पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० होता यक्षद्वनस्पतिम् । वनस्पतिप्रैषः । होता यजतु वनस्पतिं यूपम् । अभि हि पिष्टतमया रभिष्टतया रशनयाधित । कस्माद्वनस्पतिं यजतु । हिशब्दो यस्मादर्थे । यस्मात् अभ्यधित । 'स्थाध्वोरिच्च' इति दधातेर्लुङ् । इत्यभिधारितवान् । केनाभिधारितवान् । पिष्टशब्दो रूपवाची । पिष्टतमया रभिष्टया च आलब्धतमया । अतिशयेन नियमकारिण्या । रशनया जालभूतया । प्रार्थयामि वनस्पतिम् । यत्र देशे अश्विनौ छागस्य च हविषश्च प्रिया प्रियाणि धामानि स्थानानि । यत्र सरस्वत्याः यत्रेन्द्रस्य । एताः पशुदेवताः अथाज्यभागौ । यत्राग्नेः यत्र सोमस्य । अथ पशुपुरोडाशदेवताः। यत्रेन्द्रस्य सुत्राम्णः यत्र सवितुः यत्र वरुणस्य यत्र वनस्पतेः प्रियापाथांसि। पाथःशब्दोऽन्नवचनः। वनस्पतिः पशोरिवाङ्गम् । अथ प्रयाजानुयाजाः । यत्र देवानामाज्यपानाम् । अथ स्विष्टकृत् । यत्राग्नेर्होतुः प्रियाणि स्थानानि तत्र तेषु स्थानेषु एतान् पशून् । प्रस्तुत्येव प्रस्तुत्य च उपस्तुत्येव । अतिशयार्थं पुनर्वचनम् । उपावस्रक्षत् उपावसृजतु । रभीयस इव कृत्वी 'रभ राभस्ये' रभसांश्च पशून् कृत्वा करत् करोतु । एवं देवो वनस्पतिर्जुषतां हविः । त्वमपि हे मनुष्यहोतः, यज ॥ ४६ ।।
म० 'उत्तमौ वनस्पतिस्विष्टकृतोः' ( का० १९ । ६ । २५)। अन्ते पठ्यमानौ होता यक्षद्वनस्पतिमभि होता यक्षदग्निं स्विष्टकृतमिति क्रमेण वनस्पतियागे स्विष्टकृद्यागे च प्रैषौ । यूपो देवता । दैव्यो होता वनस्पतिं यूपमभियक्षत् अभियजतु । हि यस्मात् वनस्पतिः रशनया रज्ज्वा कृत्वा अधित धृतवान् । पशुनिति शेषः । दधातेर्लुङि 'स्थाध्वोरिच्च' (पा० १।२। १७) इतीकारः । कीदृश्या रज्ज्वा । पिष्टतमया । पिष्टशब्दो रूपवाची । अत्यन्तं पिष्टा सुरूपा पिष्टतमा तया । रभिष्ठया रभते पशून्नियच्छतीति रब्धी तृच ङीप् । अत्यन्तं रब्धी रभिष्ठा तया । 'तुश्छन्दसि' (पा० ५। ३ । ५९ ) इतीष्ठनि तृचो लोपः । समर्थयेत्यर्थः । इदानीं वनस्पतिः प्रार्थ्यते ।। यत्र अश्विनोः संबन्धिनः छागस्य हविषः छागरूपस्य हविषः प्रिया प्रियाणि इष्टानि धामानि स्थानानि वर्तन्त इति शेषः । एवमग्रेऽपि । यत्र सरस्वत्या मेषस्य मेषरूपस्य हविषः प्रियाणि धामानि यत्र इन्द्रस्य ऋषभस्य हविषः प्रियाणि धामानि एतेषां पशुदेवानां स्थानानि । यत्राग्नेः प्रियाणि धामानि यत्र करणस्य प्रियाणि धामानि एते पशुपुरोडाशदेवा यत्र सोमस्य प्रियाणि धामानि एतावाज्यभागौ । यत्र सुत्राम्ण इन्द्रस्य प्रियाणि धामानि । यत्र सवितुः प्रियाणि धामानि यत्र वनस्पतेः प्रियाणि पाथांसि अन्नानि । अथ यत्र आज्यपानां देवानां प्रयाजानुयाजानां प्रियाणि धामानि । यत्र होतुरग्नेः स्विष्टकृतः प्रियाणि धामानि । एताञ्छागादीन् पशून् रभीयस इव कृत्वी रभन्ते ते रब्धारः अत्यन्तं रब्धारो रभीयांसः सरभसांश्च कृत्वा इवश्चार्थः । प्रस्तुत्येव प्रकर्षेण स्तुत्वा च उपस्तुत्येव उप समीपे स्तुत्वा च । इवौ चार्थौ । तत्र तेषु पूर्वोक्तेषु स्थानेषु वनस्पतिर्देव उपावस्रक्षत् उपावसृजतु स्थापयतु । सृजेर्लुङि रूपं । लेटि वा 'सिब्बहुलं लेटि' (पा० ३ । १।३४) | इति सिप्प्रत्ययेऽडागमे च रूपम् । वनस्पतिर्देव एवं करत् करोतु । हविश्च जुषताम् । हे मनुष्यहोतः, त्वमपि यज ॥ ४६ ॥

सप्तचत्वारिंशी।
होता॑ यक्षद॒ग्निᳪ स्वि॑ष्ट॒कृत॒मया॑ड॒ग्निर॒श्विनो॒श्छाग॑स्य ह॒विष॑: प्रि॒या धामा॒न्यया॒ट् सर॑स्वत्या मे॒षस्य॑ ह॒विष॑: प्रि॒या धामा॒न्यया॒डिन्द्र॑स्य ऋष॒भस्य॑ ह॒विष॑: प्रि॒या धामा॒न्यया॑ड॒ग्नेः प्रि॒या धामा॒न्यया॒ट् सोम॑स्य प्रि॒या धामा॒न्यया॒डिन्द्र॑स्य सु॒त्राम्ण॑: प्रि॒या धामा॒न्यया॑ट् सवि॒तुः प्रि॒या धामा॒न्यया॒ड् वरु॑णस्य प्रि॒या धामा॒न्यया॒ड् वन॒स्पते॑: प्रि॒या पाथा॒ᳪस्यया॑ड् दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यक्ष॑द॒ग्नेर्होतु॑: प्रि॒या धामा॑नि॒ यक्ष॒त् स्वं म॑हि॒मान॒माय॑जता॒मेज्या॒ इष॑: कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दा जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ ।। ४७ ।।
उ० होता यक्षदग्निं स्विष्टकृतम् । स्विष्टकृत्प्रैषः । दैव्यो होता यजतु । अग्निं स्विष्टकृतम् । कस्माद्धेतोरित्यत आह । अयाट् अयाक्षीत् इष्टवान् । एवमग्रेऽपि । योऽग्निः अश्विनोः छागस्य च हविषश्च प्रियाणि धामानि । अयाट् सरस्वत्याः अयाट् इन्द्रस्य । प्रधानदेवताः। अयाट् अग्नेः अयाट् सोमस्य । आज्यभागौ । अयाट् इन्द्रस्य सुत्राम्णः अयाट् सवितुः अयाट् वरुणस्य । पशुपुरोडाशदेवताः । अयाट् वनस्पतेः प्रियाणि पाथांस्यन्नानि । वनस्पतिः प्रधानाङ्गदेवता । अयाट् देवानाम् आज्यपानाम् प्रयाजानुयाजा आज्यपाः । यक्षदग्नेर्होतुः यक्षत् इष्टवान् । अग्नेर्होतुः स्विष्टकृतः स्वयमेव प्रियाणि धामानि यक्षत् अयाक्षीत् । स्वं महिमानं स्वकीयां विभूतिम् । किंच । आयजतामेज्या इषः । यजतामिति वचनव्यत्ययः । आइज्या अभियष्टव्या यागार्हा इषः प्रजाः। इषान्नेन तासां स्थितिरुत्पत्तिश्चेति इषः प्रजा उक्ताः । यागशीला यागार्हा: प्रजा भवन्तीत्यर्थः । कृणोतु करोतु । सः अध्वरा अध्वरानू यज्ञान् जातवेदाः जुषतां च हविः । हे मनुष्यहोतः, त्वमपि यज ॥ ४७ ॥
म० स्विष्टकृदग्निदेवता । होता स्विष्टकृतमग्निं यक्षत् यजतु । योऽग्निः स्विष्टकृत् अश्विनोः छागस्य हविषः संबन्धीनि प्रियाणि धामानि अयाट् अयाक्षीत् इष्टवान् । अवदानानि यजति स्मेत्यर्थः । एवमग्रेऽपि । सरस्वत्या मेषस्य हविषः प्रियाणि धामानि अवदानानि अयाट् इन्द्रस्य ऋषभस्य हविषः प्रियाणि