पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशोऽध्यायः।
तत्र प्रथमा।
तेजो॑ऽसि शु॒क्रम॒मृत॑मायु॒ष्पा आयु॑र्मे पाहि ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒मा द॑दे ।। १ ।।
उ० अथाश्वमेधश्चतुर्भिरध्यायैः। तं प्रजापतिरपश्यत् । तेजोऽसि । सौवर्णं निष्कं प्रतिमुञ्चन्वाचयति । यस्मात्तेजस्त्वमसि शुक्रं चाग्नेः 'अग्निर्हवा अपोऽभिदध्यो' इत्युपक्रम्य 'तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्' इति श्रुतेः । अमृतं च अग्निप्रभवत्वात् दानेनामृतत्वप्रदानाच्च । 'हिरण्यदा अमृतत्वं भजन्ते' इति श्रुतेः । आयुषश्च पाता गोपायिता । अतः त्वां प्रार्थये । आयुः मे मम पाहि । यज्ञसमाप्त्यर्थमायुः प्रार्थ्यते । रशनामादत्ते । देवस्य त्वेति व्याख्यातम् ॥१॥
म० सर्वकामस्य राज्ञोऽश्वमेधः तस्य फाल्गुनशुक्लाष्टम्यामारम्भः । 'निष्कं प्रतिमुञ्चन्वाचयति तेजोऽसीति' (का. २० । १।९)। चतुःसुवर्णनिर्मित आभरणविशेषो निष्कः । तं यजमानकण्ठे प्रतिबध्नन्नध्वर्युस्तेजोऽसीति मन्त्रं पाहीत्यन्तं वाचयति । तं च निष्कं प्रातर्होमान्ते पूर्णाहुतिं कृत्वाध्वर्यवे दद्यादिति सूत्रार्थः । चत्वारोऽध्याया अश्वमेधमन्त्रास्तेषां प्रजापतिर्ऋषिः। तेजोऽसीत्यस्य सौवर्णं निष्कं देवता । प्राजापत्यानुष्टुप् । हे निष्क, तेजोऽसि आग्नेयत्वात् । शुक्रमग्नेर्वीर्यं चासि । 'अग्निर्ह वाऽपोऽभिदध्यौ' इत्युपक्रम्य 'तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्' इति श्रुतेः। अमृतं च वह्नितापेऽनुच्छिद्यमानद्रवत्वाधिकरणत्वात् दानेनामृतत्वप्रदानाच्च 'हिरण्यदा अमृतत्वं भजन्ते' इति श्रुतेः । आयुष्पाः आयुः पातीति आयुषो गोपायिता । अतो याचे मे ममायुः पाहि रक्ष । यज्ञसमाप्तिपर्यन्तमायुः प्रार्थ्यते 'देवस्य त्वेति रशनामादाय ब्रह्मन्नश्वं भन्त्स्यामीत्याह' ( का० २० । १ । २७) इति । देवस्यत्वेत्यादि-सरमारपन्तीत्यन्तेन मन्त्रेण त्रयोदशारत्निं दर्भमयीं द्विगुणामश्वबन्धनार्थां रशनां रज्जुमादाय ब्रह्मन्नश्वमित्यादि-तेनराध्यासमित्यन्तं मन्त्रं ब्रह्माणं प्रत्याहेति सूत्रार्थः । देवस्य त्वेति व्याख्यातम् (अ० १।क १०)॥१॥

द्वितीया ।
इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या ।
सा नो॑ अ॒स्मिन्त्सु॒त आ ब॑भूव ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती ।। २ ।।
उ० इमामगृभ्णन् । त्रिष्टुब्रशनादेवत्या । यामिमाम् अगृभ्णन्नगृह्णन् गृहीतवन्तः रशनां दर्भमयीम् ऋतस्य यज्ञस्य पूर्वे प्रथमे आयुषि । यज्ञारम्भे इत्यर्थः । के रशनामगृह्णन्नित्यत आह । विदथेषु कव्या यज्ञेषु कवयः । विश्वस्रष्टारो वा आद्ये सर्गे प्रजापतिप्रभृतयः । एते हि सृष्टिं यज्ञादसृजन्त । सा रशना नः अस्माकम् अस्मिन्सुते यज्ञे आबभूव आभूता उत्पन्ना। ऋतस्य सामन् संमनने यज्ञप्रारम्भे । सरं यज्ञप्रसरम् । आरपन्ती शब्दायमाना ॥२॥
म० यज्ञपुरुषदृष्टा रशनादेवत्या त्रिष्टुप् । सवनं सुतं यज्ञः भावे क्तः । नोऽस्माकमस्मिन् सुते यज्ञे सा रशना आबभूव | उत्पन्ना। कीदृशी । ऋतस्य यज्ञस्य सामन् साम्नि समारम्भे सरं प्रसरं यज्ञप्रसारमारपन्ती 'रप उक्तौ' उच्चारयन्ती । यज्ञप्रसारो भवत्विति वदन्तीत्यर्थः । सा का । विद्यते लभ्यते स्वर्गो यैस्ते विदथा यज्ञाः । विदथेषु यज्ञेषु 'विदेरथक्' इत्यथक् प्रत्ययः । कव्या कवयः विभक्तादेशः 'सुपां सुलु' (पा.७।१।३९ ) इत्यादिना। यज्ञेषु कुशलाः प्रजापत्यादयो यामिमां रशनामृतस्य यज्ञस्य पूर्वे प्रथमे आयुषि प्रारम्भे इत्यर्थः । अगृभ्णन् अगृह्णन् या पूर्वेर्गृहीता सा रशनात्रोद्भूतेत्यर्थः ॥ २॥

तृतीया ।
अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्ताऽसि॑ ध॒र्ता ।
स त्वम॒ग्निं वै॑श्वान॒रᳪ सप्र॑थसं गच्छ॒ स्वाहा॑कृतः ।। ३ ।।
उ० बध्नात्यश्वम् अभिधासि । यस्त्वम् अभिधा असि अभिधातव्योऽसि । भुवनं चासि । भुवनमाश्रयः यन्ता नियमनकर्ता चासि । धर्ता धरयिता चासि । स त्वमेवंप्रभावः सन् । अग्निं वैश्वानरम् । कथंभूतम् । सप्रथसं सर्वतः पृथुम् । तिर्यगूर्ध्वमधश्चैव महतैश्वर्येण पृथुम् । गच्छ । स्वाहाकृतः साधुहुतश्च सन् ॥३॥
म० 'तं बधानेति ब्रह्मानुज्ञातोऽभिधा असीति । बध्नात्यश्वम्' (का० २० । १।२८)तं बधान देवेभ्यः प्रजापतये तेन राध्नुहीति मन्त्रेण ब्रह्मणानुज्ञातोऽध्वर्युरभिधा असीत्यादि-स्वगात्वा-देवेभ्यः-प्रजापतय इत्यन्तेन मन्त्रेण रशनयाश्वं बध्नाति । । लिङ्गोक्तदेवतानि यजूंषि अश्वो देवताद्यस्य । हे अश्व, यस्त्वमभिधा असि अभिधीयते स्तूयत इत्यभिधाः क्विप् । भुवनं सर्वेषामाश्रयश्चासि यन्ता नियमनकर्ता चासि धर्ता जगद्धारयिता च । स एवंविधः त्वं स्वाहाकृतः स्वाहाकारेण कृतः हुतः सन् अग्निं गच्छ प्राप्नुहि । कीदृशमग्निम् । वैश्वानरं विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितम् । सप्रथसं प्रथतेरसुन्प्रत्ययः । प्रथनं प्रथो विस्तारस्तत्सहितम् । यद्वा सर्वतस्तिर्यगूर्ध्वमधश्च प्रथते सप्रथाः तम् । सर्वतःशब्दस्य सादेशः ॥ ३ ॥

चतुर्थी।
स्व॒गा त्वा॑ दे॒वेभ्य॑: प्र॒जाप॑तये॒ ब्रह्म॒न्नश्वं॑ भ॒न्त्स्यामि॑ दे॒वेभ्य॑: प्र॒जाप॑तये॒ तेन॑ राध्यासम् ।
तं ब॑धान दे॒वेभ्य॑: प्र॒जाप॑तये॒ तेन॑ राध्नुहि ।। ४ ।।
उ० स्वगा त्वा । हे अश्व, स्वगाकरोमि त्वां देवेभ्यः प्रजापतये च । स्वगाशब्दो डाजन्तः । स्वयंगामिनमित्यर्थः ।