पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकविंशोऽध्यायः।
तत्र प्रथमा।
इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय ।
त्वाम॑स्व॒स्युराच॑के ।। १ ।।
उ० इमं मे इत्यनेनानुवाकेनैष्टिकं हौत्रम् । प्रथमे वारुण्यौ गायत्री त्रिष्टुभौ वारुणस्य हविषो याज्यानुवाक्ये । हे वरुण, त्वं मे मम इमं हवमाह्वानं श्रुधि शृणु च । अपरम् अद्य मृडय सुखय कालविलम्बनं मा कृथाः । यतः अहम् अवस्युः आत्मनोऽवनं पालनमिच्छन् त्वाम् आचके । आचक इति कान्तिकर्मा । कामये ॥ १ ॥
प्रणम्य शिरसा देवं लक्ष्मीकान्तमुमापतिम् ।
एकविंशेऽधुनाध्याये वेददीपो वितन्यते ।
म०. 'इमं मे तत्त्वेत्येककपालस्य' (का० १९ । ७ । १३)। अवभृथेष्टौ वारुणस्यैककपालस्य पुरोडाशस्य द्वे पुरोऽनुवाक्यायाज्ये इत्यर्थः । वरुणदेवत्ये गायत्रीत्रिष्टुभौ शुनःशेपदृष्टे । हे वरुण, त्वं मे मम इमं हवमाह्वानं श्रुधि शृणु । 'शुशृणु-' (पा. ६।४।१०२) इति हेर्धिः। संहितायां दीर्घः। च पुनः अद्यदिने मृडयास्मान् सुखय । यतोऽहं त्वामाचके कामये । आचक इति कान्तिकर्मा । कीदृशोऽहम् । अवस्युः अवनमवः पालनम् । अवतेरसुन् तदिच्छति अवस्युः 'सुप आत्मनः क्यच्' (पा० ३ । १। ८) 'क्याच्छन्दसि' (पा० ३ । २ । १७०) इत्युप्रत्ययः । आत्मनो रक्षणमिच्छन् त्वामिच्छामीत्यर्थः ॥ १॥

द्वितीया।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪस॒ मा न॒ आयु॒: प्र मो॑षीः ।। २ ।।
उ० तत्त्वा यामि ॥ २॥
म० व्याख्याता ( अ० १९ । क० ४९)॥२॥

तृतीया।
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडो अव॑यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषा॑ᳪसि॒ प्र मु॑मुग्ध्य॒स्मत् ।। ३ ।।
उ० त्वं नः। आग्निवारुण्यौ त्रिष्टुभौ अग्निवरुणयोः स्विष्टकृतोर्याज्यानुवाक्ये । हे अग्ने, त्वं नोऽस्मान्प्रति वरुणस्य देवस्य हेडः क्रोधम् । अवयासिसीष्ठा: 'यसु उपक्षये अस्यावपूर्वस्य ण्यन्तस्य लिङि रूपम् । अवगमय । यजिष्ठः यष्टृतमः । वह्नितमः वोढृतमो हविषाम् । शोशुचानः देदीप्यमानः । किंच अस्मत् अस्मत्तः विश्वा विश्वानि सर्वाणि द्वेषांसि दौर्भाग्यानि प्रमुमुग्धि मुञ्च ॥ ३ ॥
म० 'अग्निवरुणयोस्त्वं नः स त्वं न इति' ( का० १८ । ७। १४ ) । अवभृथेष्टावेवाग्निवरुणयागे पुरोनुवाक्यायाज्ये अग्निवरुणदेवत्ये त्रिष्टुभौ वामदेवदृष्टे । हे अग्ने, त्वं नोऽस्मान्प्रति वरुणस्य देवस्य हेडः क्रोधमवयासिसीष्ठाः निवर्तय । 'यसु उपक्षये' अवपूर्वस्य णिजन्तस्याशीर्लिङि रूपम् । किंच विश्वा विश्वानि सर्वाणि द्वेषांसि दौर्भाग्यानि अस्मत् अस्मत्तः सकाशात् प्रमुमुग्धि प्रमुञ्च दूरीकुरु । मुचेर्व्यत्ययेन शपः श्लुः । कीदृशस्त्वम् । विद्वान् स्वाधिकारं जानन् यजिष्ठः अतिशयेन यष्टा यजिष्ठः । 'तुरिष्ठेमेयःसु' (पा० ६ । ४ । १५४) इति तृचो लोपः । वह्नितमः वहतीति वह्निः अत्यन्तं वह्निर्वह्नितमः हविषां वोढा । शोशुचानः अत्यन्तं शोचते दीप्यते शोशुचानः । शोचतेर्यङन्ताच्छानच्प्रत्ययः॥ ३ ॥

चतुर्थी।
स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॒ष्टौ ।
अव॑ यक्ष्व नो॒ वरु॑ण॒ᳪ ररा॑णो वी॒हि मृ॑डी॒कᳪ सु॒हवो॑ न एधि ।। ४ ।।
उ० स त्वं नः हे अग्ने, स त्वम् ऊती ऊत्या अवनेन । नः अस्माकम् । अवमः अवितृतमः पालयितृतमः भव । अस्या उषसः व्युष्टौ व्युष्टिकाले अस्मिन्नेवाहनीति भावः । नेदिष्ठः अन्तिकतमश्च भव । रराणः रममाणः 'रा दाने' । हविर्ददद्वा । नोऽस्माकं वरुणम् अवयक्ष्व अवगत्य यज । अवपूर्वो यजतिर्नाशनार्थः । इहतु धात्वन्तरयोगात्स्वार्थमेव वक्ति । ततः सुमृडीकं सुखकरं हविः वीहि भक्षय । नः अस्माकं सुहवः स्वाह्वानः एधि ॥ ४॥
म० हे अग्ने, स त्वमस्या उषसो व्युष्टौ व्युष्टिकालेऽस्मिन्नहनि ऊती ऊत्या अवनेन नोऽस्माकमवमः रक्षकः नेदिष्ठोऽन्तिकतमः समीपतमश्च भव । अवतीत्यवमः अवतेरमप्रत्ययः । यद्वा अवतीत्यवः पचाद्यच् अत्यन्तमवोऽवतमः तलोपश्छान्दसः । अत्यन्तमन्तिको नेदिष्ठः 'अन्तिकबाढयोर्नेदसाधौ' (पा० ५। ३ । ६३) इति इष्ठे परे नेदादेशः । किंच रराणो हविर्ददत् सन् नोऽस्माकं वरुणमवयक्ष्व अवयज । अवपूर्वाद्यजतेर्लोटि शपो लुक् । ततो मृडीकं सुखकरं हविः वीहि भक्षय । 'वी कान्तिव्याप्तिक्षेपप्रजनस्वादनेषु' । किंच नोऽस्माकं सुहवः स्वाह्वान एधि भव । 'ध्वसोरेद्धावभ्यासलोपश्च' (पा० ६ । ४ । ११९) इत्येकारः ॥ ४ ॥

पञ्चमी ।
म॒हीमू॒ षु मा॒तर॑ᳪ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम ।
तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीᳪ सु॒शर्मा॑ण॒मदि॑तिᳪ सु॒प्रणी॑तिम् ।। ५ ।।