पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० गृत्समददृष्टा अश्विदेवत्यास्तिस्रो गायत्र्यः । आद्या पादनिचृद्गायत्री 'त्रयः सप्तकाः पादनिचृत्' इति वचनात् । उ सु निपातौ पादपूरणौ । 'इकः सुञि' (पा० ६ । ३ । १३४) इति वाते परे उ इत्यस्य संहितायां दीर्घः 'सुञ्' (पा० ८ । ३ । १०७) इति सूत्रेण सु इत्यस्य षत्वम् 'पूर्वपदात्' (पा० ८।३ । १०६) इति नासत्यशब्दनकारस्य णत्वम् । हे नासत्या नासत्यौ, हे अश्विनौ, हे रुद्रा रुद्रौ, शत्रूणां रोदयितारौ, वर्तिः विभक्तिव्यत्ययः । वर्त्या मार्गेण युवां नृपाय्यं यज्ञं प्रति यातं गच्छतम् । नृभिः पीयते सोमो यस्मिन् स नृपाय्यः 'क्रतौ कुण्डपाय्यसंचाय्यौ' (पा० ३ । १ । १३०) इत्यत्र कुण्डशब्द उपलक्षकः। नृशब्देऽपि तृतीयान्ते उपपदे पिबतेर्धातोरधिकरणे यत्प्रत्ययो युगागमश्च निपात्यते । किं कृत्वा । गोमत् गावो विद्यन्ते यस्मिन् गोमत् । अश्वावत् अश्वा विद्यन्ते यस्य तदश्ववत् । 'मन्त्रे सोमाश्व-' (पा० ६।३ । १३१) इत्यादिना अश्वशब्दस्य दीर्घः । गोयुक्तमश्वयुक्तं च धनमादाय यज्ञं गच्छतमित्यर्थः ॥ ८१॥

द्व्यशीतितमी।
न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू ।
दु॒:शᳪसो॒ मर्त्यो॑ रि॒पुः ।। ८२ ।।
उ० न यत्परः । यमेनं न परः अन्तरेण असंबद्धः नच अन्तरः संबद्धः आदधर्षत् आधृष्णुयात् अभिभूय गृह्णीयात् । हे वृषण्वसू । वर्षणं वृष्टिर्वसु धनं ययोस्तौ तथोक्तौ । यद्वा वृष्टिद्वारेणावासयितारौ । दुःशंसः दुष्टमसद्वृत्तं शंसति यः स तथोक्तः । मर्त्यो मनुष्यः । रिपुः शत्रुः ॥ ८२॥
म० हे वृषण्वसू, वृषा वृष्टिरेव वसु धनं ययोस्तौ । यद्वा वृष्ट्या वासयतो लोकं स्थापयतस्तौ वृषण्वसू हे अश्विनौ, दुःशंसो दुष्टमपवादं शंसति कथयति दुःशंसोऽपवदिता रिपुः शत्रुः मर्त्यः मनुष्यः परः असंबद्धः अन्तरः संबद्धः स्वकीयोऽपि ईदृशो मर्त्यो यत् यमिन्द्रं न आदधर्षीत् न आधृष्णुयात् न पराभूयात् । स्वजनोऽस्वजनोऽपि रिपुः पिशुनोऽपि यमिन्द्रं पराभवितुं न शक्त इत्यर्थः । 'ञिधृषा प्रागल्भ्ये' अस्माद्धातोर्यङ्लुगन्ताच्छतृप्रत्ययः॥ ८२ ॥

त्र्यशीतितमी।
ता न॒ आ वो॑ढमश्विना र॒यिं पि॒शङ्ग॑संदृशम् ।
धिष्ण्या॑ वरिवो॒विद॑म् ।। ८३ ।।
उ० ता नः । यौ युवामुक्तगुणौ तौ नः अस्माकम् । आवोढम् आवहतम् हे अश्विनौ, रयिं धनम् पिशङ्गसंदृशं अनेकरूपसंदर्शनम् । हे धिष्ण्या धिष्ण्याग्निरूपौ दातारौ वा। वरिवोविदं वरिवो धनं विन्दति वरिवोविदः । वरिवो धननाम । यल्लब्धं सदन्यस्य धनलाभस्य हेतुभूतं भवति ॥८३॥
म० हे धिष्ण्या धिष्ण्यौ धिष्ण्याग्निरूपौ धातारौ वा हे अश्विनौ, युवां नोऽस्माकं रयिं धनमावोढमावहतम् । आनयतमित्यर्थः । वहतेर्लुङि परस्मैपदे मध्यमद्विवचनम् । कीदृशं रयिम् । पिशङ्गसंदृशं पिशङ्गं पीतं सम्यक् दृश्यते तत् पिशङ्गसंदृशम् पीतवर्णं सुवर्णमित्यर्थः । तथा वरिवोविदं वरिवो धनं विन्दति प्राप्नोति वरिवोविदस्तम् ‘विद्लृ लाभे' 'इगुपध-' (पा० ३ । १ । १३२ ) इति कः । यच्च धनं धनान्तरहेतुभूतं भवतीत्यर्थः ॥ ८३॥

चतुरशीतितमी।
पा॒व॒का न॒: सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
य॒ज्ञं व॑ष्टु धि॒याव॑सुः ।। ८४ ।।
उ० पावका नः । पावयित्री सरस्वती वाजेभिः अन्नैः वाजिनीवती अन्नवती । सा नः अस्माकम् यज्ञं वष्टु कामयताम् । यो हि यदिच्छति स तत्प्रति गच्छति । धियावसुः धिया वसु धनं यस्याः सा धियावसुः ॥ ८४ ॥
म० मधुच्छन्दोदृष्टाः सरस्वतीदेवत्यास्तिस्रो गायत्र्यः । सरस्वती नोऽस्माकं यज्ञं वष्टु कामयताम् । 'वश कान्तौ' यो यदिच्छति स तत् प्रति गच्छति । अस्मद्यज्ञं प्रत्यागच्छत्वित्यर्थः। कीदृशी सरस्वती । पावका पावयित्री पवनं पावः शोधनं घञ् । पावं कायति कथयति पावका 'आतोऽनुपसर्गे कः' (पा. ३।२।३ ) वाजेभिर्वाजैः अन्नैः । वाजिनीवती वाजा अन्नानि विद्यन्ते यस्यां सा वाजिनी यज्ञक्रिया । वाजिनी विद्यते यस्याः सा वाजिनीवती यज्ञक्रियाधिष्ठात्री । धियावसुः धिया कर्मणा | वसु धनं यस्याः सा धियावसुः । छान्दसस्तृतीयाया अलुक् ॥८४॥

पञ्चाशीतितमी ।
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् ।
य॒ज्ञं द॑धे॒ सर॑स्वती ।। ८५ ।।
उ० चोदयित्री सूनृतानाम् । चोदयित्री प्रेरयित्री। सूनृतानां शोभनानामृतां वचसाम् । त्रयीलक्षणस्य वाग्विभवस्य चोदयित्रीत्यर्थः । चेतन्ती चेतयमाना सुमतीनां शोभनमतीनाम् । यज्ञं दधे धारयति सरस्वती ॥८५॥
म० सरस्वती यज्ञं दधे धारयती । कीदृशी । सूनृतानां प्रियं सत्यं सूनृतम् । प्रियसत्यवचनानां वेदत्रयीशब्दानां चोदयित्री प्रेरयित्री 'चुद प्रेरणे' णिजन्तात्तृच् ततो ङीप् । सुमतीनां शोभनानां बुद्धीनां चेतन्ती चेतयन्ती प्रकटयन्ती । सुमतिदात्रीत्यर्थः । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इति शपोऽप्यार्धधातुकत्वाण्णिचो लोपः ॥ ८५ ॥

षडशीतितमी ।
म॒हो अर्ण॒: सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।
धियो॒ विश्वा॒ वि रा॑जति ।। ८६ ।।
उ० महो अर्णः । या महत् अर्णः महान्तमुदकमित्यर्थः। । सरस्वती प्रचेतयति प्रज्ञापयति । केन हेतुना । केतुना कर्मणा प्रज्ञया वा । मध्यस्थाना नदी वा । धियो बुद्धीः