पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्शब्दः । इन्द्रियं वीर्यम् इन्द्राप्यायनार्थम् पथिभिर्मार्गैर्वहान्वहन्तु ॥ ५६ ॥
म० उभा अश्विना उभौ अश्विनौ सरस्वती मध्वा मधुना रजांसि लोकान् दुहन्ति पूरयन्ति । पूर्वर्चो दुहे इतस्य वचनव्यत्ययेनेहानुषङ्गः । 'लोका रजांस्युच्यन्ते' (निरु० ४ । १९) इति यास्कोक्तेः रजःशब्दोऽत्र लोकवाची । कीदृशावश्विनौ । तनूपा तनूः शरीराणि पातस्तौ तनूपौ शरीराणां रक्षितारौ। भिषजा भिषजौ वैद्यौ । क्व सति । सुते सोमेऽभिषुते सति पूरयन्तीत्यर्थः । किंच अश्विसरस्वत्य इन्द्राय इन्द्रियं वीर्यं पथिभिर्यज्ञमार्गैः वहान् वहन्ति । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इतीकारलोपे वहानिति रूपम् ॥ ५६ ॥

सप्तपश्चाशी।
इन्द्रा॒येन्दु॒ᳪ सर॑स्वती॒ नरा॒शᳪसे॑न न॒ग्नहु॑म् ।
अधा॑ताम॒श्विना॒ मधु॑ भेष॒जं भि॒षजा॑ सु॒ते ।। ५७ ।।
उ० इन्द्रायेन्दुम् । इन्द्रार्थमिन्दुं सोमं सरस्वती अभिषुणोदिति वाक्यपरिपूर्तिः । नराशंसेन यज्ञेन सहिता नग्नहुम् । किंच अधातां सुरायाम् अश्विनौ मधु रसरूपं भेषजरूपं च । भिषजौ वैद्यौ सुते सोमेन्द्रायेत्यनुषङ्गो विभक्तिव्यत्ययेन ॥ ५७ ॥
म० सरस्वती नराशंसेन यज्ञेन सह इन्द्राय इन्द्रार्थमिन्दुं सोमं नग्नहुं सुराकन्दं च पूर्वोक्तमधात् धृतवती । किंच भिषजा अश्विना भिषजौ अश्विनौ सुते सोमेऽभिषुते सति मधु मधुरं भेषजमौषधमधातां धारितवन्तौ । अधातामित्येव क्रिया वचनव्यत्ययेन पूर्वार्धे योज्या ॥ ५७ ॥

अष्टपश्चाशी।
आ॒जुह्वा॑ना॒ सर॑स्व॒तीन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य॒म् ।
इडा॑भिर॒श्विना॒विष॒ᳪ समूर्ज॒ᳪ सᳪ र॒यिं द॑धुः ।। ५८ ।।
उ० आजुह्वाना आह्वयन्ती सरस्वती इन्द्रायेन्द्रियाणि चक्षुःप्रभृतीनि वीर्यं च वीरकर्म । इडाभिर्यज्ञियाभिर्हेतुभूताभिः । अश्विनौ च सहायभूतावुपादाय संदधुः । इषं चान्नं च संदधुः । ऊर्जं तदुपसेचनं च दध्यादि संदधुः संदधुश्च रयिं धनम् ॥ ५८॥
म०. आहूयते आजुह्वाना अर्थादिन्द्रमाह्वयन्ती सरस्वती अश्विना चेन्द्राय इन्द्रियाणि चक्षुरादीनि संदधुः । वीर्यं सामर्थ्यं च दधुः । इडाभिः पशुभिः सह इषमन्नं संदधुः । 'पशवो वा इडा' (१।८।१ । १२) इति श्रुतिः । ऊर्जं दध्यादि रयिं धनं च संदधुः । एतानि ददुरित्यर्थः ॥ ५८॥

एकोनषष्टी।
अ॒श्विना॒ नमु॑चेः सु॒तᳪ सोम॑ᳪ शु॒क्रं प॑रि॒स्रुता॑ ।
सर॑स्वती॒ तमाऽभ॑रद्ब॒र्हिषेन्द्रा॑य॒ पात॑वे ।। ५९ ।।
उ० अश्विना नमुचेः । यमश्विनौ नमुचेराहृत्य सुतमभिषुतं सोमं शुक्रम् अमलिनम् परिसुता सहितं स्थापितवन्तौ । सरस्वती तमेवाहरत् बर्हिषास्तरणार्थेन सहिता । इन्द्राय पातवे इन्द्रपानार्थम् ॥ ५९॥
म० अश्विना अश्विनौ परिस्रुता सुरया सह सुतमभिषुतं शुक्रं शुद्धममलिनं सोमं नमुचेः असुरात्सकाशात् आहरताम् । सरस्वती च तमेव सोमं बर्हिषास्तरणार्थेन सह आभरत् आहरत् । किमर्थम् । इन्द्राय पातवे इन्द्रस्य पानार्थम् । तुमर्थे तवेप्रत्ययः ॥ ५९॥

षष्टी।
क॒व॒ष्यो न॒ व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॑: ।
इन्द्रो॒ न रोद॑सी उ॒भे दु॒हे का॒मान्त्सर॑स्वती ।। ६० ।।
उ०. कवष्यो न यज्ञगृहद्वार उच्यते । कवष्यो न 'कुष निष्कर्षे' । समुच्चयार्थीयो नकारः । अस्यामृचि ससुषिराश्च व्यञ्जनवत्यश्च अश्विभ्यां न अश्विभ्यां चाध्वर्युभ्यां सहिताः दुरः द्वारदिशः । द्वार्भिर्दिशो लक्ष्यन्त्य इत्यत एवमुक्तम् । इन्द्रो न इन्द्रश्च यासु द्वास्सु व्यवस्थितः । रोदसी द्यावापृथिव्यौ उभे अपि दुहे दोग्धि । कामांश्च सरस्वती दुहे । इन्द्रायायाताय यज्ञगृहद्वार इन्द्रं कुर्वन्निति शेषः ॥ ६० ॥
म० अस्यामृचि त्रयो नकाराश्चकारार्थाः । अश्विभ्यां सहिता सरस्वती इन्द्रो न इन्द्रश्च उभे रोदसी द्यावापृथिव्यौ कामान् दुहे दुग्धे । द्विकर्मकः द्यावापृथिवीभ्यां सकाशात्कामान् दोग्धि दुरो दिशश्च सकाशात् दोग्धि । 'अकथितं च' (पा० १ । ४ । ५१) इति द्वारां दिशां रोदसोश्च कर्मत्वम् । कीदृश्यो द्वारः । कवष्यः 'कुष निष्कर्षे' । कुषिताः सच्छिद्राः । तथा व्यचस्वतीः व्यचनं व्यचोऽवकाशः तद्वत्यः ॥६०॥

एकषष्टी।
उ॒षासा॒नक्त॑मश्विना॒ दिवेन्द्र॑ᳪ सा॒यमि॑न्द्रियैः ।
स॒ञ्जा॒ना॒ने सु॒पेश॑सा॒ सम॑ञ्जाते॒ सर॑स्वत्या ।। ६१ ।।
उ० उषासानक्तम् । उषा आदित्यप्रभा । नक्तं रात्रिः। हे अश्विनौ, उषाश्च रात्रिश्च दिवा अहनि च इन्द्रम् इन्द्रियैर्वीर्यैः समञ्जाते संश्लक्षयतः सायं च इन्द्रियैः समञ्जाते । सातत्याभिप्रायम् । संजानाने एकमतीभूते उषाश्च रात्रिश्च सुपेशसा सुरूपे शुक्लेन उषाः कृष्णेन रात्रिः । किमिन्द्रमुषाश्च रात्रिश्च केवले एव समञ्जाते । नेत्याह । सरस्वत्या च सह समञ्जाते ॥ ६१ ॥
म० हे अश्विनौ, उषासा रविप्रभा नक्तं रात्रिश्च सरस्वत्या सह दिवा दिवसे सायंकाले च इन्द्रमिन्द्रियैः वीर्यैः सह समञ्जाते संयोजयतः । कीदृश्यौ ते। संजानाने संजानीतः ते संजानाने एकमती । सुपेशसा शोभनं पेशो रूपं ययोस्ते । शुक्ला उषाः कृष्णा रात्रिः ॥ ६१॥