पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वाः सर्वाः सर्वप्राणिष्ववस्थिताः । विराजति । राजतिर्दीप्त्यर्थः अन्तर्भावितण्यर्थश्च द्रष्टव्यः । विविधं दीपयति प्रकाशयति । तां वयं स्तुम इति शेषः ॥ ८६ ॥
म० सरस्वती केतुना कर्मणा प्रज्ञया वा महो महत् अर्णः उदकं प्रचेतयति प्रज्ञापयति प्रेरयति । सर्वस्यां भूमौ वृष्टिं कारयतीत्यर्थः । किंच विश्वाः सर्वाः धियः सर्वप्राणिस्था बुद्धीः विराजति विराजयति दीपयति सर्वजन्तुबुद्धीः प्रकाशयति तां स्तुमः ॥८६॥

सप्ताशीतितमी।
इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑: ।
अण्वी॑भि॒स्तना॑ पू॒तास॑: ।। ८७ ।।
उ० इन्द्रायाहि । हे इन्द्र, आयाहि आगच्छ । हे चित्रभानो चित्रदीप्ते । किं कारणम् । सुता अभिषुताः इमे सोमाः त्वायवः त्वां कामयमानाः 'सुपआत्मनः क्यच्' 'क्याच्छन्दसि' इति दीर्घः । त्वायव इति सिद्धम् । नचाभिषुता एव केवलम् । किंतर्हि । अण्वीभिस्तना पूतासः । अण्व्य इत्यङ्गुलिनाम । अङ्गुलीभिः तना च धनदानेन च पूताः पवित्रीकृताः । यद्वा तनाशब्देन दशापवित्रमभिधाय अङ्गुलीभिर्दशापवित्रेण च पूता इत्यर्थः ॥ ८७ ॥
म० मधुच्छन्दोदृष्टा इन्द्रदेवत्यास्तिस्रो गायत्र्यः। चित्रा नानाविधा भानवो दीप्तयो यस्य स चित्रभानुः । हे चित्रभानो इन्द्र, त्वमायाहि आगच्छ । किमिति । इमे सोमाः सुताः अभिषुताः । कीदृशा इमे । त्वायवः त्वां कामयन्ते त्वायवः 'सुपः आत्मनः क्यच्' (पा० ३ । १।८) 'क्याच्छन्दसि' (पा० ३।२।१७०) इत्युप्रत्ययः । तथा अण्वीभिः अण्वीत्यङ्गुलिनाम । अङ्गुलीभिः तना दशापवित्रेण च पूतासः पूताः शोधिताः । तनाशब्दो दशापवित्रवाची । तृतीयैकवचनस्य पूर्वसवर्णः । शोधिताः सुताः सोमा इन्द्रोऽस्मान् पिबत्विति कामयन्ते अतोऽत्रायाहीत्यर्थः ॥ ८७ ॥

अष्टाशीतितमी।
इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः ।
उप॒ ब्रह्मा॑णि वा॒घत॑: ।। ८८ ।।
उ० इन्द्रायाहि । हे इन्द्र, आयाहि आगच्छ धिया स्वकीयया बुध्या ईषितः प्रेषितः । अनन्यप्रेषित इत्यभिप्रायः । विप्रजूतः जूतिर्ग्रन्थिः प्रीतिर्वा । मेधाव्यनुगतः सुतावतः अभिषुतवतो यजमानस्य यज्ञम् । किमित्यागन्तव्यमिति चेत् । उप समीपे ब्रह्माणि हवींषि वर्तन्ते । उपपुरोडाशानृत्विजो वर्तन्त इत्यर्थः। वाघत इति ऋत्विङ्नामसुपठितम् ८८
म० हे इन्द्र, धिया स्वबुद्ध्या इषितः प्रेरितः सन्नायाहि । अनन्यप्रेरित आगच्छेत्यर्थः । कीदृशस्त्वम्। विप्रजूतः 'जु गतौ' । विप्रैर्मेधाविभिरनुगतः सेवितः । किमित्यागन्तव्यमिति चेत् सुतावतः । छान्दसो दीर्घः । सुतवतः सोममभिषुतवतो यजमानस्य ब्रह्माणि हवींषि उप हविषां समीपे वाघतः ऋत्विजो वर्तन्त इति शेषः । वाघत इति ऋत्विङ्नामसु पठितम् । ऋत्विजो हविरादाय स्थिता वर्तन्त इत्यायाहीत्यर्थः ॥ ८८ ॥

एकोननवतितमी।
इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः ।
सु॒ते द॑धिष्व न॒श्चन॑: ।। ८९ ।।
उ० इन्द्रायाहि । हे इन्द्र, आगच्छ तूतुजानः । तूतुजान इति क्षिप्रनाम । क्षिप्रं त्वरमाणः। कुत्रागच्छ इति। उपब्रह्माणि हवींषि हे हरिवः । हरी अश्वौ तद्वन् इन्द्र । 'मतुवसोरु संबुद्धौ' इति रुत्वम् । एत्य च सुते अभिषुते सोमे दधिष्व उदरेण धारयस्व । नः अस्माकं स्वभूतं चनः अन्नलक्षणम् ८९
म० हरी अश्वौ विद्यते यस्य स हरिवान् 'मतुवसो रु संबुद्धौ छन्दसि' (पा० ८।३ । १) इति रुत्वम् । हे हरिवः, अश्ववन् हे इन्द्र, तूतुजानः त्वरमाणः सन् त्वं ब्रह्माणि हवींषि उप हवींषि प्रति आयाहि । तूतुजान इति क्षिप्रनाम । आगत्य सुते सोमेऽभिषुते सति नोऽस्माकं चनः अन्नं सोमरूपं हविः दधिष्व उदरे धारय । 'धि धारणे' व्यत्ययेन शपो लुकि द्वित्वं जुहोत्यादित्वादभ्यासस्यात्वं छान्दसम् । चन इत्यन्ननाम ८९

नवतितमी ।
अ॒श्विना॑ पिबतां॒ मधु॒ सर॑स्वत्या स॒जोष॑सा ।
इन्द्र॑: सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ᳪ सो॒म्यं मधु॑ ।। ९० ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां विंशोऽध्यायः ॥ २० ॥
उ० अश्विना पिबतां अश्विनौ पिबेतां मधु मधुरस्वादोपलक्षितम् । सोमं पिबतां । सरस्वत्या च सजोषसा समानसोमपानौ इन्द्रश्च सुत्रामा वृत्रहा पिबतु मधु। ततो भूयोभूयोऽश्विसरस्वतीन्द्राः जुषन्तां पिबन्तां सोम्यं मधु सोममयं मधु ९०
इति उवटकृतौ मन्त्रभाष्ये विंशतितमोऽध्यायः ॥ २० ॥
आनन्दपुरवास्तव्यजैय्यटाख्यस्य सूनना।
उवटेन कृतं भाष्यं पदवाक्यैः सुनिश्चितैः ॥१॥
म० अश्विसरस्वतीन्द्रदेवत्यानुष्टुप् । अश्विना अश्विनौ मधु मधुरस्वादं सोमं पिबतां भक्षयताम् । कीदृशौ अश्विनौ । सरस्वत्या सजोषसा सजोषसौ । जोषः प्रीतिः असुन् । समानं जोषः प्रीतिर्ययोस्तौ । सरस्वत्या सह प्रीतिमन्तावित्यर्थः । किंच सुष्ठु त्रायते रक्षति सुत्रामा वृत्रं हतवान् वृत्रहा ईदृश इन्द्रः अश्विनौ सरस्वती च मधु मधुरं सोम्यं सोममयं हविर्जुषन्तां सेवन्ताम् । 'मये च' (पा० ४ । ४ । १३८) इति सोमशब्दान्मयडर्थे यप्रत्ययः । सोममयं सोम्यम् ॥ ९० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
सेकासन्द्यादिहोत्रान्तो विंशोऽध्यायो निरूपितः ॥२०॥