पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सामर्थ्यमिन्द्रियं वीर्यं भगेन भाग्येन सह श्रियं लक्ष्मीं यशसा सह बलं च दधानाः यजमाने स्थापयन्तः । तत्र वरुणः क्षत्रमिन्द्रियं च दधाति सविता भगं प्रियं सुत्रामा यशो बलं चेति विभागः ॥७२॥

त्रिसप्ततितमी।
अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं बल॑म् ।
ह॒विषेन्द्र॒ᳪ सर॑स्वती॒ यज॑मानमवर्धयन् ।। ७३ ।।
उ० अश्विना गोभिः । तिस्रोऽनुष्टुभः । हविषां याज्यानुवाक्या अश्विसरस्वतीन्द्रदेवत्याः । अश्विनौ सरस्वती च गोभिः गोप्रभृतिभिः पशुभिः इन्द्रियम् । इन्द्रियेणेति विभक्तिव्यत्ययो वाक्यसंबन्धात् । अश्वेभिः अश्वदक्षिणाभिः । वीर्यं बलम् वीर्येण बलेन । हविषा पुरोडाशेन । इन्द्रं यजमानं च अवर्धयन् ॥ ७३ ॥
म० 'अश्विना गोभिरिति च हविषाम्' ( का० १९ । ६ । १९)। अश्विना गोभिरिति तिस्रो हविषां याज्यानुवाक्याः चात् पूर्ववत् अश्विना ( ७३ ) ता नासत्या ( ७४ ) इत्याश्विनपशुयागे पुरोऽनुवाक्यायाज्ये, ता नासत्या (७४) ता भिषजा (७५) इति सारस्वते, ता भिषजा (७५) अश्विना ( ७३ ) इत्यैन्द्रे इति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यास्तिस्रोऽनुष्टुभः । अश्विनौ सरस्वती च एतैः पदार्थैः इन्द्रं यजमानं चावर्धयन् । कैस्तत्राह । गोभिर्गोप्रभृतिपशुभिः इन्द्रियम् । विभक्तिव्यत्ययः। इन्द्रियेण इन्द्रियपाटवेन अश्वेभिः अश्वैः दक्षिणारूपैः वीर्यं बलं वीर्येण मनःसामर्थ्येन बलेन शरीरदार्ढ्येन हविषा पशुपुरोडाशेन च । इन्द्रस्य वर्धनं तृप्तिः यजमानस्य वर्धनं धनपुत्रपश्वादिपुष्टिः ॥ ७३ ॥

चतुःसप्ततितमी।
ता नास॑त्या सु॒पेश॑सा॒ हिर॑ण्यवर्तनी॒ नरा॑ ।
सर॑स्वती ह॒विष्म॒तीन्द्र॒ कर्म॑सु नोऽवत ।। ७४ ।।
उ० ता नासत्या तौ नासत्यौ न असत्यौ सत्यावेव । सुपेशसा सुरूपौ । हिरण्यवर्तनी हिरण्यदानोपलक्षितपन्थानौ । नरा नृगुणयुक्तौ नराकारौ वा । सरस्वती च हविष्मती हविषा संयुक्ता । एते त्रयः पादाः परोक्षकृताः । चतुर्थस्तु पादः प्रत्यक्षकृतः । अतो वाक्यभेदः । तौ नासत्यावुक्तगुणौ सरस्वती च कर्मसु वर्तमानान् नोऽस्मान् अवत अवन्विषकति पुरुषव्यत्ययः । ततो द्वितीयं वाक्यम् । इन्द्र कर्मसु नोऽवत । हे इन्द्र, त्वमपि कर्मसु वर्तमानान् नः अस्मान् अवत । अवेति वचनव्यत्ययः ॥ ७४ ॥
म० ता तौ नासत्या नासत्यौ अश्विनौ सरस्वती च कर्मसु सौत्रामण्यादियागेषु नोऽस्मानवत अवन्तु रक्षन्तु । पुरुषव्यत्ययः । हे इन्द्र, त्वमपि नोऽस्मान् कर्मसु अव । वचनव्यत्ययः । कीदृशौ नासत्यौ । हिरण्यवर्तनी हिरण्येनोपलक्षिता वर्तनिर्मार्गो ययोस्तौ । यत्र पथि गच्छतस्तत्र सुवर्णमेव संपद्यत इत्यर्थः । सुपेशसा शोभनं पेशो रूपं ययोस्तौ सुन्दरौ । | नरा नरौ नरगुणयुक्तौ नराकारौ च । कीदृशी सरस्वती । हविष्मती हविर्विद्यते यस्याः सा ॥ ७४ ॥

पञ्चसप्ततितमी।
ता भि॒षजा॑ सु॒कर्म॑णा॒ सा सु॒दुघा॒ सर॑स्वती ।
स वृ॑त्र॒हा श॒तक्र॑तु॒रिन्द्रा॑य दधुरिन्द्रि॒यम् ।। ७५ ।।
उ० तौ भिषजौ । सुकर्मणा कल्याणकर्माणौ । सा सुदुघा सुदोहना सरस्वती च । स च वृत्रहा शतक्रतुः बहुकर्मा इन्द्राय दधुः ददुः इन्द्रियं वीर्यम् । ननु स वृत्रहा शतक्रतुरिन्द्राय दधुरिन्द्रियमिति इन्द्र इन्द्राय ददातीत्येतन्नोपपद्यते । कल्पान्तरीण इन्द्र एतत्कल्पप्रभवाय ददातीत्यदोषः। विभवो वा देवा अचिन्त्यशक्तयः एकधा द्विधा बहुधा भवेयुः । एवमेवान्यत्र विरोधाः परिहर्तव्याः ॥ ७५॥
म० ता तौ प्रसिद्धौ भिषजा भिषजौ वैद्यौ अश्विनौ सा प्रसिद्धा सरस्वती च स प्रसिद्धो वृत्रहा इन्द्रः कल्पान्तरप्रभवः इन्द्राय एतत्कल्पप्रभवाय इन्द्रियं वीर्यं दधुः । यद्वा इन्द्र एव दातृपात्ररूपेण बहुधा भवति देवानामचिन्त्यशक्तित्वात् । कीदृशौ भिषजौ । सुकर्मणा सुकर्माणौ शोभनं कर्म ययोस्तौ । कीदृशी सरस्वती । सुदुघा सुष्ठु दुग्धे सा सुदुघा साधुदोहना। कीदृशो वृत्रहा । शतक्रतुः शतं क्रतवः कर्माणि यस्य । बहुकर्मकर्ता ॥ ७५॥

षट्सप्ततितमी।
यु॒वᳪ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ ।
वि॒पि॒पा॒नाः सर॑स्व॒तीन्द्रं॒ कर्म॑स्वावत ।। ७६ ।।
उ० ग्रहाणां याज्यानुवाक्यौ । युवं सुरामम् । पुत्रमिव पितरौ । अनुष्टुप्त्रिष्टुभावश्विसरस्वतीन्द्रदेवत्ये । युवं यूयमिति विभक्तिव्यत्ययः । सरस्वती हि तृतीया । युवं यूयम् हे अश्विसरस्वत्यः । सुरामं सुरामयम् । नमुचौ आसुरे वर्तमानम् । सचा सह विपिपानाः विविधं पिबन्तः कर्मसु वर्तमानाः इन्द्रम् आ अवत पालयत ॥ ७६ ॥
म० 'ग्रहाणां युवᳪ सुरामं पुत्रमिवेति' ( का० १९ । ६ । २० )। त्रयाणां पयोग्रहाणां सुराग्रहाणां च युवमिति पुरोनुवाक्या पुत्रमिवेति याज्येति सूत्रार्थः । द्वे अश्विसरस्वतीन्द्रदेवत्येऽनुष्टुप्त्रिष्टुभौ । हे अश्विनौ, हे सरस्वति, युवं यूयं वचनव्यत्ययः । नमुचावासुरे दैत्ये वर्तमानं सुरामं सुरामयं ग्रहं सचा सह विपिपाना विविध पिबन्तः सन्तः कर्मस्विन्द्रमावत आसमन्ताद्रक्षत । पिपाना अत्र विकरणव्यत्ययः ॥ ७६ ॥

सप्तसप्ततितमी।
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒: काव्यै॑र्द॒ᳪसना॑भिः ।
यत्सु॒रामं॒ व्यपि॑ब॒: शची॑भि॒: सर॑स्वती त्वा मघवन्नभिष्णक् ।। ७७ ।।