पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कर्म ययोस्तौ हे सुकर्माणौ, मध्वा मधुना रजांसि लोकानां उक्षतम् । अनित्यमागमशासनमिति नुमभावः ॥ ८ ॥

नवमी।
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।
आ मा॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ।। ९ ।।
उ० प्रबाहवा प्रसिसृतम् । अन्तर्भावितण्यर्थः । प्रसारयतम्। बाहवा बाहू। किमर्थमिति चेत् । जीवसे नः जीवनायास्माकम् । बाहुप्रसारणं जीवनहेतुप्रतिपक्षनिराकरणायेत्यर्थः।। तत आ उक्षतम् आभिमुख्येन सिञ्चतम् नः अस्माकम् गव्यूतिम् । गवि पृथिव्यामूतिमवनम् । जीवनहेतुभूतानि क्षेत्राण्यत्राभिप्रेतानि । तदर्थं हि वृष्टिः प्रार्थ्यमाना दृष्टार्था भवति।। गोजातिविषयभूतां वा ऊतिम् अवनमार्गम् । भक्षणमार्गाभिप्रायतो गोप्रवाटमिति यावत् । घृतेनाक्षारोदकेन । आ मा जने श्रवयतं युवाना । एवमक्षारोदकेन सिक्तधान्यनिष्पत्तिहेतुना यज्ञं कुर्वाणम् मा माम् जने जनपदे आ श्रवयतं प्रकथयतम् । इत्थमदादित्थमयाक्षीदिति । हे युवानौ उच्छिन्नजरसौ । श्रुतम् आशृणुतं मम । हे मित्रावरुणौ हवेमा हवान् आह्वानानि इमानि। श्रुत्वा चातिष्ठतमित्यभिप्रायः॥९॥
म०. मित्रावरुणदेवत्या त्रिष्टुप् वसिष्ठदृष्टा । हे मित्रावरुणौ, हे युवाना युवानौ तरुणौ छिन्नजरसौ, नोऽस्माकं जीवसे चिरं जीवनाय बाहवा बाहू प्रसिसृतम् । अन्तर्भूतण्यर्थः प्रसारयतम् । जीवनविघ्ननिवारणाय बाहुप्रसारणं कुरुतमित्यर्थः । किंच नोsस्माकं गव्यूतिं क्षेत्रं घृतेन जलेन आ उक्षतं सिञ्चतम् । भवत्सिक्तक्षेत्रनिष्पन्नधान्यैः यज्विनं मा मां जने जनपदे युवामश्रवयतम् आश्रावयतम् । इत्थमदात् इत्थमयाक्षीदिति लोके मां कथयतमित्यर्थः । वृद्ध्यभाव आर्षः । किंच युवां मे मम इमा इमानि हवा हवानि आह्वानानि श्रुतं शृणुतम् । श्रुत्वा पूर्वोक्तं कुरुतमित्यर्थः । शृणोतेः शपो लुक् ॥ ९ ॥

दशमी।
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृक॒ᳪ रक्षा॑ᳪसि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ।। १० ।।
उ० शं नः । व्याख्यातम् ॥ १० ॥
म० 'वाजिनस्य शं नो वाजेवाज इति' (का० १६ । ७। १७) पयस्यायां वाजिनयागोऽस्ति तत्र शं न इति पुरोनुवाक्या वाजेवाज इति याज्या । व्याख्याते (९ । १६ । १८)॥ १० ॥ ११ ॥

एकादशी।
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्व॑: पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑: ।। ११ ।।
उ०. वाजेवाजेऽवत ॥ वाजिनस्य याज्यानुवाक्ये व्याख्याते ॥ १० ॥११॥

द्वादशी।
समि॑द्धो अ॒ग्निः स॒मिधा॒ सुस॑मिद्धो॒ वरे॑ण्यः ।
गा॒य॒त्री छन्द॑ इन्द्रि॒यं त्र्यविर्गौ॒र्वयो॑ दधुः ।। १२ ।।
उ० समिद्धो अग्निः । एकादश आप्रियः । अनराशंसा ऐन्द्राय वायोधसेऽनुष्टुभः । समिद्धः संदीप्तः अग्निः समिधा प्रयाजदेवतया । सुसमिद्धः प्रयाजघृतेन । वरेण्यः वरणीयः संभजनीयः । गायत्रीछन्दः। त्र्यविश्च गौः वयः अवयः अनुचरत्वेन यस्य स तथोक्तः । इन्द्रियं वीर्यं च । वयः सत्त्वमन्नं वा आयुर्वा इन्द्रे दधुः निदध्युः ॥ १२ ॥
म० 'वायोधस आप्रियः समिद्धो अग्निः समिधेति' (का०. : १९ । ७ । १९)। वायोधसे पशौ समिद्धो अग्निरियाद्या एकादश ऋच आप्रियः प्रयाजानां याज्या इति सूत्रार्थः । एकादश आप्रीदेवत्या अनुष्टुभः स्वस्त्यात्रेयदृष्टाः । अग्निः गायत्री छन्दो गौश्च एते त्रय इन्द्रे इन्द्रियं वीर्यं वयः सत्त्वमन्नमायुर्वा दधुः दधतु प्रयच्छन्तु । कीदृशोऽग्निः । समिधा प्रयाजदेवतया समिद्धः दीप्तः सुसमिद्धश्च अतिदीप्तः प्रयाजघृतेनेति शेषः । वरेण्यः वरणीयः संभजनीयः । कीदृशो गौः । त्र्यविः त्रयोऽवयोऽनुचरत्वेन यस्य स त्र्यविः । यद्वा षण्मासावधिः कालोऽविः त्रयोऽवयो यस्य सार्धवत्सरो गौरित्यर्थः ॥ १२ ॥

त्रयोदशी । ।
तनू॒नपा॒च्छुचि॑व्रतस्तनू॒पाश्च॒ सर॑स्वती ।
उ॒ष्णिहा॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाड्गौर्वयो॑ दधुः ।। १३ ।।
उ० तनूनपात् । तनूनामपां नपान्नप्ता अग्निः । गौर्वा तनूः तस्या नप्ता घृतम् । शुचिव्रतः उज्ज्वलकर्मा । तनूपाः सरस्वती च । उष्णिहा विभक्तिव्यत्ययः । उष्णिक्छन्दः दित्यवाट् गौः एते चत्वारः इन्द्रियं वयश्च इन्द्रे दधुः ॥१३॥ ।
म० तनूनामपां नपात् पौत्रोऽग्निः तनूनां गवां नपात् घृतं वा प्रयाजदेवता सरस्वती उष्णिहा छन्दः । हलन्तत्वादाप उष्णिक् छन्दः । गौश्च एते चत्वार इन्द्रे इन्द्रियं वयश्च दधुः दधतु । कीदृशस्तनूनपात् । शुचिव्रतः शुचि शुद्धं व्रतं कर्म यस्य सः । कीदृशी सरस्वती । तनूपाः तनूं शरीरं पाति रक्षतीति । कीदृशो गौः । दित्यवाट् दिव्यं हविर्वहतीति ॥ १३ ॥

चतुर्दशी।
इडा॑भिर॒ग्निरीड्य॒: सोमो॑ दे॒वो अम॑र्त्यः ।
अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यं पञ्चा॑विर्गौ॒र्वयो॑ दधुः ।। १४ ।।
उ० इडाभिरग्निः । इडाभिः प्रयाजदेवतया सह अग्निः