पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पुत्रमित्र पितरौ । व्याख्यातम् ॥ ७७ ॥
म० इयं व्याख्याता दशमेऽध्याये । (अ० १० । क० : ३४) ॥ ७७ ॥

अष्टसप्ततितमी।
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ।। ७८ ।।
उ० पशुस्विष्टकृतौ । यस्मिन्नश्वासः अहाव्यग्ने इति । जगतीत्रिष्टुभावाग्नेय्यौ । यस्मिन्नग्नौ अश्वासः ऋषभासः उक्षणः वशाः मेषाः अवसृष्टासः अवदायावदाय चतुरवत्तेन निक्षिप्ताः।
आदायादाय हुताः । तस्मै अग्नये । कीलालपे कीलालमन्नरसं पिबतीति कीलालपाः । सोमपृष्ठाय सोमाहुतयो यस्य पृष्ठे हूयन्ते । वेधसे मेधाविने । हृदा मतिं जनये । हृदयं मतिपूर्वकं जनय । चारुम् अग्नये ॥ ७८॥
म० 'पशुस्विष्टकृतो यस्मिन्नश्वासोऽहाव्यग्न इति' ( का० १९ । ६ । २१)। पशोः संबन्धिनि स्विष्टकृद्यागे यस्मिन्नश्वास इति पुरोनुवाक्या अहाव्यग्न इति याज्या द्वे अग्निदेवत्ये. जगतीत्रिष्टुभौ । हे अध्वर्यो, तस्मै अग्नये हृदा सह मतिं वुद्धिं चारुं समीचीनां जनय । अग्न्यर्थं मनोवुद्धी शुद्धे कुरु इत्यर्थः । कीदृशायाग्नये । कीलालपे कीलालमन्नरसं पिबतीति कीलालपास्तस्मै । सोमपृष्ठाय सोमः पृष्ठे यस्य तस्मै । यस्य पृष्ठे सोमाहुतयो हूयन्त इत्यर्थः । वेधसे विदधाति शुभं करोति वेधाः तस्मै शुभमतिकर्त्रे । तस्मै कस्मै । यस्मिन्नग्नौ एते पशवः अवसृष्टाः अवदायावदाय चतुरवत्तेन निक्षिप्ताः । तथा आहुताः आदायादाय हुताः । के पशवः । अश्वासः अश्वाः ऋषभासः ऋषभाः उक्षणः उक्षाणः सेचनसमर्था वृषाः । 'वा षपूर्वस्य निगमे' (पा० ६ । ४ । ९) इति उपधादीर्घाभावः । वशाः वन्ध्याः । मेषाः अजाः । यस्मिन्नेते पशवो हुतास्तस्मै मनःशुद्धिं कुर्विति होतुर्वाक्यम् ॥ ७८ ॥

एकोनाशीतितमी।
अहा॑व्यग्ने ह॒विरा॒स्ये॒ ते स्रु॒ची॒व घृ॒तं च॒म्वी॒व॒ सोम॑: ।
वा॒ज॒सनि॑ᳪ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ।। ७९ ।।
उ० अहाव्यग्ने । यस्य ते तव आस्ये मुखे हे अग्ने, अहावि हुतं मया हविः । कथमिव । स्रुचीव घृतम् । यथा स्रुचि नित्यावस्थितं घृतम् । चम्वीव सोमः चम्वामिव ।। यथाच अधिषवणचर्मणि नित्यावस्थितः सोमः । एवम् । तं त्वां ब्रवीमि । वाजसनिम् वाजमन्नं संसेवते वाजसनिं रयिं धनम् । अस्मै अस्मासु । सुवीरं शोभनवीरं प्रशस्तं । धेहि स्थापय । यशसं च । 'यशो वै सोमो राजा' । बृहन्तं महान्तम् ॥ ७९ ॥
म० हे अग्ने, ते तवास्ये हविरहावि हुतम् सर्वतः । जुहोतेः कर्मणि लुङ् । सन्ततहोमे दृष्टान्तः । स्रुचि घृतमिव । | यथा स्रुचि घृतं सर्वदा स्थितम् चम्वि चम्वामधिषवणचर्मणि सोम इव । तत्र यथा सोमः सर्वदा स्थितस्तद्वन्नित्यं मया तवास्ये हविर्हुतम् । हे अग्ने, सः त्वमस्मे अस्मासु एतानि वस्तूनि धेहि स्थापय । कानि । वाजसनिं वाजस्य अन्नस्य सनिं भोगम्। रयिं धनम्। कीदृशम्। सुवीरं शोभना वीराः पुत्रा यत्र तं सुपुत्रयुक्तं धनमित्यर्थः । प्रशस्तं सर्वलोकस्तुतं बृहन्तं महान्तं यशसं यशश्च । पुंस्त्वमार्षम् । सर्वलोकप्रसिद्धं यशो देहीत्यर्थः । 'यशो वै सोमो राजा' इति श्रुतेः । यशसं सोममिति वा ॥ ७९ ॥

अशीतितमी।
अ॒श्विना॒ तेज॑सा॒ चक्षु॑: प्रा॒णेन॒ सर॑स्वती वी॒र्य॒म् ।
वा॒चेन्द्रो॒ बले॒नेन्द्रा॑य दधुरिन्द्रि॒यम् ।। ८० ।।
उ० शतम् । अश्विना तेजसा । एकादशं च शस्त्रम् । आद्यानुष्टुप् अश्विसरस्वतीन्द्रदेवत्या च । द्वितीयाद्यास्त्रयस्त्यृचो गायत्र्योऽश्विसरस्वतीन्द्रदेवत्या यथासंख्यम् । अश्विना । अश्विनौ तेजसा सह । चक्षुः प्राणेन घ्राणेन सह वीर्यम् । सरस्वती वाचा सह बलेन च सह । एवमेता देवताः प्रतिनियतचक्षुरादिद्वारेण इन्द्राय दधुः ददुः इन्द्रियम् ॥ ८०॥
म० 'प्रतिगरिष्यत्युपविष्टेऽध्वर्यो शोᳪसावेत्याहूयाश्विना तेजसेत्यनुवाकᳪ शᳪसति' (का० १९ । ७।१।। त्रयस्त्रिंशवसाग्रहसादनानन्तरमध्वर्योः होतुः पुरस्तात् प्रतिगरार्थमुपवेशनमुक्तम् तदाह प्रतिगरिष्यत्यध्वर्यो पुर उपविष्टे सत्यध्वर्यो शोᳪसावो ३ मित्याहूयाश्विना तेजसा चक्षुरित्येकादशर्चमनुवाकं शस्त्रं शंसति । प्रथमान्त्ये ऋचौ त्रिः शंसनीये मध्यस्थानां त्रयाणां तृचानामादिष्वाहावः कार्य इति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यानुष्टुप् । आद्यः पादोऽष्टार्णः द्वितीयो निवार्णः तृतीयः षडर्णः चतुर्थोऽष्टार्णः । अश्विनौ तेजसा सह चक्षुरिन्द्रियमिन्द्राय दधुः दधतुः । सरस्वती प्राणेन सह वीर्यमिन्द्राय दधौ ददौ । इन्द्रः कल्पान्तरीणः वाचं बलेन च सह इन्द्रायैतत्कल्पोत्थाय इन्द्रियं सामर्थ्यं ददौ । एवमश्विसरस्वतीन्द्रा इन्द्राय तेजआदि दधुरित्यर्थः । सर्वापेक्षया दधुरिति बहुवचनम् ॥८०॥

एकाशीतितमी। |
गोम॑दू॒ षु णा॑सत्या॒श्वा॑वद्यातमश्विना ।
व॒र्ती रु॑द्रा नृ॒पाय्य॑म् ।। ८१ ।।
उ० गोमदूषु । हे नासत्यौ, गोमद्धनं संगृह्य । उ सु पादपूरणौ । अश्ववच्च धनं संगृह्य यातम् हे अश्विनौ, वर्तिः वर्तिन्या प्रसिद्धेन मार्गेण । हे रुद्रा रुद्रौ, शत्रूणां रोदयितारौ । नृपाय्यं प्रति सदेवा नरः यस्मिन्यज्ञे पिबन्ति स नृपाय्यः ॥ ८१॥