पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुस्त्रिंशी।
होता॑ यक्ष॒द्दुरो॒ दिश॑: कव॒ष्यो न व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॒ इन्द्रो॒ न रोद॑सी॒ दुघे॑ दु॒हे धे॒नुः सर॑स्वत्य॒श्विनेन्द्रा॑य भेष॒जᳪ शु॒क्रं न ज्योति॑रिन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३४ ।।
उ० होता यक्षद्दुरो दिशः होता यजतु । दुरः द्वार इति प्राप्ते छान्दसं संप्रसारणम्। द्वाराणीति लिङ्गव्यत्ययेन पर्यायः। कथंभूता यज्ञगृहद्वारः । दिशः कवष्यो न व्यचस्वतीः । लुप्तोपमानमेतत् । दिश इव याः कवष्यः ससुषिराः । व्यचस्वतीः व्यञ्चनवत्यः गमनवत्यश्च याः । अश्विभ्यां न दुरो दिशः । अश्विभ्यां च वा अधिष्ठिताः यज्ञगृहद्वारो दिश इव बभूवुः । इन्द्रो न रोदसी दुघे इन्द्रश्च या अधिष्ठाय रोदसी द्यावापृथिव्यौ दुहे । हकारस्य घकारः । दुग्धवान् । याश्चाधिष्ठाय दुहे धेनुर्भूत्वा सरस्वती अश्विनौ च । कस्मै दुहे किंच दुह इत्यत आह । इन्द्राय भेषजं शुक्रं शुक्लं ज्योतिश्च इन्द्रियं च दुहे । अश्विसरस्वतीन्द्राश्च पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥३४॥
म० दैव्यो होता दुरो द्वारः प्रयाजदेवीः इन्द्रः इन्द्रं सरस्वती सरस्वतीं अश्विना अश्विनौ च यक्षत् यजतु । नकाराश्चार्थाः । द्वारशब्दस्य संप्रसारणम् । कीदृशीः द्वारः । दिशः दिश इव सावकाशाः कवष्यः ससुषिराः । अतएव व्यचस्वतीः व्यचो व्यञ्चनं गमनं विद्यते यासु ताः गमनवत्यः । दिशो दिक्तुल्या दुरो द्वारः अश्विभ्यां सहिताः सत्यो रोदसी द्यावापृथिव्यौ इन्द्राय भेषजमौषधं दुहे दुग्धे । कीदृश्यों रोदसी । दुधे 'दुहः कव्घश्च' (पा० ३ । २ । ७० ) इति हकारस्य घकारः । दुहे इत्यत्र तलोपश्च वचनव्यत्ययः । दुहते। रोदसीभ्यां सकाशादिन्द्रायौषधं दुहते इत्यर्थः । 'अकथितं च' (पा० १ । ४ । ५१) इति द्विकर्मकत्वम् । सरस्वती च धेनुर्भूत्वा इन्द्राय शुक्रं शुक्लं शुद्धं ज्योतिरिन्द्रियं वीर्यं च दुहे दुग्धे । अन्यद्व्याख्यातम् ॥ ३४ ॥

पञ्चत्रिंशी।
होता॑ यक्षत्सु॒पेश॑सो॒षे नक्तं॒ दिवा॒ऽश्विना॒ सम॑ञ्जाते॒ सर॑स्वत्या॒ त्विषि॒मिन्द्रे॒ न भे॑ष॒जᳪ श्ये॒नो न रज॑सा हृ॒दा श्रि॒या न मास॑रं॒ पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३५ ।।
उ०. होता यक्षत्सुपेशसोषे । होता यक्षत् यजतु सुपेशसा सुरूपे । उषे इति द्विवचनोपदेशाद्रात्रिश्च उषाश्च गृह्येते । नक्तंदिवा रात्रौ च अहनि च । यौ चाश्विनौ समञ्जातः संश्लेषयतः सरस्वत्या सहितौ । त्विर्षि दीप्तिम् इन्द्रे । इन्द्रभेषजं च संश्लेषयतः । तौ च होता यजतु । यश्च श्येनः रजसा । रजःशब्दो ज्योतिर्वचनः । ज्योतिषा हृदा हृदयेन । श्रिया न । नकाराः सर्वे समुच्चयार्थीया इहानुवाके प्रायशः । श्रिया च सह मासरमुपादाय इन्द्रे समनक्ति । तं च होता यजतु । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रा इज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३५॥
म० होता सुपेशसा सुरूपे उषे द्विवचनाद्रात्रिश्च नक्तोषे प्रयाजदेवौ सरस्वत्या सहितौ अश्विनौ च यक्षत् । तौ चाश्विनौ नक्तं दिवा दिने च रजसा ज्योतिषा । रजःशब्दो ज्योतिर्वचनः । हृदा चित्तेन श्रिया च सह मासरं भेषजं मासररूपमौषधं श्येनः श्येनपत्रं त्विषिं कान्तिं च इन्द्रे समञ्जाते संश्लेषयतः । नकाराश्चार्थाः । ते पयआदीनि व्यन्तु । हे होतः, त्वं यज ॥ ३५ ॥

षट्त्रिंशी।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विनेन्द्रं॒ न जागृ॑वि॒ दिवा॒ नक्तं॒ न भे॑ष॒जै: शूष॒ᳪ सर॑स्वती भि॒षक् सीसे॑न दुह इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३६ ।।
उ० होता यक्षद्दैव्या होतारा होतारौ अयं चाग्निरसौ च मध्यमः । भिषजौ अश्विनौ इन्द्रं न इन्द्रंच होता यजतु । जागृवि दिवानक्तं न भेषजैः शूषᳪ सरस्वती भिषक्सीसेन दुह इन्द्रियम् । या चैषा सरस्वती भिषक् जागृवि स्वकार्यसिद्धावप्रमत्ता जागरणशीला । विभक्तिलोपः। दिवानक्तं च भेषजैरौषधैः शूषं बलम् सीसेन च दुहे दोग्धि । इन्द्रियं च इन्द्रार्थम् । तां च दैव्यो होता यजतु । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३६॥
म०. दैव्यो होता दैव्या होतारा दैव्यौ होतारौ अयं अग्निरसौ च मध्यमः एतौ प्रयाजदेवौ भिषजौ वैद्यौ अश्विनौ इन्द्रं च यक्षत् यजतु । नौ चार्थौ । भिषग्भूता सरस्वती भेषजैः सह शूषं बलमिन्द्रियं वीर्यं च सीसेन कृत्वा दुहे दुग्धे । दुहेर्लट् - 'लोपस्त आत्मनेपदेषु' (पा० ७ । १ । ४१) । तलोपः ।
इन्द्रियार्थम् । कीदृशी सरस्वती । दिवानक्तमहोरात्रं जागृवि जागरणशीला स्वकार्यसिद्धावप्रमत्ता 'सुपां सुलुक्' (पा० ७ ।१ । ३९ )। सोर्लुक् तां च दैव्यो होता यजतु । अश्याौ दयः पयआदीनि व्यन्तु । हे होतः, त्वमपि यज ॥ ३६ ॥

सप्तत्रिंशी।
होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपसो॑ रू॒पमिन्द्रे॑ हिर॒ण्यय॑म॒श्विनेडा॒ न भार॑ती वा॒चा सर॑स्वती॒ मह॒ इन्द्रा॑य दुह इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३७ ।।