पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० होता यक्षन्नराशᳪसं न । दैव्यो होता यजतु नराशंसं न नग्नहुं पतिम् । व्यवहितपदकल्पना । नराशंसं च। पतिमधिपतिं जगतः । यज्ञो हि नराशंसः स आहुतिपरिणामद्वारेण जगद्बिभर्ति । नग्नहुम् सुरया सहितं नग्नहुं किण्वं च होता यजत्वित्यनुवर्तते । भेषजं मेषः वपा इन्द्रस्येत्युपरिष्टात्प्रैषस्य श्रूयते स इहानुषज्यते । भेषजं मेषः इन्द्रस्य करोत्विति वाक्यशेषः । सरस्वती भिषक् इन्द्रस्य भवतु । रथो न चन्द्र्यश्विनोः । रथश्च भिषगिन्द्रस्य भवतु । कथंभूतो रथः । चन्द्री । चन्द्रमिति हिरण्यनाम । तदस्यास्तीति चन्द्री सुवर्णखचितः । अश्विनोः संबन्धी । नन्वश्विनोः संबन्धिनो रथस्य कथं भिषिक्त्वम् । शृणु । 'आयुधं वाहनं वापि स्तुतौ यस्येह दृश्यते । तमेव तत्स्तुतं विन्द्यात्तस्यात्मा बहुधा हि सः' । वपा इन्द्रस्य वीर्यं कुर्वन्त्विति शेषः । वपा इति बहुवचनोपदेशस्त्रिपशुविषयः । बदरैः उपवाकाभिः तोक्मभिः भेषजमिन्द्रस्य भवत्वितिशेषः। अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि पिबन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३१ ॥
म० दैव्यो होता नराशंसं प्रयाजदेवं सरस्वती सरस्वतीं भिषक् भिषजोः अश्विनोः रथः रथंच यक्षत् यजतु । कीदृशो रथः । चन्द्री चन्द्रं सुवर्णमस्मिन्नस्तीति चन्द्री सुवर्णमयः। रथस्य यागोऽश्विनोरेव । तदुक्तम् 'आयुधं वाहनं वापि स्तुतौ यस्येह दृश्यते । तमेव तत्स्तुतं विन्द्यात्तस्यात्मा बहुधा हि सः' इति । सरस्वतीरथयोः प्रथमा द्वितीयार्थे । भिषजि । प्रथमा षष्ठ्यर्थे । तत्र सुरया सह नग्नहुं नग्नहुः किण्वः मेषः वपाः ।। बहुत्वात्त्रिपशुसंबन्धिन्यो वपाः बदरैः उपवाकाभिर्यवैः तोक्मभिश्च व्रीहिभिः सहिता इन्द्रस्य वीर्यकरं भेषजं भवतु । अश्व्यादयः पयआदीनि पिबन्तु । हे होतः, आज्यस्य यज देहि। कीदृशं नराशंसम् । पतिं पालकम् । नग्नहुः सुराकन्दः । नकारौ चार्थौ । द्वितीयो भेषजशब्द आर्षः ॥ ३१ ॥

द्वात्रिंशी।
होता॑ यक्षदि॒डेडि॒त आ॒जुह्वा॑न॒: सर॑स्वती॒मिन्द्रं॒ बले॑न व॒र्धय॑न्नृष॒भेण॒ गवे॑न्द्रि॒यम॒श्विनेन्द्रा॑य भेष॒जं यवै॑: क॒र्कन्धु॑भि॒र्मधु॑ लाजै॒र्न मास॑रं॒ पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३२ ।।
उ० होता यक्षदिडेडितः । होता यजतु । इडा प्रयाजदेवतया ईडितः स्तुतः सन् । किंकुर्वन् । आजुह्वानः सरस्वतीं सरस्वतीमाह्वयन् । अश्विनेन्द्रायेत्युपरिष्टात्प्रैषस्य पठ्यते तदेतत्पदद्वयमिह कृतविभक्तिव्यत्ययं संबध्यते । उक्तंच 'यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य तत् । अर्थतो ह्यसमानाना(?)मानन्तर्यकारण' मिति । अश्विनौ इन्द्रं च । किंच । इन्द्रं बलेन वर्धयन् । ऋषभेण गवा च इन्द्रियमिन्द्रस्य वर्धयन् । मधु मासरं च उपादायेति शेषः । यवैः कर्कन्धुभिर्लाजैश्च भेषजमिन्द्रस्य वर्धयन् । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३२ ॥
म० दैव्यो होता इडा इडां प्रयाजदेवतां सरस्वतीमिन्द्रमश्विना अश्विनौ च यक्षत् यजतु । किं कुर्वन् । ऋषभेण गवा च धेन्वा च बलेन वर्धयन् इडादीन् समर्धयन् यजतु । कीदृशो होता । ईडितः ऋत्विग्भिः स्तुतः । आजुह्वानः इडादीनाह्वयन् । तत्र यवैः लाजैश्च सहितं मधु मासरमोदनं निःस्रावं च इन्द्राय इन्द्रियं वीर्यकरं भेषजं भवति । अश्विसरस्वतीन्द्रा होत्रेज्यमानाः पयआदीनि पिबन्तु । हे होतः, त्वं च यज ॥ ३२॥

त्रयस्त्रिंशी।
होता॑ यक्षद्ब॒र्हिरूर्ण॑म्रदा भि॒षङ्नास॑त्या भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती भि॒षग्धे॒नुः सर॑स्वती भि॒षग्दु॒ह इन्द्रा॑य भेष॒जं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॑र्यज ।। ३ ३ ।।
उ० होता यक्षद्बर्हिरूर्णम्रदाः होता यजतु प्रकृता देवता । बर्हिश्च प्रयाजदेवता । ऊर्णम्रदाः ऊर्णम्रद इति प्राप्ते उर्णम्रदा इति छान्दसो लिङ्गविपर्ययः। ऊर्णेव मृदुर्भिषग्भवतु इन्द्राय । भिषग्वैद्य उक्तः । नासत्या भिषजाश्विना । नासत्या नासिकाप्रभवावश्विनौ भिषजौ भवतामिन्द्रस्य । अश्वा वडवा शिशुमती धेनुश्च भिषगिन्द्रस्य भवतु । इत्थंभूता हि सा दक्षिणा पठ्यते । कस्मात्पुनरेवमाशास्यत इत्यत आह । यतः सरस्वती भिषक् स्वयमेव दुहे दोग्धि इन्द्राय भेषजम् । अतो यूयमपि भिषजौ भवथेति । अश्विसरस्व तीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३३ ॥
म० दैव्यो होता ऊर्णम्रदाः ऊर्णमिव म्रदीयः बर्हिः प्रयाजदेवम् । भिषजा भिषजौ वैद्यौ । नासत्या न असत्यौ सत्यरूपौ अश्विना अश्विनौ । सरस्वती सरस्वतीं च यक्षत् यजतु । तत्र शिशुमती बालकोपेता अश्वा वडवा भिषक् धेनुः भिषक् च इन्द्राय भेषजमौषधं दुहे दुग्धे पूरयति । अश्वादयो दक्षिणा दीयन्ते । 'लोपस्त आत्मनेपदेषु' (पा. ७।१।४१) इति तलोपः । ते पयआदीनि व्यन्तु होतर्यज ॥ ३३ ॥