पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० हेमन्तेन ऋतुना सह देवाः मरुतः त्रिणवे । त्रिणवेनेति विभक्तिव्यत्ययः । त्रिणवेन स्तोमेन स्तुताः सन्तः। बलेन शक्वरीः सह । शक्वरीरिति योनिनिर्देशः । शाक्वरस्य । शाक्वरेणेति विभक्तिव्यत्ययः । शाक्वरेण च पृष्ठेन सह । बलेन च सह । हविः इन्द्रे वयश्च दधुः ॥ २७ ॥
म० मरुतो देवाः इन्द्रे बलेन सह । सहः इन्द्रियसामर्थ्यं हविर्वयश्च दधुः । कीदृशा मरुतः । हेमन्तेन ऋतुना त्रिणवेन स्तोमेन स्तुताः । शक्वरीरिति शाक्वरस्य योनिनिर्देशः । शाक्वरेण पृष्ठेन स्तुता इत्यर्थः ॥ २७ ॥

अष्टाविंशी।
शै॒शि॒रेण॑ ऋ॒तुना॑ दे॒वास्त्र॑यस्त्रि॒ᳪशेऽमृता॑ स्तु॒ताः ।
स॒त्येन॑ रे॒वती॑: क्ष॒त्रᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २८ ।।
उ० शैशिरेण ऋतुना । सह देवाः अमृताः । त्रयस्त्रिᳪशे । त्रयस्त्रिंशेनेति विभक्तिव्यत्ययः । त्रयस्त्रिंशेन स्तोमेन स्तुताः सन्तः। सत्येन रेवतीः। रेवतीरिति रैवतस्य योनिनिर्देशः । रैवतेन च पृष्ठेन सह सत्येन च । क्षत्रं हविश्व इन्द्रे वयश्च दधुः ॥ २८ ॥
म० अमृता देवाः सत्येन सह क्षत्रं क्षतत्राणं हविर्वयः च इन्द्रे दधुः दधतु । कीदृशा अमृताः । शारदेन ऋतुना त्रयस्त्रिंशेन स्तोमेन स्तुताः । रेवतीरिति रैवतस्य योनिः । रैवतेन च पृष्ठेन स्तुता इत्यर्थः ॥ २८ ॥

एकोनत्रिंशी ।
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒देऽश्विनेन्द्र॒ᳪ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमै॒: कुव॑लैर्भेष॒जं मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। २९ ।।
उ० होता यक्षत् । द्वादशाप्रियस्तनूनपान्नराशंसयुक्ताः । प्रैषिकमश्विसरस्वतीन्द्रदेवत्यम् । दैव्यो होता यक्षत् यजतु । समिधा प्रयाजदेवतयाग्निमवस्थितम् । इडस्पदे इडा गौरुच्यते तस्याः पदे आहवनीये स्थाप्यते तदभिप्रायमेतत् ।। गोः पदे अवस्थितमाहवनीयमग्निम् । एताश्च देवताविशेषाः यजतु । अश्विनौ इन्द्रं सरस्वतीम् । अजो धूम्रो न । नकारः प्रायः समुच्चयार्थः । अजो धूम्रो मेषश्च । गोधूमः कुवलैश्च सहितः भेषजमत्र संपद्यते । मधुशष्पैः न । मधु च संपद्यते स शष्पैरङ्कुरितव्रीहिभिः सहितः । तेजः इन्द्रियं च इन्द्रस्य यजमानस्य वा संपद्यते । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रा इज्यमानाः सन्तः पयः सोमश्च । सोममिति विभक्तिव्यत्ययः । परिस्रुता सह घृतं मधु च । व्यन्तु पिबन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज आज्यं देहि ॥ २९ ॥
म० होता यक्षत्समिधाग्निमिति प्रयाजप्रैषास्त्रिपशोः' (का० १९ । ६ । १४)। होता यक्षत्समिधाग्निमिडस्पद इत्यादयो द्वादश कण्डिकास्त्रिपशोः प्रयाजप्रैषाः स्युः । द्वादशाप्रीणां प्रयाजयाज्यानां प्रैषा अश्विसरस्वतीन्द्रदेवत्याः आद्या अष्टिः । दैव्यो होता समिधा प्रयाजदेवत्या सह अग्निमश्विना अश्विनौ इन्द्रं सरस्वती च इडः पदे गोपदे आहवनीये यक्षत् यजतु । | गोपदे स्थाप्यत इत्यभिप्रायेणेदं वचनम् । तत्र यागे अजो धूम्रो मेषश्च गोधूमैः कुवलैः बदरैः शष्पैः अङ्कुरितव्रीहिभिश्च सहितो भेषजमौषधं भवति । नकारौ चार्थौ । इन्द्रायेति शेषः । कीदृशं भेषजम् । मधु मधुरं तेजः तेजःप्रदमिन्द्रियमिन्द्रियसामर्थ्यप्रदम् । किंच ते अश्विसरस्वतीन्द्रा दैव्येन होत्रेज्यमानाः सन्तः पयः परिस्रुता मदिरया सह सोमः सोमं घृतं मधु च व्यन्तु पिबन्तु । सोम इति विभक्तिव्यत्ययः । सर्वत्र हे होतर्मनुष्यहोतः, त्वमपि आज्यस्य यज । कर्मणि षष्ठी । यजतिर्दानार्थः । अंश्व्यादिभ्य आज्यं देहीत्यर्थः ॥ २९ ॥

त्रिंशी।
होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती॒मवि॑र्मे॒षो न भे॑ष॒जं प॒था मधु॑मता॒ भर॑न्न॒श्विनेन्द्रा॑य वी॒र्यं बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भि॒: पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३० ।।
उ० होता यक्षत्तनूनपात्सरस्वतीम् । तनूनपातमिति विभक्तिव्यत्ययः । सरस्वतीं च । अश्विनेन्द्रायेत्युपरिष्टाद्व्यवहितं यत्पठ्यते तदिह कृतविभक्तिव्यत्ययं योज्यतेऽर्थसंबन्धात् । अश्विनौ इन्द्रं च । अविर्मेषो न भेषजम् । नकारः समुच्चयार्थीयो भिन्नक्रमः । अविश्व मेषश्च भेषजम् इन्द्राय यजमानाय वा करोति । पथा मधुमता भरन् । पथा यज्ञमार्गेण मधुमता रसवता आत्मानं भरन् हरन् हवींषि देवान्प्रति । | 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः। वीर्यं बदरैरुपवाकाभिर्भेषजं तोक्मभिः उपवाकाभिरिन्द्रयवैः। तोक्मभिरङ्कुरितयवैः । वीर्यं भेषजं करोति मेष एव । इन्द्राय यजमानाय वा । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रा इज्यमानाः पयःप्रभृतीनि पिबन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥३०॥
म० एकाधिका अत्यष्टिः । तनूनपादिति प्रथमा द्वितीयार्थे । इन्द्रायेति चतुर्थी द्वितीयार्थे । नकारश्चार्थः । दैव्यो होता तनूनपातं प्रयाजदेवं सरस्वतीमश्विनौ इन्द्रं च यजतु । तत्र यागे अविः अजः मेषश्च । नश्चार्थे । मधुमता रसवता पथा यज्ञमार्गेण भरन् आत्मानं हरन् सन् बदरर्बदरीफलैः । उपवाकाभिरिन्द्रयवैः तोक्मभिरङ्कुरितव्रीहिभिर्यवैर्वा सहितो वीर्यं वीर्यकरं भेषजं भवति । अश्विसरस्वतीन्द्रा दैव्येन होत्रेज्यमानाः पयआदीनि व्यन्तु । हे होतः, त्वमपि आज्यस्य यज आज्यं देहि ॥ ३०॥

एकत्रिंशी।
होता॑ यक्ष॒न्नरा॒शᳪसं॒ न न॒ग्नहुं॒ पति॒ᳪ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्र्यश्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्यं बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भि॒: पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३१ ।।