पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'हविषामुत्तरे यथालिङ्गम्' (का० १९ । ६ । २४)।' चतुर्थात्प्रैषादग्रे पठ्यमाना 'होता यक्षदश्विनौ छागस्य हविषः' इत्याद्यास्त्रयो यथालिङ्गमाश्विनादिहविर्यागानां प्रैषा इत्यर्थः । दैव्यो होता अश्विनौ यक्षत् यजतु । ताविज्यमानावश्विनौ छागस्य हविषः छागसंबन्धि हविः आत्ताम् अभक्षयताम् । कर्मणि षष्ठी । किंच अद्य अस्मिन् दिने मध्यतः उदरमध्यादुद्भृतमुद्धृतं मेदो वपारूपं चात्ताम् । 'हृग्रहोर्भश्छन्दसि' । कथमुद्धृतं तत्राह । द्वेषोभ्यः द्विषन्तीति द्वेषांसि । द्वेषेरसुन्प्रत्ययः । यज्ञद्वेष्टॄणि असुररक्षांसि तेभ्यः उद्धृतम् । यावत्तानि पराभवायागच्छन्ति ततः पुरैवोद्धृतमित्यर्थः । तथा गृभः गृह्यते भक्ष्यार्थमिति गृप् तस्या गृभः इडायाः पुरा प्रथममुद्धृतम् । वपायामिडाप्रयोजनाभावात् । कीदृश्या गृभः । पौरुषेय्याः पुरुषार्थमियं पौरुषेयी ऋत्विगर्था तस्याः । तावश्विनौ नूनं निश्चितमङ्गानां घस्तामङ्गानि भक्षयताम् । 'घस्लृ अदने' विशेषणैर्विशेष्यस्याध्याहारः । कीदृशानामङ्गानाम् । घासे अज्राणाम् । एकपदं घासे ग्रासे अजराणां नवानां रुचिजनकानाम् । अन्यानि ग्रासेषूत्तरोत्तरमरुचिं जनयन्ति नेमानि । तथा यवसप्रथमानां यवसानामन्नानां मध्ये प्रथमानां मुख्यानां मांसत्वात् । 'एतद्वै परममनाद्यं यन्माᳪसम्' इति श्रुतेः । सुमत्क्षराणां सुमत् स्वयं क्षरन्ति तानि सुमत्क्षराणि तेषाम् । सुमदिति स्वयमित्यस्य पर्यायः। शतरुद्रियाणाम् । रुद्र इति स्तोतृनामसु पठितम् । रुद्रस्य स्तोतुरिमा रुद्रियाः स्तुतयः । शतमसंख्या रुद्रिया येषां तेषाम् । बहुमन्त्रैः स्तुतानामित्यर्थः । अग्निष्वात्तानाम् अग्निना स्वात्तानामास्वादितानाम् । पाककाले पूर्वमग्निना सुशृतानामित्यर्थः । पीवोपवसनानाम् । पीवस्शब्दोऽसुन्नन्तः स्थूलवाची । पीवसां स्थूलानामङ्गानामुप समीपे वसनं स्थितिर्येषां तानि पीवोपवसनानि तेषाम् । स्थूलाङ्गसमीपस्थितानां सूक्ष्माणामित्यर्थः । 'उपवसने पीवः' इति प्रातिशाख्यसूत्रेण उपवसने परे पीवसो विसर्गलोपः । किंच पार्श्वतः पार्श्वप्रदेशात् । श्रोणितः कटिप्रदेशात् । शितामतो बाहुप्रदेशात् । उत्सादतः उत्सादनमुत्सादः, छेदनप्रदेशः तस्मात् । एवमङ्गादङ्गात् एकपदम् 'नित्यवीप्सयोः' (पा० ८।१।४) इति द्वित्वम् । प्रसङ्गात् अवत्तानामवदान- : धर्मेण गृहीतानामङ्गावयवानामश्विनौ घस्ताम् तान् भक्षयतामिति पूर्वेण संबन्धः । एव एवमश्विना अश्विनौ हविर्जुषेतां सेवेताम् भक्षितावदानौ तौ करतः कुरुतः । तृप्तिमिति शेषः । विकरणव्यत्ययः। पुनर्वचनमादराय । हे मनुष्यहोतः, त्वमपि यज । शितामशब्देन बाहुयकृद्योनिमेदांस्युच्यन्ते ॥ ४३ ॥

चतुश्चत्वारिंशी।
होता॑ यक्ष॒त् सर॑स्वतीं मे॒षस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वᳪ सर॑स्वती जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ ।। ४४ ।।
उ० होता यक्षत्सरस्वतीं मेषस्य । होता यजतु सरस्वतीम् । या हविष आवयत् । आङ्पूर्वस्य वनेः स्वादनार्थस्य लिटि भूतार्थाभिधायिन्येतद्रूपम् । घसत् लोडर्थे लेट् । जुषतामेकवचनम् । अन्यदुक्तम् ॥ ४४ ॥
म० होता सरस्वतीं यक्षत् या सरस्वती मेषस्य हविषः हविः आवयत् अभक्षयत् । आङ्पूर्वस्य वेतेर्लङि रूपम् । यद्वा भक्षयतु । लेटि वाडागमे रूपम् । अद्य मध्यतो मेद इत्यादिव्याख्या पूर्ववत् । सा अङ्गानि घसत् । एवं सरस्वती हविर्जुषतां तृप्तिं च करदित्येकवचनानि । अन्यदुक्तम् ॥ ४४ ॥

पञ्चचत्वारिंशी।
होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ ।। ४५ ।।
उ० होता यक्षदिन्द्रमृषभस्य । तुल्यव्याख्यानम् ॥४५॥
म० होता इन्द्रं यक्षत् । स इन्द्र ऋषभस्य हविष आवयत् भक्षयतु । एवमिन्द्रो हविर्जुषतामित्यन्तं पूर्ववत् ॥ ४५ ॥

षट्चत्वारिंशी।
होता॑ यक्ष॒द्वन॒स्पति॑म॒भि हि पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त । यत्रा॒श्विनो॒श्छाग॑स्य ह॒विष॑: प्रि॒या धामा॑नि॒ यत्र॒ सर॑स्वत्या मे॒षस्य॑ ह॒विष॑: प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य ऋष॒भस्य॑ ह॒विष॑: प्रि॒या धामा॑नि॒ यत्रा॒ग्नेः प्रि॒या धामा॑नि॒ यत्र॒ सोम॑स्य प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य सु॒त्राम्ण॑: प्रि॒या धामा॑नि॒ यत्र॑ सवि॒तुः प्रि॒या धामा॑नि॒ यत्र॒ वरु॑णस्य प्रि॒या धामा॑नि॒ यत्र॒ वन॒स्पते॑: प्रि॒या पाथा॑ᳪसि॒ यत्र॑ दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेर्होतु॑: प्रि॒या धामा॑नि॒ तत्रै॒तान्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑वो॒पाव॑स्रक्ष॒द्रभी॑यस इव कृ॒त्वी कर॑दे॒वं दे॒वो वन॒स्पति॑र्जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ ।। ४६ ।।