पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धामानि अयाट् एताः प्रधानदेवताः अग्नेः प्रिया धामान्ययाट् सोमस्य प्रिया धामानि अयाट् एतावाज्यभागौ । सुष्ठु त्रायते सुत्राम्ण इन्द्रस्य प्रियाणि सवितुः प्रियाणि वरुणस्य प्रियाणि एताः पशुपुरोडाशदेवताः । वनस्पतेः प्रियाणि एतत्प्रधानाङ्गम् । आज्यपानां देवानां प्रियाणि एते प्रयाजानुयाजाः । होतुरग्नेः स्विष्टकृतः स्वस्यैव प्रियाणि धामानि यक्षत् इष्टवान् । स्वं महिमानं स्वां विभूतिं यक्षत् । किंच आ इज्याः समन्ताद् यष्टुं योग्या एज्याः यागार्हाः । इषः इच्छन्तीति इषः सकामाः प्रजाः आयजतां सम्यक् यजतु । वचनव्यत्ययः। प्रजा यागशीला यागयोग्याश्च भवन्त्वित्यर्थः । स जातवेदाः स्विष्टकृदग्निः अध्वरा अध्वरान्यज्ञान् कृणोतु करोतु । हविश्च जुषताम् । हे मनुष्यहोतः, त्वं यज । विभक्तेराकारः ॥ ४७ ॥

अष्टचत्वारिंशी।
दे॒वं ब॒र्हिः सर॑स्वती सुदे॒वमिन्द्रे॑ अ॒श्विना॑ ।
तेजो॒ न चक्षु॑र॒क्ष्यो॒र्ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ४८ ।।
उ० देवं बर्हिः एकादशानुयाजप्रैषाः अश्विसरस्वतीन्द्रदेवत्या व्यवहितपदप्रायाः। यत् देवं बर्हिः सुदेवम् शोभना देवा अस्येति सुदेवम् । तेन बर्हिषा सरस्वती अश्विनौ च इन्द्रे । तेजो न । नकारः समुच्चये । तेजश्च चक्षुश्च इन्द्रियं च अक्ष्योः अक्ष्णोः दधुः । वसुवननाय धनलाभाय । वसुधेयस्य धननिधानाय च । व्यन्तु पिबन्तु अश्विसरस्वतीन्द्राः । त्वमपि यज । अथ समस्तार्थः । यद्देवं बर्हिः सुदेवं तेन बर्हिषा सरस्वती अश्विनौ च तेजश्व अक्ष्णोः इन्द्रियं च दधुः । एवमग्रेऽपि ॥ ४८॥
म० 'अनुयाजप्रैषा देवं बर्हिरिति याज्याश्च' ( का० १९ ।७।८-९) देवं बर्हिः सरस्वतीत्याद्या एकादश कण्डिकास्त्रिपशोरनुयाजानां प्रैषा याज्याश्च भवन्तीत्यर्थः । एकादशानुयाजप्रैषा अश्विसरस्वतीन्द्रदेवत्याः चतस्र आर्ष्यस्त्रिष्टुभः व्यवहितपदप्रायाः । शोभना देवा यस्य तत्सुदेवं यद्बर्हिः देवमनुयाजदेवता तेन बर्हिषा सरस्वती अश्विना अश्विनौ च इन्द्रे तेजो दधुः दधतु । कक्ष्योः इन्द्रनेत्रयोः चक्षुः इन्द्रियं च दधुः । नकारश्चार्थः । एवमग्रेऽपि । वसुवने वसुवननाय धनलाभाय वसुधेयस्य वसुनो धेयं वसुधेयं तस्य वसुनिधानाय च अश्विसरस्वतीन्द्रा व्यन्तु हविर्भक्षयन्तु । हे मनुष्यहोतः, त्वमपि यज । सप्तमीषष्ठ्यौ चतुर्थ्यर्थे ॥ ४८ ॥

एकोनपञ्चाशी।
दे॒वीर्द्वारो॑ अ॒श्विना॑ भि॒षजेन्द्रे॒ सर॑स्वती ।
प्रा॒णं न वी॒र्यं॒ न॒सि द्वारो॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ४९ ।।
उ० देवीर्द्वारः । या देव्यः यज्ञगृहद्वारः ताभिः अश्विनौ भिषजौ च । सरस्वती च प्राणं च । नसि नासिकायाम्। वीर्यं च इन्द्रियं च । द्वारः द्वार्भिरिति विभक्तिव्यत्ययः । इन्द्रे दधुः । वसुवने इति व्याख्यातम् ॥ ४९ ॥
म० उत्तरार्धे द्वार इति प्रथमा तृतीयार्था । या द्वारो देवीः यज्ञगृहद्वारो देव्योऽनुयाजदेवाः ताभिर्द्वार्भिः सह भिषजा अश्विना वैद्यावश्विनौ सरस्वती च इन्द्रे वीर्य बलं दधुः । नसि इन्द्रस्य नासिकायां प्राणमिन्द्रियं घ्राणेन्द्रियं च दधुः । वसु० व्याख्यातम् ॥ ४९ ॥

पञ्चाशी।
दे॒वी उ॒षासा॑व॒श्विना॑ सु॒त्रामेन्द्रे॒ सर॑स्वती ।
बलं॒ न वाच॑मा॒स्य॒ उ॒षाभ्यां॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५०।।
उ० देवी उषासौ । नक्तोषासाविति प्राप्ते छान्दसः प्रातिपदिकलोपः । यौ देव्यौ नक्तोषासौ । ताभ्याम् अश्विनौ सुत्रामा शोभनत्राणौ सरस्वती च । बलं च वाचं च आस्ये मुखे । इन्द्रियं च इन्द्रे । उषाभ्यां नक्तोषोभ्यां दधुः व्याख्यातमन्यत् ॥ ५० ॥
म० नक्तोषासाविति प्राप्ते छान्दस आदिपदलोपः । उषासा देवी नक्तोषसी अनुयाजदेव्यौ ताभ्यामुषाभ्यां नक्तोषोभ्यां सह अश्विनौ सुमात्रा शोभनरक्षणकर्त्री सरस्वती च इन्द्रे बलं दधुः आस्ये इन्द्रमुखे वाचमिन्द्रियं वागिन्द्रियं च दधुः । नश्चार्थः । वस्वित्युक्तम् ॥ ५० ॥

एकपञ्चाशी।
दे॒वी जोष्ट्री॒ सर॑स्वत्य॒श्विनेन्द्र॑मवर्धयन् ।
श्रोत्रं॒ न कर्ण॑यो॒र्यशो॒ जोष्ट्री॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५१ ।।
उ० देवी जोष्ट्री । ये देव्यौ जोषयित्र्यौ द्यावापृथिव्यौ इति वा । अहोरात्रे इति वा । 'शस्यं च समा चेति 'कात्थक्यः' । ताभ्यां जोष्ट्रीभ्याम् सरस्वती चाश्विनौ च इन्द्रं अवर्धयन् । कथमवर्धयन् । श्रोत्रं च कर्णयोः यशश्च इन्द्रियं च इन्द्रे दधुः । वसुवन इति समञ्जसम् ॥ ५१ ॥
म० ये जोष्ट्री जोषयित्र्यौ सुखस्य सेवयित्र्यौ देवी देव्यौ । अनुयाजदेव्यौ द्यावापृथिव्यौ अहोरात्रे वा । 'शस्यं च समा चेति कात्थक्यः' ( निरु० ९ । ४१ । ६ ) ताभ्यां जोष्ट्रीभ्यां सह सरस्वती अश्विना अश्विनौ च इन्द्रमवर्धयन् । कथमवर्धयन् तत्राह । इन्द्रे यशो दधुः । तत्कर्णयोश्च श्रोत्रमिन्द्रियं दधुः । वसु० व्याख्यातम् ॥ ५१॥

द्विपञ्चाशी।
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघेन्द्रे॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑ऽवतः ।
शु॒क्रं न ज्योति॒ स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५२ ।।