पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वेगवान् । ओजश्च भामं च । भामशब्दः क्रोधवचनः ।। इन्द्रियाणि च नः अस्माकम् । 'अस्मदो द्वयोश्च' इति बहुवचनम् । दधत् दधातु । वसुवने इति व्याख्यातम् ॥ ५६ ॥
म० वनस्पतिर्देवो नोऽस्माकमोजः तेजः जूतिः जूतिं जवं वेगं भामं क्रोधमिन्द्रियाणि च दधत् दधातु । यो वनस्पतिर्यूपः इन्द्राय मधु मधुरं फलं पच्यते पचति फलति इन्द्राय फलं ददाति । नकारौ चार्थौ । कीदृशो वनस्पतिः । देवैर्हिरण्यपर्णः हिरण्यरूपाणि पर्णानि यस्य । देवा यस्य हिरण्मयानि पर्णानीत्यर्थः । अश्विभ्यां सरस्वत्या च सुपिप्पलः शोभनं पिप्पलं फलं यस्य सः । अश्विनौ सरस्वती च यस्य वनस्पतेः फलानीत्यर्थः । ऋषभः पूज्यः । ऋषभशब्दः पूजावचनः । वसु० व्याख्यातम् ॥५६॥

सप्तपञ्चाशी।
दे॒वं ब॒र्हिर्वारि॑तीनामध्व॒रे स्ती॒र्णम॒श्विभ्या॒मूर्ण॑म्रदा॒: सर॑स्वत्या स्यो॒नमि॑न्द्र ते॒ सद॑: ।
ई॒शायै॑ म॒न्युᳪ राजा॑नं ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५७ ।।
उ० देवं बर्हिः । यस्माद्देवं बर्हिः वारितीनाम् उदकवतीनां वा वारिप्रभवाणां वा वरतराणां वा ओषधीनां संबन्धि । अध्वरे स्तीर्णम् अश्विभ्यामध्वर्युभ्याम् ऊर्णम्रदाः ऊर्णेव मृदु । सरस्वत्या च । स्तीर्णमित्यनुवर्तते । तस्मात् स्योनं सुखरूपं । हे इन्द्र, तव सदः स्थानम् । किंच तस्मिन्सदसि । ईशायै ईशिताय ऐश्वर्याय मन्युं क्रोधम् त्वां राजानम् इन्द्रियं च अश्विनौ च सरस्वती च बर्हिषा दधुः । यद्वा ईशानाय तव मन्युं राजानमिन्द्रियं च । अश्विनौ सरस्वती च हविषा दधुः। वसुवन इति व्याख्यातम् ॥५७॥
म० हे इन्द्र, वारितीनां वारि जले इतिर्गतिर्यासां ता वारितयः तासां जलोद्भवानामोषधीनां संबन्धि बर्हिः ते तव सदः सदसि अध्वरे यज्ञे अश्विभ्यां सरस्वत्या च स्तीर्णमास्तृतम् । कीदृशं बर्हिः । देवं दीप्यमानम् । ऊर्णम्रदाः ऊर्णमिव म्रदीयः । छान्दस ईयोलोपः । अतएव स्योनं सुखरूपम् । किंच अश्विसरस्वत्यः बर्हिषा सह राजानं दीप्यमानं मन्युं क्रोधमिन्द्रियं च हे इन्द्र, त्वयि दधुः । किमर्थम् । ईशायै ऐश्वर्याय ईशनमीशा तस्यै 'गुरोश्च हलः' (पा० ३ । ३ । ३०३) इति स्त्र्यधिकारे ईशतेरप्रत्ययः स्त्रीत्वादाप् । वसु० व्याख्यातम् ॥ ५७ ॥

अष्टपश्चाशी।
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान्य॑क्षद्यथाय॒थᳪ होता॑रा॒विन्द्र॑म॒श्विना॑ वा॒चा वाच॒ᳪ सर॑स्वतीम॒ग्निᳪ सोम॑ᳪ स्विष्ट॒कृत् स्वि॑ष्ट॒ इन्द्र॑: सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षगि॒ष्टो दे॒वो वन॒स्पति॒: स्वि॒ष्टा दे॒वा आ॑ज्य॒पाः स्वि॑ष्टो अ॒ग्निर॒ग्निना॒ होता॑ हो॒त्रे स्वि॑ष्ट॒कृद्यशो॒ न दध॑दिन्द्रि॒यमूर्ज॒मप॑चितिᳪ स्व॒धां व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५८ ।।
उ० देवो अग्निः । यो देवो अग्निः स्विष्टकृत् शोभनमिष्टं कर्तव्यमित्ययमधिकारो यस्य स तथोक्तः । देवान् यक्षत् इष्टवान् । यथायथम् यथास्वं यथायथम् । यो यथा यष्टव्यः स तथेत्यर्थः । एवं सामान्यत उक्त्वा अथेदानीं विशेषत आह । होतारौ अयं चाग्निरसौ च मध्यमो वायुः होतृमित्रावरुणौ वा। इन्द्रं च अश्विनौ च वाचं कृत्वा वाचं च सरस्वतीं च अग्निं च सोमं च यक्षदिति संबन्धः। स्विष्टकृच्च स्विष्टः शोभनमिष्टः इन्द्रः सुत्रामा च इष्टः सविता इष्टः वरुणो भिषक् इष्टश्च देवो वनस्पतिः । स्विष्टा देवा आज्यपाः प्रयाजानुयाजाः इष्टश्चाग्निरग्निना । अथेदानीं होता स्विष्टकृत् होत्रे मानुषाय । यशो न दधत् । ददात्यर्थे दधातिः । ददातु । इन्द्रियं च ऊर्जं च अपचितिं पूजां च स्वधामन्नं च । वसुवने इति व्याख्यातम् ॥ ५८॥
म०. शोभनमिष्टं यागं करोतीति स्विष्टकृत् अग्निर्देवो यथायथं यथास्वं यो यथा यष्टव्यस्तथा देवान् वक्ष्यमाणान् यक्षत् इष्टवान् । कान् देवानत आह । होतारौ अयं चाग्निरसौ च मध्यमो वायुः होतृमैत्रावरुणौ वा इन्द्रम् अश्विना अश्विनौ च वाचा मन्त्रेण वाचं च यक्षत् सरखतीमग्निं सोमं च । किंच स्विष्टकृत् शोभनयज्ञकारी सुत्रामा शोभनरक्षकः । मनिन्प्रत्ययः । इन्द्रः स्विष्टः सुष्ठु इष्टः सविता वरुणो भिषगिष्टः वनस्पतिर्देवश्च इष्टः । आज्यपा देवाः प्रयाजानुयाजाः स्विष्टाः । अग्निरधिष्ठाता अग्निना भौमेन हविर्द्वारा सुष्ठु इष्टः । किंच होता दैव्यः स्विष्टकृत् होत्रे मानुषाय यशः इन्द्रियमूर्जमन्नमपचितिं पूजां स्वधां पित्रर्थमन्नं दधत् ददतु । नकारश्चार्थः । वसुवननाय वसुधनाय च देवा व्यन्तु हविरदन्तु । मनुष्यहोतर्यज ॥ ५८॥

एकोनषष्टी।
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मान॒: पच॒न् पक्ती॒: पच॑न् पुरो॒डाशा॑न् ब॒ध्नन्न॒श्विभ्यां॒ छाग॒ᳪ सर॑स्वत्यै मे॒षमिन्द्रा॑य ऋष॒भᳪ सु॒न्वन्न॒श्विभ्या॒ᳪ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ सुरासो॒मान् ।। ५९ ।।
उ० अग्निमद्य । सूक्तवाकप्रैषः । अग्निम् अद्य अस्मिन्द्यवि होतारम् अवृणीत वृतवानयं यजमानः । किं कुर्वन् । पचन् पक्तीः । पक्तव्यानि वसूनि इति सामान्यवचनम् । अथ विशेषः । पचन पुरोडाशान् पशुपुरोडाशान् । बध्नन् पशुं यूपे इति शेषः । अश्विभ्यां छागम् अश्विनोरर्थे छागम् सरस्वत्यै