पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्निग्धभागः । हे होतर्यज । होता सरस्वतीं यक्षत् । सा मेषस्य वपाया मेदसो हविर्जुषताम् । हे होतः, त्वं यज । होता इन्द्रं यक्षत् स इन्द्रः ऋषभस्य वपाया मेदसो हविर्जुषताम् । हे मनुष्यहोतः त्वमपि यज ॥ ४१ ॥

द्विचत्वारिंशी।
होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्र॑ᳪ सु॒त्रामा॑णमि॒मे सोमा॑: सु॒रामा॑ण॒श्छागै॒र्न मे॒षैरृ॑षभैः सु॒ताः शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः शु॒क्राः पय॑स्वन्तो॒ऽमृता॒: प्रस्थि॑ता वो मधु॒श्चुत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्र॑: सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ᳪ सो॒म्यं मधु॒ पिब॑न्तु॒ मद॑न्तु॒ व्यन्तु॒ होत॒र्यज॑ ।। ४२ ।।
उ० होता यक्षदश्विनौ सरस्वतीम् । ग्रहाणां प्रैषः । दैव्यो होता यजतु । अश्विनौ च सरस्वतीं च इन्द्रं च सुत्रामाणम् । एवं होतारमुक्त्वाथेदानीमध्वर्यूनाह । हे अध्वर्यवः, इमे सोमाः सुरामाणः सुरमणीयाः सुरावन्तो वा । सुरामया वा। छागैर्न मेषैः ऋषभैः सुताः। नकाराः सर्वे समुच्चयार्थीयाः । छागैश्च मेषैश्च ऋषभैश्च सुता अभिषुताः समर्थीकृताः । शष्पैश्च तोक्मभिश्च लाजैश्च महस्वन्तः महाभाग्ययुक्ताः महातर्पणीयाः । मासरेण परिष्कृताः । 'संपर्युपेभ्यः करोतौ भूषणे' इति सुट् । मासरेण अलंकृताः । शुक्राः शोचिष्मन्तः पयस्वन्तः पयसा संयुक्ताः । अमृताः अमृतकल्पाः । प्रस्थिताः होमाभिमुखीभूताः । वः युष्मत्संबन्धेन । इत्यध्वर्युविषयम् । मधुश्चुतः मधुस्रवाः मधुक्षरणाः तानेतान्सोमान् अश्विनौ च सरस्वती च इन्द्रश्च सुत्रामा । साधुत्राणः वृत्रहा जुषताम् जुषित्वा च । सोम्यं सोममयं मधु पिबन्तु च मदन्तु च व्यन्तु च । त्वमपि हे मनुष्यहोतः, यज ॥ ४२ ॥
म० 'ग्रहाणां चतुर्थः' (का० १९ । ६ । २३)। होता यक्षदश्विनौ सरस्वतीमिन्द्रमिति चतुर्थो ग्रहाणां प्रैषः । होता यक्षदश्विनौ सरस्वतीं सुष्ठु रक्षितारमिन्द्रं च यक्षत् यजतु । एवं होतारमुक्त्वाध्वर्यूनाह । हे अध्वर्यवः, इमे सोमाः वो युष्माकं युष्माभिः सुता अभिषुताः । कीदृशाः सोमाः । छागैर्मेषैर्ऋषभैश्च सुरामाणः सुष्ठु रमयन्ति ते सुरामाणः रमणीयाः । रमतेरनण्प्रत्ययः । पशुभिः कृला रमणीयाः नौ चार्थौ । सुरावन्तः सुरामया वा । तथा शष्पैः तोक्मभिर्यवाङ्कुरैर्लाजैश्च महस्वन्तः तेजोयुताः । मदाः मदयन्ति तर्पयन्तीति मदाः । मासरेण पूर्वोक्तेन परिष्कृता अलंकृताः 'संपर्युपेभ्यः-' (पा० ६।१। १३७) इति सुट् । शुक्राः शोचिष्मन्तः । पयस्वन्तः पयसा युक्ताः अमृताः अमृतकल्पाः । प्रस्थिताः होमाभिमुखं चलिताः। मधुश्चुतः मधु श्चोतन्ते ते मधुस्राविणः । अश्विनौ सरस्वती सुत्रामा वृत्रहा वृत्रासुरहन्ता इन्द्रश्च तान् सोमान् जुषन्तां सेवन्ताम् । सोम्यं मधु पिबन्तु मदन्तु तृप्यतु व्यन्तु राजन्तां हविर्भक्षयन्तु वा । हे होतः, त्वमपि यज ॥ ४२ ॥

त्रिचत्वारिंशी।
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस्तां॑ नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑त ए॒वाश्विना॑ जु॒षेता॑ᳪ ह॒विर्होत॒र्यज॑ ।। ४३ ।।
उ० होता यक्षदश्विनौ छागस्य । प्रैषः । होता यजतु । अश्विनौ छागस्य छागाङ्गस्य तावश्विनौ छागसंबन्धिनः हविषः अत्ताम् । 'अद भक्षणे' । अभक्षयतां भक्षितवन्तौ । अद्य अस्मिन्द्यवि । मध्यतो मेद उद्भृतम् उदरमध्यतो वपालक्षणं मेदः उद्धृतम् । 'हृग्रहोर्भश्छन्दसि' इति हस्य भकारः । पुराद्वेषोभ्यः पूर्वमसुररक्षोभ्यः यज्ञद्वेष्टृभ्यो वा । पुरा च पौरुषेय्यागृभः पुरुषार्थं गृह्यते इति पौरुषेयीगृप् तस्याः पौरुषेय्यागृभः । इडाया इत्यर्थः । नहि वपायागे इडा विद्यते । यावेवं वपाहविष आत्तां ताविदानीं घस्तां भक्षयताम् । अङ्गानां स्वमंशभूतमिति शेषः। विशेषणैर्विशेष्यस्याध्याहारः। नूनं निश्चयेन । किंभूतानामङ्गानाम् । घासे ग्रासे अज्राणाम् अवत्तानाम् । घासेयैरजितं स्वेच्छया घासे वा यान्यजराणि स्युः। यवसप्रथमानां यवसानामन्नानां यानि प्रथमानि मन्त्रैः संस्कृतत्वात् । 'एतद्वै परममन्नाद्यं यन्मांसम्' इति श्रुतेः । सुमत्क्षराणाम् । सुमत् स्वयमित्यर्थः । स्वयमेव यानि क्षरन्ति अदितानि । शतरुद्रियाणाम् बहुस्तुतीनाम् । रुद्र इति हि स्तोतृनामसु पठितम् । रुद्रस्य स्तोतुरिमा रुद्रियाः स्तुतयः । बहुशो वा रुद्राणां अग्निष्वात्तानां अग्निना साधुपाकार्थमासादितानाम् । अग्निना सुश्रुतानामित्यर्थः । पीवोपवसनानाम् । पीवशब्दः स्थूलवचनः । पीवभिः स्थूलैरुपोषितं यैरवदानैः स्थूलानामुपवसनं समीपस्थितिर्येषामिति वा । किंच । पार्श्वतः श्रोणितः शितामत उत्सादतः। अङ्गादङ्गादवत्तानां पार्श्वतोवत्तानाम् पार्श्वं परशुमयमङ्गं भवति । श्रोणितोऽवत्तानां शितामतोऽवत्तानाम् । शितामशब्देन यकृद्वाशिताम् योनिर्वाशिताम् मेदोवाशिताम् इति व्याख्याभेदाः। उत्सादनप्रदेशात् छेदनप्रदेशात् । अवत्तानाम् । एवमङ्गादङ्गादवत्तानाम् । करत एवाश्विनौ तृप्तिमिति शेषः । जुषेतां च । पुनर्वचनमादरार्थम् । त्वमपि हे मनुष्यहोतः, यज ॥ ४५ ॥