पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्रह्माणमामन्त्रयते । ब्रह्मन्नश्वं भन्त्स्यामि । बध्नातेरेतद्रूपम् । अश्वस्य बन्धनं करिष्यामि । देवेभ्यः प्रजापतये च । तेन बद्धेनाहं राध्यासं राधिं प्राप्नुयाम् । राधिः कर्मपरिसमाप्तिः। ब्रह्मा प्रसौति । तं बधान यमिच्छसि तमश्वं बधान । तस्य बन्धनं कुरु । किमर्थम् । देवेभ्यः प्रजापतये च । तेन बन्धेन राध्नुहि यज्ञसमाप्तिं प्राप्नुहीत्यर्थः ॥ ४॥
म० हे अश्व, त्वा त्वां देवेभ्यः प्रजापतये च देवार्थं प्रजापत्यर्थं च स्वगा करोमीति शेषः। स्वेनैव गच्छतीति स्वगा। डाजन्तः विभक्तेर्डादेशो वा । स्वयंगामिनमित्यर्थः । ब्रह्मन्नश्वम् ब्रह्मा देवता ब्रह्माणमामन्त्रयते । हे ब्रह्मन् , अश्वं भन्त्स्यामि बन्धनं करिष्यामि । बध्नातेर्लृटि स्यपि 'एकाचो बशः' (पा. ८।२ । ३७) इति भष्त्वम् । किमर्थम् । देवेभ्यः प्रजापतये च तेनाश्वबन्धेनाहं राध्यासं 'राध संसिद्धौ' सिद्धिं कर्मसमाप्तिरूपां प्राप्नुयाम् । आशीर्लिङ् । ब्रह्मा प्रसौति तं बधान अध्वर्युदैवतं यजुः । हे अध्वर्यो, यं बन्द्धुमिच्छसि तमश्वं बधान । किमर्थम् । देवेभ्यः प्रजापतये च तेनाश्वबन्धनेन राध्नुहि सिद्धिं यज्ञसमाप्तिलक्षणां प्राप्नुहि । राधेः स्वादित्वाल्लोटि श्नुप्रत्ययः ॥ ४॥

पञ्चमी।
प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॑मीन्द्रा॒ग्निभ्यां॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि वा॒यवे॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒
विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि॒ सर्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि ।
यो अर्व॑न्तं॒ जिघा॑ᳪसति॒ तम॒भ्य॒मीति॒ वरु॑णः| प॒रो मर्त॑: प॒रः श्वा ।। ५ ।।
उ० प्रोक्षत्यश्वम् । प्रजापतये त्वा जुष्टं प्रोक्षामीति । ऋजवः प्रोक्षणमन्त्राः । यजमानं वाचयति । यो अर्वन्तम् । गायत्री अर्धेनाश्वस्तुतिः यः पुरुषोऽर्वन्तं अश्ववचनोर्वशब्दः। अश्वं जिघांसति हन्तुमिच्छति । तम् अभ्यमीति । 'मी हिंसायाम्' हिनस्ति वरुणः श्वानं चतुरक्षम् हत्वाऽधस्पदमश्वस्योपप्लावयति। 'यस्य शुनश्चक्षुषोः समीपे पुण्ड्रे स्तः स चतुरक्ष उच्यते' परो मर्तः परः पराभूतः अधस्पदं नीतः मर्तो मनुष्यः यो अर्वन्तं जिघांसतीति । परः पराभूतश्च श्वा ॥५॥
म. 'स्थावरा अपो गत्वा प्रजापतये त्वेति प्रोक्षत्यश्वं प्रतिमन्त्रम्' (का० २० । १।३७)। ततोऽध्वर्युः स्थावरास्तडागादिस्था अपो गत्वा ताभिरद्भिः पञ्चमन्त्रैः प्रतिमन्त्रमश्वं प्रोक्षति । लिङ्गोक्तदेवतानि पञ्च यजूंषि । हे अश्व, प्रजापतये जुष्टं त्वा त्वां प्रोक्षामि सिञ्चामि । अनेन प्रोक्षणेन प्रजापतेरिवाश्वे वीर्यं दधाति । तथाच श्रुतिः प्रजापतिर्वै देवानां वीर्यवत्तमः(१३।१।२।५) इति। इन्द्राग्निभ्यां जुष्टं त्वां प्रोक्षामि। अनेनेन्द्राग्न्योरिवाश्वे ओजो दधाति। तथा च श्रुतिः इन्द्राग्नी वै देवानामोजस्वितमा ओज एवास्मिन् दधाति तस्मादश्वः पशूनामोजस्वितमः' (१३ । १।२।६) इति । वायवे जुष्टं प्रीतं त्वां प्रोक्षामि । अनेन वायोरिवाश्वे वेगं दधाति । तथाच श्रुतिः 'वायुर्वै देवानामाशिष्ठो जवमेवास्मिन्दधाति तस्मादश्वः पशूनामाशिष्ठः' (१३ । १।२।७) इति । आशिष्ठो वेगवत्तरः । विश्वेभ्यो देवेभ्यो जुष्टं त्वां प्रोक्षामि अनेनाश्वे यशो दधाति ‘विश्वे वै देवा यशस्वितमा यश एवास्मिन्दधाति तस्मादश्वः पशूनां यशस्वितमः' ( १३ । १।२। ८) इति श्रुतेः । सर्वेभ्यो देवेभ्यो जुष्टं त्वां प्रोक्षामि । अनेन सर्वा देवता अश्वे दधाति । 'सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीति सर्वा एवास्मिन्देवता अश्वे अन्वायातयति' (१३ । १ । २ । ९) | इति श्रुतेः । 'यो अर्वन्तमिति वाचयति' (का० २०।२। । १)। शूद्राद्वैश्यायां जातेन पुंसा अध्वर्युप्रेरितेन चतुर्नेत्रे शुनि खादिरमुसलेन हते सति यो अर्वन्तमित्यादि-वरुण-इत्यन्तं मन्त्रं यजमानं वाचयति । गायत्री पूर्वार्धेऽश्वस्तुतिः परेऽर्धे लिङ्गोक्तदेवता । यः अर्वन्तमश्वं जिघांसति हन्तुमिच्छति 'अर्वणस्त्रसावनञः' (पा० ६।४ । १२७) इति त्रन्तादेशः । हन्तेः सन्नन्ताल्लट् । वरुणः तमश्वं जिघांसन्तमभ्यमीति हिनस्ति 'अम् हिंसायाम् एतस्य लटि 'तुरुस्तुशम्यमः' (पा० ७।३ । ९५) इति ईप्रत्ययः । 'वेतसकटेनाधोऽश्वं प्लावयति परो मर्त इति' (का० २० । २ । ४)। वेतसतरुकृतेन कटेन मृतं श्वानमश्वाधो जले तारयति । अश्वं जिघांसुर्मर्तो मनुष्यः परः पराभूतः अधस्पदं नीतः श्वा च परः पराकृतः । श्वरूपेणाश्वहन्तेव पराकृत इत्यर्थः ॥ ५॥

षष्ठी।
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒ ऽपां मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॑ वा॒यवे॒ स्वाहा॒ विष्ण॑वे॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॑ ।। ६ ।।
उ० दशाश्वस्तोमीयानि जुहोति । अग्नये स्वाहेति ऋजवो मन्त्राः ॥ ६॥
म० 'अग्निसमीपमानीयाग्नये स्वाहेति जुहोत्यनुवाकेन प्रतिमन्त्रᳪ सहस्रं वावर्तम्' ( का० २० । २ । ३ । ४ )। ततः स्थावराभ्योऽद्भ्यः सकाशादश्वमग्निपार्श्वमानीयाग्नये स्वाहेत्येककण्डिकात्मकेनानुवाकेन प्रतिमन्त्रं सकृद्गृहीत्वा जुह्वा स्तोकीयसंज्ञा दशाज्याहुतीर्जुहोति यद्वानुवाकमावर्त्यावर्त्य सहस्रमाज्याहुतीर्जुहोतीति सूत्रार्थः । दश यजूंषि लिङ्गोक्तदेवतानि । अङ्गतीत्यग्निः । सुनोतीति सोमः । अपां जलानां मोदाय मोदयति हर्षयति मोदः । सूते सविता । वातीति वायुः । वेवेष्टि व्याप्नोति विष्णुः । इन्दतीतीन्द्रः । बृहतां वेदानां पतिर्बृहस्पतिः । मिद्यति स्निह्यति मित्रः । वृणोति भक्तं भजते वरुणः । एताभि