पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० होता यक्षत्तिस्रो देवीः । होता यजतु तिस्रो देवीः वक्ष्यमाणाः । नभेषजं त्रयस्त्रिधातवोपसः । नकारः समुच्चयार्थीयो भिन्नक्रमः । भेषजं च या इन्द्रे कुर्वन्ति ताश्च होता यजतु । त्रयः पशवः त्रिधातवः । आश्विनो धूम्रः सारस्वतो मेषः ऐन्द्र ऋषभः इति त्रयः पशवः । प्रधानाङ्गोपाङ्गभेदात्त्रिधातवः पशवः । अपसः अपस्विन इति प्राप्ते छान्दसो मतुब्लोपः । कर्मवन्तः । अग्नयो वा त्रयस्त्रिधातवः । रूपमिन्द्रे हिरण्ययमश्विनेडा न भारती । ये च इन्द्रे रूपं हिरण्मयं कुर्वन्ति ताश्च होता यजतु । के ते इत्यत आह । अश्विनौ इडा च भारती च । वाचा सरस्वती मह इन्द्राय दुह इन्द्रियम् । या च वाचा त्रयीलक्षणया सरस्वती महः महत्त्वं पूजामिन्द्राय दुहे दोग्धि इन्द्रियं च । तां च होता यजतु । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३७॥
म० नौ चार्थौ । दैव्यो होता । इडा भारती सरस्वती चेति तिस्रो देवीः प्रयाजदेवीः इन्द्रे इन्द्रमश्विना अश्विनौ च यक्षत् यजतु । या सरस्वती वाचा त्रयीलक्षणया भेषजमौषधं हिरण्ययं द्योतमानं रूपं च महस्तेजश्च इन्द्रियं चेन्द्राय इन्द्रार्थं । दुहे दुग्धे । कैः कृत्वा । त्रयस्त्रिधातवः त्रिभिः पशुभिः । तृतीयार्थे प्रथमा । त्रयो धातवः प्रधानाङ्गोपाङ्गलक्षणाः प्रकारा येषां ते त्रिधातवः पशवः । ते च त्रयः आश्विनो धूम्रः सारस्वतो मेषः ऐन्द्र ऋषभः । कीदृशाः पशवः । अपसः । अप इति कर्मनाम विनो लोपः । अपस्विनः कर्मवन्तः । त्रिभिः पशुभिर्भेषजरूपेन्द्रियमहांसि इन्द्राय दुग्धे । तेऽश्यालोदयः पयआदीनि पिबन्तु। हे होतः, त्वमप्याज्यस्य यज घृतं देहि ॥ ३७ ॥

अष्टत्रिंशी।
होता॑ यक्षत् सु॒रेतसमृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भि॒षजं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षग् यश॒: सुर॑या भेष॒जᳪ श्रि॒या न मास॑रं॒ पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३८ ।।
उ० होता यक्षत्सुरेतसम् । होता यजतु सुरेतसं शोभनं रेतः उदकलक्षणं यस्य । 'शोभनं ह्येतस्य रेतो यदुदकम् । यद्वा सुष्ठु रेतो यस्मात्तं पुंसो रेतःकारणभूतम् । ऋषभं वर्षितारम् । नर्यापसम् नरेभ्यो हितं नर्यम् तद्यस्य । अपः कर्म । स नर्यापसः तं नर्यापसं त्वष्टारम् दैव्यो होता यजतु। किंच इन्द्रमश्विना भिषजं न सरस्वतीम् । इन्द्रम् अश्विनौ भिषजं च सरस्वतीम् दैव्यो होता यजतु । केन यजतु । ओजो न जूतिरिन्द्रियं वृको न रभसो भिषक् । नकारः समुच्चयार्थीयः । ओजश्च जूतिर्जवः इन्द्रियं च यो वृकः सरभसः सोद्यमो दक्षः भिषक् तेन यजतु । सुरायां वृकलोमानि क्षिप्यन्त इत्यत एवमुच्यते । पयः सुरया भेषजं श्रिया न मासरम् । तथा मासरमुपादाय सुरया च यजतु । यशो भेषजं श्रिया सह इन्द्रे यजमाने वा । अश्विसरस्वती. न्द्राश्च दैव्येन होत्रा इज्यमानाः पयःप्रभतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३८ ॥
म० नकाराश्चार्थाः । होता त्वष्टारं प्रयाजदेवमिन्द्रमश्विना अश्विनौ सरस्वती भिषजं च यक्षत् यजतु । कीदृशं त्वष्टारम् । सुरेतसं शोभनं रेतो वीर्यं वृष्टिलक्षणं यस्य स सुरेताः तम् । यद्वा सुष्ठु रेतो यस्मात्तम् पुंसो रेतःकारणभूतम् । ऋषभं वर्षितारम् नर्यापसं नरेभ्यो हितं नर्यमपः कर्म यस्य स नर्यापा: तम् । केन यजतु तदाह । रभसः सोद्यमो भिषग्वैद्यभूतो यो वृकः तेन । प्रथमा तृतीयार्थे । सुरायां वृकलोमानि क्षिप्यन्तेऽतो वृकेन यजतु सुरया च यजतु । भेषजं यन्मासरं तेन च यजतु । एवंच यागे ओजस्तेजः जूतिर्वेगः इन्द्रियं वीर्ये श्रिया सह यशश्चेन्द्रे भवन्त्विति शेषः । अश्व्यादयः पयआदीनि व्यन्तु । हे होतः, त्वमप्याज्यस्य यज ॥ ३८॥

एकोनचत्वारिंशी।
होता॑ यक्ष॒द्वन॒स्पति॑ᳪ शमि॒तार॑ᳪ श॒तक्र॑तुं भी॒मं न म॒न्युᳪ राजा॑नं व्या॒घ्रं नम॑सा॒ऽश्विना॒ भाम॒ᳪ सर॑स्वती भि॒षगिन्द्रा॑य दुह इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३९ ।।
उ० होता यक्षद्वनस्पतिम् होता यजतु । वनस्पतिं शमितारं शतक्रतुं बहुकर्माणम् भीमं न मन्युं राजानं व्याघ्रम् । भीमं भयानकम् मन्युं क्रोधात्मानम् । राजानमारण्यानां पशूनां व्याघ्रं च होता यजतु । नमसाश्विना हविषा । अश्विनौ च होता यजतु । भामं सरस्वती भिषगिन्द्राय दुह इन्द्रियम् । या च भामं क्रोधम् । सरस्वतीभिषक् इन्द्राय दुहे दोग्धि इन्द्रियं च तां च दैव्यो होता यजतु । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३९ ॥
म० दैव्यो होता वनस्पतिं प्रयाजदेवं व्याघ्रं विशेषेणाजिघ्रतीति व्याघ्रः । व्याघ्रमिव राजानं शतक्रतुमिन्द्रमश्विना अश्विनौ सरस्वती सरस्वतीं च नमसा अन्नेन यक्षत् यजतु । कीदृशं वनस्पतिम् । शमितारं पशूनां संस्कर्तारं यूपरूपेण । । भीमं भयंकरं मन्युं क्रोधात्मानम् । भिषक् वैद्यरूपा या सरस्वती इन्द्राय भामं क्रोधमिन्द्रियं वीर्यं च दुहे दोग्धि । ते वनस्पत्यादयः इज्यमानाः पयआदीनि पिबन्तु । हे होतर्यज ॥ ३९ ॥