पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विषष्टी।
पा॒तं नो॑ अश्विना॒ दिवा॑ पा॒हि नक्त॑ᳪ सरस्वति ।
दैव्या॑ होतारा भिषजा पा॒तमिन्द्र॒ᳪ सचा॑ सु॒ते ।। ६२ ।।
उ० पातं नः पालयतं नोऽस्मान् हे अश्विनौ दिवा अहनि । पाहि पालय च नक्तं हे सरस्वति । युवां च हे देव्यौ, होतारौ भिषजौ, पातं पालयतम् । इन्द्रम् सचा सहेत्यर्थः । सुते सोमे ॥ ६२ ॥
म०. हे अश्विना अश्विनौ, दिवा दिवसे नोऽस्मान् युवां पातं रक्षतम् । हे सरस्वति, नक्तं रात्रौ त्वं नः पाहि रक्ष । हे दैव्या होतारा देवसंबन्धिनौ होतारौ, भिषजा भिषजौ अश्विनौ सुते सोमेऽभिषुते सति सचा सह एकीभूय युवमिन्द्रं पातं रक्षतम् । सर्वत्र विभक्तेराकारः ॥ ६२॥

त्रिषष्टी।
ति॒स्रस्त्रे॒धा सर॑स्वत्य॒श्विना॒ भार॒तीडा॑ । ती॒व्रं प॑रि॒स्रुता॒ सोम॒मिन्द्रा॑य सुषुवु॒र्मद॑म् ।। ६३ ।।
उ० तिस्रस्त्रेधा । तिस्रो देव्यः सरस्वती च मध्यस्थाना । भारती आदित्यप्रभा द्युस्थाना । इडा पृथिवीस्थाना । एतास्त्रिषु स्थानेषु स्थिताः । अश्विनौ च । तीव्रं पटुतमं परिस्रुता सहितं सोमम् । इन्द्राय सुषुवुः अभिषुतवन्तः । मदं तर्पणम् ॥ ६३॥
म० तिस्रो देव्यः अश्विना अश्विनौ च परिस्रुता सुरया सह सोममिन्द्राय सुषुवुरभिषुतवन्तः । काः तिस्रः । सरस्वती भारती इडा च । कीदृश्यः । त्रेधा स्थिता इति शेषः । सरस्वती मध्यस्थाना भारती द्युस्थाना इडा पृथिवीस्थाना । कीदृशं सोमम् । तीव्रं पटुत्वकरम् । मदं मदजनकम् ॥ ६३ ॥

चतुःषष्टी।
अ॒श्विना॑ भेष॒जं मधु॑ भेष॒जं न॒: सर॑स्वती ।
इन्द्रे॒ त्वष्टा॒ यश॒: श्रिय॑ᳪ रू॒पᳪ-रू॑पमधुः सु॒ते ।। ६४ ।।
उ०. अश्विना भेषजं मधु । अधुः एतदाख्यातं तस्यादधुरिति परिणामः । के अदधुः । अश्विनौ सरस्वती त्वष्टा च प्रयाजदेवताः । किमदधुः । अश्विनौ तावद्भेषजं मधुरूपं भेषजम् । नः अस्मत्संबन्धिनी सरस्वती । त्वष्टा च यशः श्रियं रूपं च । कस्मिन्नदधुः । इन्द्रे । कस्मिन्नवसरे। सुतेऽभिषुते सोमे ॥ ६४ ॥
म० अश्विना नोऽस्माकं सरस्वती त्वष्टा प्रयाजदेवता च सुते सोमेऽभिषुते सति इन्द्रे एतानि वस्तूनि अधुः स्थापयामासुः । दधातेर्लुङ् । कानीत्यत आह । भेषजमौषधं मधु मधुरूपं भेषजं च यशः कीर्तिं श्रियं लक्ष्मीं रूपं रूपं नानाविधं रूपं च । 'नित्यवीप्सयोः' (पा. ८।१।४) इति रूपशब्दस्य द्वित्वम् ॥ ६४ ॥

पञ्चषष्टी।
ऋ॒तु॒थेन्द्रो॒ वन॒स्पति॑: शशमा॒नः प॑रि॒स्रुता॑ ।
की॒लाल॑म॒श्विभ्यां॒ मधु॑ दु॒हे धे॒नुः सर॑स्वती ।। ६५ ।।
उ० ऋतुथेन्द्रः । ऋतावृतौ कालेकाले इन्द्रायेति विभक्तिव्यत्ययः । वनस्पतिः शशमानः संशममानः स्तुवन् परिस्रुता साधनभूतया । कीलालमन्नरसम् दुहे इत्यनुषङ्गः । अश्विभ्यां च सहिता । दुहे दोग्धि धेनुर्भूत्वा सरस्वती ॥ ६५॥
म० वनस्पतिः प्रयाजदेवः शशमानः स्तुवन् सन् ऋतुथा ऋतौ ऋतौ काले काले परिस्रुता सुरया सह कीलालमन्नरसमिन्द्रः इन्द्राय इन्द्रार्थं दुहे दुग्धे । 'सुपां सुलुक्' (पा० | ७।१।३९) इत्यादिना चतुर्थ्येकवचनस्य सुआदेशे इन्द्र इति 'लोपस्त आत्मनेपदेषु' (पा० ७ । । । ४१) इति तलोपे दुहे इति रूपम् । किंच सरस्वती अश्विभ्यां सहिता धेनुर्भूत्वा इन्द्राय मधु दुहे दुग्धे ॥ ६५ ॥

षट्षष्टी।
गोभि॒र्न सोम॑मश्विना॒ मास॑रेण परि॒स्रुता॑ ।
सम॑धात॒ᳪ सर॑स्वत्या॒ स्वाहेन्द्रे॑ सु॒तं मधु॑ ।। ६६ ।।
उ० गोभिर्न । गोप्रभृतिश्च पशुभिः सोमं सहितं मासरेण परिस्रुता च । कथंभूतं । सुतं मधु अभिषुतं मधुस्वादं च । हे अश्विनौ, युवां समधातम् । कस्मिन्समधातम् । इन्द्रे । किं केवलावेवाश्विनौ समधातं नेत्याह । सरस्वत्या सह । स्वाहा स्वाहाकृतिभिः प्रयाजेन सार्धम् ॥ ६६ ॥
म० हे अश्विना अश्विनौ, मासरेण परिस्रुता सह गोभिर्न गोप्रभृतिपशुभिश्च सह । नश्चार्थे । सुतमभिषुतं सोमं मधु च इन्द्रे युवां समधातमारोपयतम् । संपूर्वाद्दधातेर्लुङि मध्यमद्विवचनम्। हे स्वाहाकृतयः प्रयाजदेवाः, यूयं सरस्वत्या सह इन्द्रे सुतं मधु समधातेति वचनव्यत्ययः ॥ ६६ ॥

सप्तषष्टी।
अ॒श्विना॑ ह॒विरि॑न्द्रि॒यं नमु॑चेर्धि॒या सर॑स्वती ।
आ शु॒क्रमा॑सु॒राद्वसु॑ म॒घमिन्द्रा॑य जभ्रिरे ।। ६७ ।।
उ०. अश्विना हविः । तिस्रो वपानां याज्यानुवाक्या अनुष्टुभः । एकैकाश्विसरस्वतीन्द्रदेवत्या । आजभ्रिरे इत्याख्यातपदे सर्वाणि पदानि संबध्यन्ते । अश्विनौ सरस्वती च आजभ्रिरे । हविरिन्द्रियं वीर्यं शुक्रममलिनम् । वसु धनं मघं महनीयम् । कुत आजभ्रिरे । नमुचेः आसुरात् । कया हेतुभूतया आजभ्रिरे । धिया बुद्ध्या । कस्मै आजभ्रिरे । इन्द्राय ।। ६७ ॥
म० अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः प्रथमामनूच्य द्वितीया याज्या द्वितीयामनूच्य तृतीया याज्या