पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चत्वारिंशी।
होता॑ यक्षद॒ग्निᳪ स्वाहाऽऽज्य॑स्य स्तो॒काना॒ᳪ स्वाहा॒ मेद॑सां॒ पृथ॒क् स्वाहा॒ छाग॑म॒श्विभ्या॒ᳪ स्वाहा॑ मे॒षᳪ सर॑स्वत्यै॒ स्वाहा॑ ऋष॒भमिन्द्रा॑य सि॒ᳪहाय॒ सह॑स इन्द्रि॒यᳪ स्वाहा॒ऽग्निं न भे॑ष॒जᳪ स्वाहा॒ सोम॑मिन्द्रि॒यᳪ स्वाहेन्द्र॑ᳪ सु॒त्रामा॑णᳪ सवि॒तारं॒ वरु॑णं भि॒षजां॒ पति॒ᳪ स्वाहा॒ वन॒स्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जᳪ स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णो अ॒ग्निर्भे॑ष॒जं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑।। ४०।।
उ० होता यक्षदग्निं स्वाहा । दैव्यो होता यजतु । अग्निं प्रयाजदेवतां वा आहवनीयं वा । स्वाहाज्यस्य स्तोकानाम् | सुष्ठु आह शोभनमाह यजमानः आज्यस्य स्तोकानाम् । स्तोका विप्रुषः । स्वाहा मेदसां पृथक् । शोभनमाह यजमानः मेदसां वपासंबद्धानाम् पृथक् पृथक् । वपाः श्रप्यमाणा आज्येनाभिघार्यन्ते तदभिप्रायमेतत् । स्वाहा छागमश्विभ्याम् । छागमेषर्षभशब्दाः पशुवचनाः। शोभनमाह यजमानश्छागपशुमश्विभ्यां मेषं शोभनं सरस्वत्यै च । स्वाहा ऋषभमिन्द्राय । शोभनमाह यजमानः ऋषभं इन्द्राय । कथंभूताय इन्द्राय । सिंहाय अभिभवित्रे । पुनः कथंभूताय । सहसे बलात्मकाय च । किंभूतमृषभम् । इन्द्रियं इन्द्रियात्मकमिति सामानाधिकरण्यात्संबन्धः । स्वाहाग्निं न भेषजम् आज्यभागौ सुआह यजमानः । अग्निं च भेषजम् । स्वाहा सोममिन्द्रियं शोभनमाह यजमानः सोममिन्द्रियात्मकम् । स्वाहेन्द्रं सुत्रामाणं सवितारं वरुणं भिषजांपतिम् । पशुपुरोडाशदेवताः । सुआह यजमानः । इन्द्रं सुत्रामाणम् सवितारं च । वरुणं वैद्यानां पतिं च । स्वाहा वनस्पतिम् प्रियं पाथोन भेषजम् । सुआह यजमानः वनस्पतिम् प्रियं पाथश्चान्नं भेषजं च । पशुदेवतानां वनस्पतिम् स्वाहादेवा आज्यपाः । प्रयाजानुयाजा वै देवा आज्यपाः । शोभनमाह यजमानः देवा आज्यपाः इज्यमाना वै देवा उत्तमे से प्रयाजे स्मर्यन्त इत्यतो विभक्तिव्यत्ययोत्र न कृतः । श्रुतिस्तु 'देवा ह वा ऊचुर्हन्त विजितमेवानुसर्व यज्ञᳪ सᳪस्थापय' इत्युपक्रम्य 'त उत्तमे प्रयाजे स्वाहाकारेणैव सर्वं यज्ञᳪ सᳪस्थापयन्' इत्याह । अतः स्वाहाकारा समाप्तिवचनाः समाप्तिवचनत्वाच्च स्वाहाकाराणां देवतापदस्य चतुर्थ्या भवितव्यम् । स्वाहा देवेभ्य . आज्यपेभ्य इत्ययं प्रकारः। त्र जुषाणो अग्निर्भेषजम् । जुषाणः सेवमानः अग्निः भेषजमौषधम् इन्द्रस्य यजमानस्य वा करोतु अश्विसरस्वतीन्द्राश्च प्रा दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ४०॥
म० होता अग्निं प्रयाजदेवमाहवनीयं वा यक्षत् यजतु । किंच आज्यस्य घृतस्य स्तोकानां विप्रुषां स्वाहा सुष्ठु आह शोभनं वदति । 'द्व्यचोऽतस्तिङः' ( पा० ६ । ३ । १३५ ) इति दीर्घः । ब्रुवो रूपम् । यजमान इति शेषः । यजमानो घृतबिन्दून् शोभनान्वदतीत्यर्थः । कर्मणि षष्ठी । मेदसां वपासंबन्धिनां पृथक् स्वाहा । वपासंबन्धिमेदांसि समीचीनानीति पृथग्वदति अश्विभ्यामश्विनोरर्थे छागं शोभनमाह । सरस्वत्यै मेषं शोभनमाह । इन्द्राय इन्द्रियं वीर्यप्रदमृषभं सु आह । कीदृशायेन्द्राय । सिंहाय सिंहतुल्याय हिनस्तीति सिंहस्तस्मै शत्रूणामभिभवित्रे । तथा सहसे बलात्मकाय । भेषजं हितकारिणमग्निं च सु आह । नश्चार्थः । इन्द्रियं वीर्यप्रदं च सोमं सु आह । एतावग्नीषोमावाज्यभागौ सु आहेत्यर्थः । सुष्ठु त्रायते सुत्रामा तं सुत्रामाणमिन्द्रं सवितारं भिषजां वैद्यानां पतिं वरुणं च सु आह । पशुपुरोडाशदेवताः सु आहेत्यर्थः । प्रियमिष्टं पाथोऽन्नमन्नभूतं भेषजं च पशुदेवतानां वनस्पतिं प्रयाजदेवं सु आह । नकारश्चार्थः। आज्यपा देवा आज्यपान् देवान् सु आह । 'प्रयाजानुयाजा वै देवा आज्यपाः' । स्वाहेतिक्रियाया यजमानः कर्ता । 'देवा ह वा ऊचुर्हन्त विजितमेवानु सर्व यज्ञं सᳪस्थापय' इत्युपक्रम्य 'तत उत्तमे प्रयाजे स्वाहाकारेणैव यज्ञᳪसमस्थापयन्' इत्याहेति श्रुतेः समाप्तिवचनाः स्वाहाकाराः। भेषजमौषधभूतं जुषाणः सेवमानोऽग्निरश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयआदीनि व्यन्तु । हे मनुष्यहोतः, त्वमपि यज ॥ ४० ॥

एकचत्वारिंशी।
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य व॒पाया॒ मेद॑सो जु॒षेता॑ᳪ ह॒विर्होत॒र्यज॑ ।
होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ ।
होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ ।। ४१।।
उ० होता यक्षदश्विनौ छागस्य त्रयो वपानां प्रैषा यथालिङ्गम्। दैव्यो होता यजतु। अश्विनौ छागस्य वपाया मेदसः स्नेहप्रकृतिर्मेदः। तौ चेज्यमानौ जुषेतां हविः। त्वं च हे मनुष्यहोतः यज। होता यक्षत्सरस्वतीं मेषस्य। जुषतामित्येकवचनविशेषः। होता यक्षदिन्द्रमृषभस्य। सममन्यत्। ॥४१॥
म० होता यक्षदश्विनाविति त्रयो वपानां प्रैषा यथालिङ्गम्' ( का० १९ । ६ । २२) । होता यक्षदश्विनौ छागस्य होता यक्षत्सरस्वतीम् होता यक्षदिन्द्रमृषभस्येति त्रयो वपात्रयस्य क्रमात् प्रैषा एककण्डिकायामिति सूत्रार्थः । सप्त लिङ्गोक्तदेवताः । तत्राद्यास्त्रयो वपानां प्रैषाः त्रयाणां प्राजापत्या पङ्क्तिश्छन्दः । द्वितीयस्य द्व्यधिका प्रथमतृतीययोरेकाधिका । दैव्यो होता अश्विनौ यक्षत् यजतु । इज्यमानौ तावश्विनौ छागस्य वपाया मेदसः हविर्जुषेतां सेवेताम् । मेद