पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकविंशी
श॒मि॒ता नो॒ वन॒स्पति॑: सवि॒ता प्र॑सु॒वन् भग॑म् ।
क॒कुप्छन्द॑ इ॒हेन्द्रि॒यं व॒शा वे॒हद्वयो॑ दधुः ।। २१ ।।
उ०. शमिता नः शमयिता इति प्राप्ते 'शमिता मन्त्रे' इति छान्दसः प्रयोगः । शमिता नः अस्माकं वनस्पतिः सविता च प्रसुवन् भगं धनम् ककुप् च छन्दः । इहेत्यभिनयः । इह इन्द्रे वशा वन्ध्या गौः वेहच्च विहति त्यजति गर्भं या गौः सा तथोक्ता । इन्द्रियं वयश्च दधुः ॥ २१ ॥
म० वनस्पतिः प्रयाजदेवः सविता सूर्यः ककुप्छन्दः वशा वन्ध्या गौः वेहत् गर्भघ्नो गौः एते पञ्च इहेन्द्रं इन्द्रियं वयश्च दधुः । कीदृशो वनस्पतिः। नोऽस्माकं शमिता शमयति सुखयति शमिता । 'शमिता मन्त्रे' (पा० ६ । ४ । ५४) इति छान्दसो णिचो लोपः । कीदृशः सविता । भगं प्रसुवन् धनं प्रेरयन् ददत् ॥ २१ ॥

द्वाविंशी।
स्वाहा॑ य॒ज्ञं वरु॑णः सुक्ष॒त्रो भे॑ष॒जं क॑रत् ।
अति॑च्छन्दा इन्द्रि॒यं बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ।। २२ ।।
उ० स्वाहा यज्ञम् । स्वाहाकृतिभिः यज्ञं भेषजं करत् करोतु । कः करोतु । वरुणः सुक्षत्रः । अतिच्छन्दाश्च च्छन्दः बृहदृषभश्च गौः इन्द्रे इन्द्रियं वयश्च दधुः ॥ २२ ॥
म० शोभनं क्षत्रं क्षतत्राणं यस्य स सुक्षत्रः शोभनक्षतत्राता वरुणः खाहा । नामैकदेशे नामग्रहणम् । स्वाहाकृतिभिः प्रयाजदेवैः सह यज्ञं भेषजं यज्ञलक्षणमौषधमिन्द्राय करत् करोतु । किंच अतिच्छन्दाः छन्दः बृहत् महान् ऋषभः समर्थो गौः वरुणश्च स्वाहाकृतयोऽपि एते चत्वार इन्द्रियं वयश्च इन्द्रे दधुः दधतु ॥ २२॥

त्रयोविंशी।
व॒स॒न्तेन॑ ऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः ।
र॒थ॒न्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २३ ।।
उ० वसन्तेन ऋतुना । वपापुरोडाशपशूनां याज्यानुवाक्या अनुष्टुभः। वयोधसस्य पशोः। इन्द्रश्च वयोधा देवता । वसन्तेन ऋतुना सहायेन देवाः वसवः त्रिवृता स्तोमेन स्तुताः सन्तः रथन्तरेण च पृष्ठेन च सहायेन इन्द्रे तेजसा सह हविर्वपाख्यं वयश्च दधुः । यद्वा वसन्तेन ऋतुना स्तुताः त्रिवृता स्तोमेन च स्तुताः रथन्तरेण च पृष्ठेन स्तुताः सन्तो वसवो देवाः स्वकीयेन तेजसा इन्द्रे हविर्वयश्च दधुः। एवमुत्तरेष्वपि योज्यम् ॥ २३ ॥
म० 'याज्याः पुरोनुवाक्याश्च वपापुरोडाशपशूनां वसन्तेन ऋतुनेति' (का. १९ । ७ । २०) । चकाराद्वयोधसे पशावेव षडृचो यथाक्रमं वपादीनां याज्यानुवाक्याः वपायागे । वसन्तेनेति ( २३ ) पुरोऽनुवाक्या ग्रीष्मेणेति ( २४ ) याज्या, पशुपुरोडाशयागे वर्षाभिरिति ( २५) पुरोनुवाक्या शारदेनेति (२६) याज्या, हृदयादियागे हेमन्तेनेति (२७) पुरोनुवाक्या, शैशिरेणेति (२८) याज्येति सूत्रार्थः । अनुष्टुभः षट् लिङ्गोक्तदेवता । वयोधा इन्द्रो देवतेत्यर्थः । वसवो देवा इन्द्रे तेजसा सह हविर्वपाख्यं वयः शक्तिं च दधुः दधतु स्थापयन्तु । कीदृशा वसवः । वसन्तेन ऋतुना त्रिवृता स्तोमेन रथन्तरेण पृष्ठेन च स्तुताः ॥ २३ ॥

चतुर्विशी।
ग्री॒ष्मेण॑ ऋ॒तुना॑ दे॒वा रु॒द्राः प॑ञ्चद॒शे स्तु॒ताः ।
बृ॒ह॒ता यश॑सा॒ बल॑ᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २४ ।।
उ० ग्रीष्मेण ऋतुना सह देवा रुद्राः पञ्चदशे । पञ्चदशेनेति विभक्तिव्यत्ययः । पञ्चदशेन स्तोमेन स्तुताः सन्तः बृहता पृष्ठेन च सह । यशसा सह बलं हविः इन्द्रे वयश्च दधुः ॥ २४ ॥
म०. रुद्रा देवा इन्द्रे यशसा सह बलं हविर्वयश्च दधुः । कीदृशा रुद्राः । ग्रीष्मेण ऋतुना पञ्चदशः पञ्चदशेन स्तोमेन । विभक्तिव्यत्ययः । बृहता पृष्ठेन च स्तुताः ॥ २४ ॥

पञ्चविंशी।
व॒र्षाभि॑र्ऋ॒तुना॑ऽऽदि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः ।
वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २५ ।।
उ० वर्षाभिर्ऋतुना सह आदित्याः स्तोमे सप्तदशे स्तोमे । सप्तदशेनेति विभक्तिव्यत्ययः । स्तुताः सन्तः वैरूपेण पृष्ठेन सह विशा च ओजसा च हविरिन्द्रे वयश्च दधुः ॥ २५ ॥
म० आदित्या देवाः इन्द्रे विशा प्रजया ओजसा च सह हविर्वयश्च दधुः । कीदृशाः । वर्षाभिर्ऋतुना सप्तदशेन स्तोमेन । तृतीयार्थे सप्तम्यौ । वैरूपेण पृष्ठेन च स्तुताः ॥ २५ ॥

षड्विंशी।
शा॒र॒देन॑ ऋ॒तुना॑ दे॒वा ए॑कवि॒ᳪश ऋ॒भव॑: स्तु॒ताः ।
वै॒रा॒जेन॑ श्रि॒या श्रिय॑ᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २६ ।।
उ० शारदेन ऋतुना सह ऋभवो देवाः एकविᳪशे। एकविंशेनेति विभक्तिव्यत्ययः । एकविंशेन स्तोमेन स्तुताः सन्तः विराजेन च पृष्ठेन सह श्रिया च श्रियं च हविरिन्द्रे वयश्च दधुः ॥ २६॥
म० ऋभवः ऋभुसंज्ञा देवाः इन्द्रे श्रियं हविर्वयश्च दधुः । | कीदृशाः । शारदेन ऋतुना एकविंशेन स्तोमेन वैराजेन पृष्ठेन । श्रिया लक्ष्म्या च स्तुताः । सप्तमी तृतीयार्थे ॥ २६ ॥

सप्तविंशी।
हे॒म॒न्तेन॑ ऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑: स्तु॒ताः ।
बले॑न॒ शक्व॑री॒: सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २७ ।।