पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयामनूच्य प्रथमा याज्या । अश्विनेत्याद्यास्तिस्रस्तिसृणां वपानां क्रमाद्याज्यापुरोनुवाक्याः । तत्प्रकारमाह । आश्विनवपायागे अश्विना (६७) इति अनुवाक्या यमश्विना (६८) इति याज्या, सारस्वतवपायागे यमश्विना (६८) इति अनुवाक्या तमिन्द्रम् ( ६९) इति याज्या, ऐन्द्रवपायागे तमिन्द्रम् (६९) इति अनुवाक्या अश्विना (६७) इति याज्येति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यास्तिस्रोऽनुष्टुभः । अश्विना अश्विनौ सरखती च धिया बुद्ध्या कृत्वा नमुचेर्नमुचिसंज्ञात् आसुरात् दैत्यात् इन्द्रायेन्द्रार्थमेतानि वस्तूनि आजभ्रिरे आजह्रिरे । कानीत्यत आह । हविः शुक्रं शुद्धममलिनं हविः इन्द्रियं वीर्यं मघं महनीयं वसु धनं च ॥ ६७ ॥

अष्टषष्टी।
यम॒श्विना॒ सर॑स्वती ह॒विषेन्द्र॒मव॑र्धयन् ।
स बि॑भेद ब॒लं म॒घं नमु॑चावासु॒रे सचा॑ ।। ६८ ।।
उ० यमश्विना । यमिन्द्रमश्विनौ सरस्वती च हविषा वर्धयन् । स बिभेद । 'भिदिर् विदारणे' विदारितवान् । बलं मघम् । वृणोतिर्बले । मघं महनीयम् । नमुचौ आसुरे सचा । सचा सहशब्दवचनः तद्योगाच्च विभक्तिव्यत्ययः । नमुचिना असुरेण सह बलं बिभेदेति ॥ ६८ ॥
म० अश्विनौ सरस्वती च हविषा कृत्वा यमिन्द्रमवर्धयन् । स इन्द्रो नमुचावासुरे सचा नमुचिना असुरेण सह मघं महनीयं बलं मघं बिभेद विदारितवान् । सचेत्यव्ययं सहार्थे । तद्योगे नमुचावासुरे इति तृतीयार्थे सप्तमी । 'वृणोतेर्बले' (निरु० ६ । २) इति यास्कः । नमुचिं विदार्य वृष्टिं कारितवानित्यर्थः ॥ ६८॥

एकोनसप्ततितमी।
तमिन्द्रं॑ प॒शव॒: सचा॒श्विनो॒भा सर॑स्वती ।
दधा॑ना अ॒भ्य॒नूषत ह॒विषा॑ य॒ज्ञ इ॑न्द्रि॒यैः ।। ६९ ।।
उ० तमिन्द्रं तमुक्तगुणमिन्द्रं पशवः कर्माङ्गभूताः गोमेषाजाः सचा सहभूताः । अश्विनौ उभौ सरस्वती च दधानाः धारयन्तः । अभ्यनूषत । नूषतिर्वृद्ध्यर्थः । अभिवर्धयन्ति । केन हविषा । कस्मिन् यज्ञे । इन्द्रियैर्वीर्यैः ॥ ६९ ॥
म० पशवः कर्माङ्गभूता गोमेषाजाः उभा अश्विना उभौ अश्विनौ सरस्वती च सचा सहभूताः सन्तः यज्ञे हविषा इन्द्रियैः वीर्यैश्च दधानाः पुष्णन्तः सन्तः तमिन्द्रमभ्यनूषत अवर्धयन् अस्तुवन् वा ‘णू स्तवने' ॥ ६९ ॥

सप्ततितमी।
य इन्द्र॑ इन्द्रि॒यं द॒धुः स॑वि॒ता वरु॑णो॒ भग॑: ।
स सु॒त्रामा॑ ह॒विष्प॑ति॒र्यज॑मानाय सश्चत ।। ७० ।।
उ० य इन्द्र । तिस्रोऽनुष्टुभः पशुपुरोडाशानां याज्यानुवाक्या इन्द्रसवितृवरुणदेवत्याः । सर्वाः ये इन्द्रे इन्द्रियं दधुः स्थापितवन्तः । सविता वरुणो भगः । भगशब्देनात्रेन्द्रो लक्ष्यते । ते यजमानेऽपि वीर्यं दधतीति वाक्यपरिपूर्तिः । स सुत्रामा यश्च सुत्रामा इन्द्रः हविष्पतिः हविषः स्वामी । यजमानमिति विभक्तिव्यत्ययः । सश्चत सचतामिति पुरुषवचनव्यत्ययः । एवमेते विषमा मन्त्रा लक्षणया व्याख्येयाः ॥ ७० ॥
म० 'य इन्द्र इति पुरोडाशानां पूर्ववत्' (का० १९ । ६।१८) य इन्द्र इति तिस्रस्त्रयाणां पशुपुरोडाशानां याज्यानुवाक्याः पूर्ववत्' य इन्द्रे (७०) सविता (७१) इत्यैन्द्रस्यानुवाक्यायाज्ये, सविता (७१) वरुणः क्षत्रम् (७२) इति सावित्रस्य ते । वरुणः क्षत्रम् (७२) य इन्द्रे (७०) इति वारुणस्येति सूत्रार्थः । प्रत्येकमिन्द्रसवितृवरुणदेवत्यास्तिस्रोऽनुष्टुभः । सविता वरुणो भग इति ये त्रयो देवाः इन्द्रे इन्द्रियं वीर्यं दधुः स्थापयामासुः । हविष्पतिः हविषां स्वामी सुत्रामा | शोभनत्राणकर इन्द्रो यजमानाय । कर्मणि चतुर्थी । यजमानं सश्चत सेवताम् । इष्टदानेन यजमानं सुखयत्वित्यर्थः । षच | सेवने' लोडर्थे लङ् । अडभाव आर्षः ॥ ७० ॥

एकसप्ततितमी।
स॒वि॒ता वरु॑णो दध॒द्यज॑मानाय दा॒शुषे॑ ।
आद॑त्त॒ नमु॑चे॒र्वसु॑ सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ।। ७१ ।।
उ० सविता वरुणः द्वितीयोऽर्धर्चः प्रथमं व्याख्येयः । आदत्त जग्राह नमुचेः सकाशात् वसु धनं बलं चेन्द्रियं च । सुत्रामा इन्द्रः । तत् सवितृवरुणप्रभृतयः पशुपुरोडाशदेवताः दधत् दधातु । यजमानाय दाशुषे हवींषि दत्तवते ॥ ७१ ॥
म० सुत्रामा इन्द्रो नमुचेरसुरात्सकाशात् यद्वसु धनं बलमिन्द्रियं वीर्यं च आदत्त जग्राह । सविता वरुणो भगश्च पशुपुरोडाशमन्त्रदेवास्तत् नमुचेरानीतं वस्वादिकं यजमानाय दधत् दधातु । ददत्वित्यर्थः । कीदृशाय यजमानाय । दाशुषे दाशति ददातीति दाश्वान् तस्मै हवींषि दत्तवते 'दाश्वान्साह्वान्-' (पा. ६ । १ । १२) इत्यादिना क्वसन्तो निपातः ॥ ७१ ॥

द्विसप्ततितमी।
वरु॑णः क्ष॒त्रमि॑न्द्रि॒यं भगे॑न सवि॒ता श्रिय॑म् ।
सु॒त्रामा॒ यश॑सा॒ बलं॒ दधा॑ना य॒ज्ञमा॑शत ।। ७२ ।।
उ० वरुणः क्षत्रम् । वरुणः सविता च सुत्रामा च दधाना इन्द्रे यजमाने वा यज्ञं सौत्रामणीम् । आसत व्याप्तवन्तः । किंकि दधानाः । वरुणः क्षत्रमिन्द्रियं च । सविता भगेन धनेन सहितां श्रियम् । सुत्रामा यशसा बलम् ॥७२॥
म० वरुणः सविता सुत्रामा इन्द्रश्च यज्ञं सौत्रामणीमाशत भक्षितवन्तः व्याप्तवन्तो वा । 'अश भोजने' 'अशूङ् व्याप्तौ' वा । उभयोर्विकरणव्यत्ययः । कीदृशास्ते । क्षत्रं क्षतात् त्राण