब्दः । कीदृशस्य सवितुः । सुमतीवृधः शोभनां मतिं वर्धयति सुमतीवृत् तस्य । संहितायामिति दीर्घः। तथा मतीविदे सर्वेषां मतिं वेत्ति मतिवित् तस्य । पूर्ववद्दीर्घः ॥ १२ ॥

त्रयोदशी ।
रा॒तिᳪ सत्प॑तिं म॒हे स॑वि॒तार॒मुप॑ ह्वये । आ॒स॒वं दे॒ववी॑तये ।। १३ ।।
उ० रातिं सत्पतिम् । 'रा दाने' । रातिनिमित्तत्वाद्रातिशब्देन सवितैवोक्तः । रातिं दानरूपम् । यद्वा राति ददातीति रातिम् । सत्पतिं सतां पालयितारम् । महे पूजयामि । सवितारम् उपह्वये आह्वयामि च । आसवम् आभिमुख्येन प्रसौति कर्माणीत्यासवः तमासवं सवितारम् । किमर्थं पूजयाम्याह्वयामि च । देववीतये देवतर्पणाय ॥ १३ ॥
म० अहं सवितारमुपह्वये आह्वयामि । महे पूजयामि च । 'मह पूजायाम्' । किमर्थम् । देववीतये देवानां तर्पणाय । कीदृशं सवितारम् । रातिं राति ददातीति रातिः तम् 'ऊतियूति-' (पा० ३ । ३ । ९७) इत्यादिना कर्तरि क्तिप्रत्ययान्तो निपातः। सत्पतिं सतांपतिं पालकम् । आसवम् आभिमुख्येन सौति कर्मण्यनुजानाति आसवस्तम् । पचाद्यजन्तः ॥ १३ ॥

चतुर्दशी।
दे॒वस्य॑ सवि॒तुर्म॒तिमा॑स॒वं वि॒श्वदे॑व्यम् । धि॒या भगं॑ मनामहे ।। १४ ।।
उ० देवस्य सवितुः मतिम् । आसवम् प्रसवरूपम् । | विश्वदेव्यं सर्वेभ्यो देवेभ्यो हितम् । धिया स्वकीयया प्रज्ञया भगं भजनीयं धनं मनामहे याचामि । द्विकर्मा चायं धातुः । तेन मतिशब्दे भगशब्दे च द्वितीया ॥ १४ ॥
म० सवितुर्देवस्य मतिं बुद्धिं प्रति वयं धिया बुद्ध्या भगं धनं मनामहे याचामहे । सवितुर्देवस्य बुद्धिरस्मासु दानतत्परा भवत्वित्यर्थः । कीदृशं भगम् । आसवम् आसौत्यनुजानाति येन आसवस्तम् । धनेन सर्वेषामाज्ञा दातुं शक्यत इत्यर्थः । | विश्वदेव्यं विश्वेभ्यो देवेभ्यो हितम् । धनेनैव देवतर्पणादित्यर्थः ॥ १४ ॥

पञ्चदशी।
अ॒ग्निᳪ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ।। १५ ।।
उ० अग्निं स्तोमेन । तिस्र आग्नेय्यो गायत्र्यः । हे अध्वर्यो, अग्निं स्तोमेन स्तुतिभिः बोधय अवगतार्थं कुरु । किं कुर्वन् । समिधानः संदीपयन् । कथंभूतमग्निम् । अमर्त्यं अमरणधर्माणम् । किमर्थं पुरस्कृत्येति चेत् । हव्या हवींषि देवेषु नः अस्मत्संबन्धीनि दधत् दधातु । सह्यस्याधिकार इति ॥ १५॥
म० तिस्रः स्विष्टकृतिपुरोऽनुवाक्याः अग्निदेवत्या गायत्र्यो यथाक्रमं सुतंभरविश्वामित्रविश्वरूपदृष्टाः । हे अध्वर्यो, त्वं स्तोमेन स्तुत्या अग्निं बोधय अवगतार्थं कुरु । किं कुर्वन् । । समिधानः समिन्द्धे स समिधानः संदीपयन् । कीदृशमग्निम् । अमर्त्यं मरणधर्मरहितम् । सोऽग्निर्बोधितः सन्नोऽस्माकं हव्या हवींषि देवेषु दधत् धारयतु । अस्य सोऽधिकारोऽस्ति ॥ १५॥

षोडशी।
स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ।। १६ ।।
उ० स हव्यवाट् । यदोऽत्राध्याहारः तच्छब्दश्रवणात् । । यः हव्यवाट् हविषो वोढा । अमर्त्यः अमरणधर्मा । उशिक् मेधावी । दूतः देवानाम् । चनोहितः । चन इत्यन्ननाम । हविर्भूतस्यान्नस्य भक्षणार्थं हितः निहितः । सः अग्निः धिया प्रज्ञया समृण्वति संगच्छते देवैः सह हविषः तर्पणाय ॥१६॥
म० सोऽग्निर्धिया बुद्ध्या समृण्वति संगच्छते देवैः सह हविर्दानाय । कीदृशोऽग्निः । हव्यवाट् हव्यं वहतीति हविषां वोढा । अमर्त्यः मरणहीनः । उशिक् वष्टि उश्यते वा सर्वैरित्युशिक् कामनीयः मेधावी वा । दूतः देवानां दूत्यकर्ता ।