पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० देवी ऊर्जाहुती । जोष्ट्र्यास्तुल्यदेवताविकल्पः । ये देव्यौ ऊर्जाहुती रसवती आहुतिराह्वानम् । दुघे दुग्धे सुदुघे सुदोहने। उपरितनेर्धर्चे आहुतीशब्दः श्रूयते स इह कृतविभक्तिव्यत्ययः समर्थीक्रियते । ताभ्यामाहुतिभ्याम् सरस्वती च अश्विनौ च भिषजौ अवतः । अवन्तीति वचनव्यत्ययः । इन्द्रमिति शेषः । कथं कृत्वा । शुक्रं च ज्योतिश्च पयोलक्षणं स्तनयोः इन्द्रियं च इन्द्रे धत्त इति विभक्तिव्यत्ययः । दधुः। वसुवने इति व्याख्यातम् ॥ ५२ ॥
म० उत्तरार्धे आहुतीशब्दस्तृतीयार्थः । जोष्ट्र्योरेव देवताविकल्पः । ये देवी ऊर्जाहुती ऊर्जा रसवती आहुतिराह्वानं होमो वा ययोस्ते ऊर्जाहुती । दुघे दुग्धस्ते दुघे कामपूरके । सुदुघे सुदोहने ताभ्यामाहुतिभ्यां सह सरस्वती भिषजावश्विनौ च इन्द्रे इन्द्रमवतः अवन्ति रक्षन्ति । वचनव्यत्ययः । कथं तदाह । ज्योतिः तेज इन्द्रे धत्तः दधति । स्तनयोः शुक्रमिन्द्रियं च धत्तः । वचनव्यत्ययः नश्चार्थः । व्याख्यातमन्यत् ॥ ५२॥

त्रिपञ्चाशी।
दे॒वा दे॒वानां॑ भि॒षजा॒ होता॑रा॒विन्द्र॑म॒श्विना॑ ।
व॒ष॒ट्का॒रै॒: सर॑स्वती॒ त्विषिं॒ न हृद॑ये म॒तिᳪ होतृ॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५३ ।।
उ०. देवा देवानाम् । यौ देवौ होतारौ देवानां भिषजौ ताभ्यां होतृभ्यां वषट्कारैश्च । अश्विनौ सरस्वती च इन्द्रं । इन्द्रे इति विभक्तिव्यत्ययः । इन्द्रियं च त्विर्षि दीप्तिं च हृदये मतिं च दधुः । वसुवने इति समञ्जसम् ॥ ५३ ॥
म० देवानां देवा देवौ यौ होतारौ अनुयाजदेवौ ताभ्यां होतृभ्यां सह वषट्कारैश्च सह भिषजौ अश्विनौ सरस्वती च इन्द्रमिन्द्रे त्विर्षि कान्तिं दधुः । हृदये मतिमिन्द्रियं बुद्धीन्द्रियं च दधुः । नश्चार्थः । वसु० उक्तम् ॥ ५३ ॥

चतुःपञ्चाशी।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर॒श्विनेडा॒ सर॑स्वती ।
शूषं॒ न मध्ये॒ नाभ्या॒मिन्द्रा॑य दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५४ ।।
उ० देवीस्तिस्रः । या देव्यस्तिस्रः सरस्वतीडाभारत्यः तिस्रो देवीः । अत्र विभक्तिव्यत्ययोऽध्याहारश्च वाक्यवशात् । तिसृभिर्देवीभिः सरस्वतीडाभारतीभिः । अश्विनौ च इडा च सरस्वती च । शूषं बलं च मध्ये नाभ्याम् इन्द्रियं च इन्द्राय । इन्द्रे इति विभक्तिव्यत्ययः । दधुः । वसुवने इति समानम् ॥ ५४ ॥
म. यास्तिस्रो देव्यो भारती इडा सरस्वती तिस्रो देवीः । विभक्तिव्यत्ययः । ताभिस्तिसृभिः देवीभिः सह अश्विनौ सरस्वती इडा च इन्द्राय इन्द्रे नाभ्यां मध्ये च शूषं बलमिन्द्रियं च दधुः । नश्चार्थः । वसु० व्याख्यातम् ॥ ५४ ॥

पञ्चपञ्चाशी ।
दे॒व इन्द्रो॒ नरा॒शᳪस॑स्त्रिवरू॒थः सर॑स्वत्य॒श्विभ्या॑मीयते॒ रथ॑: ।
रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्र॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५५ ।।
उ० देव इन्द्रः । यो देव इन्द्रः । 'इदि परमैश्वर्ये' । परमैश्वर्ययुक्तः । नराशंसः नरा अस्मिन्नासीनाः शंसन्तीति नराशंसः । त्रिवरूथः त्रिगृहः सदोहविर्धानाग्नीध्रैः । त्रिलोक्या वा त्रिगृहः । यस्य च सरस्वत्या अश्विभ्यां च ईयते उह्यते नीयते रथः। स यज्ञः। रेतोन रेतश्च अमृतं च रूपं च जनित्रं जन्म च । इन्द्राय इन्द्रे इन्द्रस्य वेति विभक्तिव्यत्ययः । कथम्भूतो यज्ञः । त्वष्टा त्वक्षतिः करोत्यर्थः । जगतः कर्ता । दधत् दधातु इन्द्रियाणि च । वसुवन इति व्याख्यातम् ॥ ५५॥
म० 'नरा अस्मिन्नासीनाः शंसन्ति' (निरु०८।६) | इति यास्कोक्तेः नराशंसो देवोऽनुयाजरूपो यज्ञः रेतो वीर्यं रूपं सौन्दर्यममृतं जनित्रमुत्तमं जन्म इन्द्रियाणि च इन्द्राय दधद्दधातु । नश्चार्थः। कीदृशो नराशंसः । इन्द्रः इन्दतीतीन्द्र ऐश्वर्यवान् । 'इदि परमैश्वर्ये' । त्रिवरूथः त्रीणि वरूथानि गृहाणि सदोहविर्धानाग्नीध्राणि यस्य सः । तथा त्वष्टा । वक्षतिः करोतिकर्मा । जगतः कर्ता यज्ञादेव जगदुत्पत्तेः । यस्य नराशंसस्य रथः सरस्वत्या अश्विभ्यां च ईयते नीयते ऊह्यते । वसु० व्याख्यातम् ॥ ५५॥

षट्पञ्चाशी।
दे॒वो दे॒वैर्वन॒स्पति॒र्हिर॑ण्यपर्णो अ॒श्विभ्या॒ᳪ सर॑स्वत्या सुपिप्प॒ल इन्द्रा॑य पच्यते॒ मधु॑ ।
ओजो॒ न जू॒तिर्ऋ॑ष॒भो न भामं॒ वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५६ ।।
उ० देवो देवैः । यो देवो वनस्पतिर्यूपः । देवैर्हिरण्यपर्णः यस्य देवा हिरण्मयानि पर्णानि । रूपकोऽत्रालंकारः । यश्च अश्विभ्यां सरस्वत्या च सुपिप्पलः । अश्विनौ सरस्वती च यस्य वनस्पतेः फलानीत्यर्थः । इन्द्राय इन्द्रार्थं च यः पच्यते फलति मधु मधुराणि फलानि । स वनस्पतिः ऋषभः। ऋषभशब्दः पूजावचनः। पूज्यः। जूतिः जूतिर्जवतेः।