पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दूरादपि द्वेषः दौर्भाग्यम् तत्र वर्तमानम् । सनुतरिति निर्णीतान्तर्हितनाम । अन्तर्हितं कृत्वा युयोतु । यद्वा दूरे वर्तमानं प्रकटं कृत्वा युयोतु पृथक्करोतु ॥ ५२ ॥
म० वयं तस्येन्द्रस्य सुमतौ शोभनबुद्धौ स्याम भवेम । भद्रे कल्याणरूपे । सौमनसे सुमनसो भावे शोभनमनस्कत्वेऽपि स्याम । इन्द्रोऽस्मासु सुमतिं मनश्च भद्रं करोत्वित्यर्थः । कीदृशस्येन्द्रस्य । यज्ञियस्य यज्ञाय हितो यज्ञियस्तस्य यज्ञसंपादिनः । सुत्रामा सुरक्षकः स्ववान् धनवान् स इन्द्रः अस्मे अस्मत्तः आराच्चित् दूरादपि वर्तमानं द्वेषो दौर्भाग्यं सनुतरन्तर्हितं कृत्वा युयोतु पृथक्करोतु । विकरणव्यत्ययः । सनुतरिति निर्णीतान्तर्हितनाम ॥ ५२ ॥

त्रिपञ्चाशी।
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।
मा त्वा॒ के चि॒न्नि य॑म॒न् विं ना पा॒शिनोऽति॒ धन्वे॑व॒ ताँ२ इ॑हि ।। ५३ ।।
उ० आ मन्द्रैः बृहत्यैन्द्री। आयाहि मन्द्रः मन्दनीयैः हे इन्द्र । हरिभिः हरिद्वर्णैः अश्वैः। मयूररोमभिः बभ्रवो ह्यश्वाः । किंच मा त्वा केचिन्नियमन् विं न पाशिनः । मा च त्वामागच्छन्तं केचिन्नियमन्निबध्नन्तु । कथमिव । विरिति शकुनिनाम। शकुनिमिव पाशिनः पाशप्रतिबन्धका आखेटकिनः । अथ केचित्परिपन्थिनो भवेयुः । अतिधन्वेव तान् इहि । अतीत्य तान् इहि आगच्छ। कथमिव। धन्व इव । यथा धन्व निरुदकदेशं परित्यज्य अन्यतममागच्छेयुः एवमागच्छेति ५३
म० विश्वामित्रदृष्टा वृहती । तृतीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः । आ मन्द्रैः एवेत् अनयोर्विनियोगाभावः । हे इन्द्र, त्वं हरिभिः अश्वैः आयाहि । कीदृशैः । मन्द्रैः गम्भीरनादैः मयूररोमभिः मयूरस्येव रोमाणि येषां ते मयूररोमाणस्तैः मयूरसमवर्णैः । किंच केचित् दुष्टा आगच्छन्तं त्वा त्वां मा नियमन् नियच्छन्तु मा निबध्नन्तु । तत्र दृष्टान्तः । पाशिनः पाशहस्ता व्याधाः विं पक्षिणमिव । यथा पाशिनः पक्षिणं बध्नन्ति तथा त्वां मा बध्नन्तु । अथ ये परिपन्थिनो भवेयुस्तानतीहि अतिक्रम्यागच्छ । किमिव । धन्व इव । धन्व निरुदकदेशः । यथा पान्थो मरुदेशमतिक्रम्य गच्छति तथा गच्छ ॥ ५३॥

चतुःपञ्चाशी।
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॒र्चन्त्य॒र्कैः ।
स न॑: स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ।। ५४ ।।
उ० एवेत् । ऐन्द्री त्रिष्टुप् यमेवमनेन प्रकारेण । इत् पादपूरणः । इन्दं वृषणं वर्षितारं वज्रबाहुं वसिष्ठासः वसिष्ठस्यापत्यानि बहूनि । यद्वा वस्तृतमा ऋषयः । अभ्यर्चन्ति अभिष्टुवन्ति अर्कैः मन्त्रैः । स नः सोऽस्मभ्यम् स्तुतः वीरवत् साधुपुत्रसंयुक्तम् धातु ददातु धनम् । गोमच्च गोसंयुक्तम् । एवं त्रिभिः पादैरिन्द्रमभिष्टुत्य अथेदानीं ये याजयन्ति तानाह । यूयं पात पालयत स्वस्तिभिरविनाशैः सदाकालं नोऽस्मान् ॥ ५४॥
म० वसिष्ठदृष्टा इन्द्रदेवत्या त्रिष्टुप् । वसिष्ठाः वसिष्ठापत्यानि मुनयः अर्कैर्मन्त्रैः एव इत् एवमेव इन्द्रमभ्यर्चन्ति पूजयन्ति । कीदृशमिन्द्रम् । वृषणं वर्षितारम् । वज्रबाहुं वजं बाहौ यस्य तम् । स इन्द्रः स्तुतः सन् वीरवत् वीरा विद्यन्ते यत्र तत् पुत्रयुक्तम् । गोमत् गावो विद्यन्ते यत्र तत् गोसंयुक्तं धनम् नोऽस्मभ्यं धातु दधातु । विकरणव्यत्ययः । एवं पादत्रयेणेन्द्रं स्तुत्वा ऋत्विज आह । हे ऋत्विजः, यूयं स्वस्तिभिः | अविनाशैः सदा सर्वदा नोऽस्मान् पात रक्षत ॥ ५४॥

पञ्चपञ्चाशी।
समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो घ॒र्मो वि॒राट् सु॒तः ।
दु॒हे धे॒नुः सर॑स्वती॒ सोम॑ᳪ शु॒क्रमि॒हेन्द्रि॒यम् ।। ५५ ।।
उ० इतउत्तरं त्रिपशुः आअध्यायात् तत्र द्वादशानुष्टुभोऽश्विसरस्वतीन्द्रदेवत्याः । समिद्धः संदीप्तोऽग्निः हविःक्षपणसमर्थः । हे अश्विनौ । किंच तप्तो घर्मः प्रवर्ग्यः विराट् च सोमोऽभिषुतः । किंच दुहे प्रपूरयति च धेनुः सरस्वती। सोमं शुक्रं शुक्लम् इह इन्द्रियं वीर्यम् ॥ ५५ ॥
म० 'आप्रियश्च समिद्धो अग्निरश्विनेति' (का० १९ । ६ । १५)। समिद्ध इत्याद्या द्वादशानुष्टुभः चकारात्त्रिपशोः प्रयाजयाज्याः इति सूत्रार्थः । विदर्भिदृष्टा अश्विसरस्वतीन्द्रदेवत्या आप्रीसंज्ञा द्वादशानुष्टुभः । अश्विनावध्वर्यू देवानामिति तौ प्रति होता प्राह । हे अश्विना अश्विनौ, अग्निः समिद्धो दीप्तोऽस्ति हविर्दहनक्षमोऽस्ति । घर्मः प्रवर्ग्यः तप्तोऽस्ति । विराट् विविधं राजमानः सोमः सुतोऽभिषुतः । किंच धिनोति प्रीणाति धेनुः । औणादिको नुप्रत्ययो धिवेः वलोपो गुणश्च । प्रीणयित्री सरस्वती इह यज्ञे सोमं दुग्धे 'दुह प्रपूरणे' लटि तङि प्रथमैकवचने टेरेत्वे 'लोपस्त आत्मनेपदेषु' (पा० ७।१। ४१) इति तलोपे दुहे इति रूपम् । कीदृशं सोमम् । शुक्रं शुक्लं शुद्धम् इन्द्रियमिन्द्राय हितं बलकरम् । एतावता यज्ञसंपत्तिरस्ति । युवामागच्छतमिति भावः ॥ ५५ ॥

षट्पञ्चाशी।
त॒नू॒पा भि॒षजा॑ सु॒तेऽश्विनो॒भा सर॑स्वती ।
मध्वा॒ रजा॑ᳪसीन्द्रि॒यमिन्द्रा॑य प॒थिभि॑र्वहान् ।। ५६ ।।
उ० अश्विनावध्वर्यू तयोर्होता कथयति यज्ञसंपत्तिम् । | तनूपा भिषजा तनूनां पातारौ भिषजौ च । सुते सोमे अश्विनावुभौ सरस्वती च मध्वा रसेन रजांसि पूरयत्विन्द्रोपभोगाय । लोका रजांस्युच्यन्ते इतीह लोकवचनो रज