पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० महीमूषु आदित्यचरोर्याज्यानुवाक्ये त्रिष्टुभौ । महीं महतीम् । ऊसु निपातोपसर्गौ छन्दःपरिपूर्तिफलौ । मातरं निर्मात्रीं साधुव्रतानाम् । ऋतय यज्ञस्य पत्नीं जायां पालयित्रीं वा । अवसे अवनाय तर्पणाय वा । हुवेम आह्वयाम । तुविक्षत्रां बहुक्षरणां वा बहुक्षतत्राणां वा । अजरन्तीं जरारहिताम् । उरूचीं बहुव्यञ्जनाम् । सुशर्माणं कल्याणाश्रयां साधुसख्याम् । अदितिमदीनाम् । सुप्रणीतिं सुप्रणेत्रीम् ॥ ५॥
म० 'आदित्यस्य सुत्रामाणं महीमूषु मातरमिति' ( का० १९ । ७।१५)। आदित्यं चरुं यक्ष्यमाणो निर्वपत्यादित्यमीजान इत्यादावन्ते चादित्यश्चरुरुक्तस्तस्य सुत्रामाणमिति (६) पुरोऽनुवाक्या महीमूष्विति याज्या अदितिदेवत्या त्रिष्टुप् । ऊ सु निपातौ पादपूरणौ । संहितायामाद्यस्य दीर्घोऽन्त्यस्य षत्वम् । वयमवसे अवितुं रक्षितुमदितिं हुवेम आह्वयामः । तुमर्थे असेप्रत्ययः । कीदृशीमदितिम् । महीं महतीम् सुव्रतानां शोभनकर्मणां मातरं निर्मात्रीम् । व्रतमिति कर्मनाम । ऋतस्य यज्ञस्य पत्नीं पालयित्रीम् । तुविक्षत्राम् । तुवीति बहुनाम । बहुक्षतात् त्राणशीलाम् । अजरन्तीं न जीर्यत्यजरन्ती तां जरारहिताम् । उरु अञ्चतीति उरूचीं बहुगमनशीलाम् । सुशर्माणं शोभनं शर्माश्रयः सुखं वा यस्यास्ताम् । सुप्रणीतिं शोभना प्रणीतिः प्रणयनं भजनं यस्यास्ताम् । 'अदितिरदीना देवमाता' ( निरु० ४ । २२ ) इति ॥ ५॥

षष्ठी।
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑ᳪ सु॒शर्मा॑ण॒मदि॑तिᳪ सु॒प्रणी॑तिम् ।
दैवीं॒ नाव॑ᳪ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ।। ६ ।।
उ० सुत्रामाणं साधुपालयित्रीम् । पृथिवीम् पृथिवीमिव । लुप्तोपमानमेतत् । द्यामनेहसम् द्यामिव वाहयित्रीं जीवनहेतुभूताम् सुशर्माणं साधुशरणां शोभनाश्रयां वा । आदितिमदीनाम् । सुप्रणीतिं सुप्रणेत्रीम् । दैवीं यज्ञमयीं नावम् । स्वरित्रां साधुकेन्दुवालां, अरित्रशब्दः केन्दुवालवचनः। अनागसमनपराधाम् । अस्रवन्तीम् अपूर्यमाणामुदकेन । अनवच्छिन्नसाधुकर्मदायिनीमित्यर्थः । आरुहेम । स्वस्तये अविनाशाय ॥ ६॥
म० अदितिदेवत्या त्रिष्टुप् गयःप्लातदृष्टा । दैवीं देवसंबन्धिनीं नावं यज्ञरूपां स्वस्तये कल्याणायाविनाशाय वयमारुहेम । यज्ञं कृत्वा स्वर्गं गच्छेमेत्यर्थः । कीदृशीं नावम् । सुत्रामाणं सुष्ठु त्रायते रक्षति सुत्रामा ताम् । पृथिवीं विशालाम् । द्यां स्वर्गरूपाम् । स्वर्गहेतुभूतामित्यर्थः । अनेहसम् । एह इति क्रोधनाम । नास्ति एहो यत्र क्रोधरहिताम् । यद्वा लुप्तोपमानम् । पृथिवीमिव सुत्रामाणं पालयित्रीं द्यामिवानेहसमक्रोधाम् । सुशर्माणं साधुशरणभूताम् । अदितिमखण्डितामदीनां वा । सुप्रणीतिं सुष्ठु प्रणयतीति सुप्रणीतिः साधुप्रणेत्री। स्वरित्रां साधुकेन्दुवालाम् । अरित्रशब्दः केन्दुवालवाचकः । 'अरित्रं केनिपातकः' इत्यभिधानात् । प्रयाजानुयाजादयोऽरित्र स्थानीयाः । अनागसमनपराधाम् । अस्रवन्तीमच्छिद्राम् । निर्दोषामित्यर्थः । ईदृशीं नावमारुहेम । संहितायां दीर्घः ॥ ६॥

सप्तमी।
सु॒नाव॒मा रु॑हेय॒मस्र॑वन्ती॒मना॑गसम् ।
श॒तारि॑त्राᳪ स्व॒स्तये॑ ।। ७ ।।
उ० सुनावम् । गायत्री । 'तद्वै सर्व एव यज्ञो नौः । स्वर्ग्या' इति श्रुतेरुपकल्पना । कल्याणीं नावम् आरुहेयम् । अस्रवन्तीम् अच्छिद्राम् । निर्दोषामित्यर्थः । अनागसमपापाम् । अभीष्टितार्थसाधनतत्परामित्यर्थः । शतारित्रां बहुकेन्दुवालाम् । ऋग्यजुःसामाभिप्रायम् । स्वस्तये अविनाशाय । संसारसागरोत्तरणाय वा ॥ ७॥
म० स्वर्गसंबन्धिनी यज्ञदेवत्या गायत्री । 'तद्वै सर्व एव | यज्ञो नौः स्वर्ग्या' इति श्रुतेः स्वर्ग्या नौर्यज्ञ एव । सुनावं शोभनां नावं यज्ञरूपां स्वस्तयेऽविनाशाय संसारसागरोत्तरणायाहमारुहेयमारोहेयम् । यज्ञं कुर्यामित्यर्थः । कीदृशीम् । अस्रवन्तीमच्छिद्राम् । अनागसं निरपराधां सर्वेष्टदामित्यर्थः । शतारित्रां बहुकेन्दुबालाम् । ऋग्यजुःसामभिरित्यर्थः । स्मार्ते नावारोहणे विनियोगोऽस्या ऋचः ॥ ७ ॥

अष्टमी।
आ नो॑ मित्रावरुणा घृतै॒र्गव्यू॑तिमुक्षतम् ।
मध्वा॒ रजा॑ᳪसि सुक्रतू ।। ८ ।।
उ०. आ नः । मैत्रावरुण्याः पयस्यायाज्यानुवाक्ये गायत्रीत्रिष्टुभौ आ उक्षन्तम् आसिञ्चतम् नः अस्माकम् हे मित्रावरुणौ । घृतैः अक्षारोदकैः । गव्यूतिम् गवि पृथिव्यामवनहेतुभूतं क्षेत्रं गोप्रचारं वा । किंच मध्वा रजांसि मधुस्वादोदकेन रजांसि । लोका रजांस्युच्यन्ते । तान् आ उक्षतम् । हे सुक्रतू सुकर्माणौ ॥ ८ ॥ ।
म० 'आ नः प्र वाहवेति पयस्यायाः' (का० १९ । ७।| १६ ) । अवभृथादुदेत्य मैत्रावरुण्या पयस्यया यजतीति या पयस्या तस्या आ नो मित्रावरुणेति पुरोनुवाक्या प्र बाहवेति याज्या मित्रावरुणदेवत्या गायत्री विश्वामित्रदृष्टा । हे मित्रावरुणा मित्रवरुणौ देवौ, नोऽस्माकं गव्यूतिं यज्ञमार्गं घृतैर्युवामा उक्षतं सर्वतः सिञ्चतम् । यद्वा गवि पृथिव्यामूतिमवनहेतुभूतं क्षेत्रं घृतैः शुद्धोदकैः सिञ्चतम् । किंच हे सुक्रतू शोभनः क्रतुः
-