पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० इन्द्रो नोऽस्माकं दूराद्दूरप्रदेशात् द्युलोकादेरपि आयासत् आयातु । यातेः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४) इति अटि कृते 'सिब्बहुलं लेटि' (पा० ३।१।३४) इति सिप्प्रत्ययः । आसान्निकटप्रदेशादपि आयासत् । आसादित्यन्तिकनाम । दूरात्समीपाच्चागच्छत्वित्यर्थः । किं कर्तुम् । अवसे अवितुमस्माकं रक्षणं कर्तुम् । कीदृश इन्द्रः । अभिष्टिकृत् अभिष्टिमभिलाषं करोतीत्यभिष्टिकृत् मनोरथप्रदः । उग्रः उत्कृष्टः । ओजिष्ठेभिः तेजस्वितमैर्बलयुक्त इति शेषः । ओजो विद्यते येषां ते ओजस्विनः अत्यन्तमोजस्विन ओजिष्ठाः। विन्मतोर्लुक् तैः । नृपतिः नृणां पालकः । वज्रबाहुः वज्रं बाहौ यस्य सः । तथा सङ्गे समत्सु सङ्गः समदिति द्वे संग्रामनामनी । सङ्गे एकस्मिन् संग्रामे समत्सु बहुष्वपि संग्रामेषु युगपदुत्थितेषु सत्सु पृतन्यून् शत्रून् तुर्वणिः 'तुर्व हिंसायां' तुर्वतीति तुर्वणिः हन्ता । पृतनामिच्छन्ति पृतन्यन्ति 'सुप आत्मनः क्यच्' (३।१।८) इति क्यचि परे 'कव्यध्वर-' (पा० ७।४ । ३९) इत्यलोपः । ततः 'क्याच्छन्दसि' (पा० ३।२।१७०) इति उप्रत्ययः । संग्रामेच्छूनां हन्तेत्यर्थः ॥४८॥

एकोनपञ्चाशी।
आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।
तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ।। ४९ ।।
उ० आ न इन्द्रः । आयातु नः अस्मानभि इन्द्रः । हरिभिः हरितवर्णैः अच्छ । अच्छाभेरर्थे । सचास्मानेत्य । अर्वाचीनः अर्वागञ्चनः अवसे अन्नाय राधसे धनाय च दानार्थम् । एत्य च तिष्ठाति तिष्ठतु वज्री मघवान् धनवान् । विरप्शी विरमणशीलः । इमं यज्ञम् अनु प्रति । नः अस्माकम् वाजसातौ अन्नसंभजने निमित्तभूते ॥ ४९ ॥
म० अच्छाभेरर्थे । इन्द्रोऽर्वाचीनोऽभिमुखः सन् नोऽस्मानच्छ अस्मानभि आयातु । कैः हरिभिरश्वैः । किमर्थम् । अवसे अवनमवः असुन् तस्मै रक्षणाय राधसे धनाय च । आगत्य च वज्री इन्द्रो नोऽस्माकमिमं यज्ञमनु प्रति वाजसातौ अन्नसंभजने निमित्ते तिष्ठति तिष्ठतु लेट् । कीदृशः । मघवा मघं धनमस्यास्तीति धनवान् । विरप्शी विविधं रपति लपतीति विरप्शी महान् ॥ ४९ ॥

पञ्चाशी।
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ᳪ हवे॑ हवे सु॒हव॒ᳪ शूर॒मिन्द्र॑म् ।
ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्र॑ᳪ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑: ।। ५० ।।
उ० त्रातारमिन्द्रम् । त्रातारं रक्षितारम् इन्द्रं यतः कथयन्ति । अवितारं च यतः इन्द्रं कथयन्ति । हवेहवे सुहवम् । आह्वाने आह्वाने शोभनाह्वानमिन्द्रं यतः कथयन्ति । शूरं विक्रान्तमिन्द्रं यतः कथयन्ति जनाः । अतः ह्वयामि शक्रं शक्तम् इन्द्रं तमहम् । पुरुहूतं बहुभिराहूतम् । सचाहुतः सन् । स्वस्ति नः अविनाशमस्माकम् मघवा धनवान् धातु दधातु इन्द्रः ॥ ५० ॥
म. गर्गदृष्टा । त्रातारं रक्षितारमिन्द्रम् । अवितारं प्रीणयितारमिन्द्रम् । हवे हवे आह्वाने आह्वाने यज्ञे वा । सुहवं सुखेन हूयते आहूयत इति सुहवम् शूरम् । शक्रम् शक्नोतीति शक्रस्तं समर्थम् । पुरुहूतं पुरुभिर्बहुभिर्हूयते पुरुहूतस्तं बहुभिराहूतम् । ईदृशमिन्द्रं ह्वयामि आह्वयामि । मघवा धनवानिन्द्र आहूतः सन्नोऽस्माकं स्वस्ति अविनाशं धातु दधातु करोतु । विकरणव्यत्ययः । इन्द्रशब्दावृत्तिरादरार्था ॥ ५० ॥

एकपञ्चाशी।
इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒२ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः ।
बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ।। ५१ ।।
उ० इन्द्रः सुत्रामा इन्द्रः साधुत्राणः स्ववान् धनवान् । अवोभिः अन्नैः सुमृडीकः शोभनसुखकारी भवतु । विश्ववेदाः सर्वधनः । किंच बाधताम् अपगमयतु द्वेषः दौर्भाग्यम् । अभयं कृणोतु करोतु । त्वत्प्रसादाच्च सुवीर्यस्य धनस्य पतयः स्याम ॥ ५१ ॥
म० इन्द्रः अवोभिरन्नैः सुमृडीकः शोभनसुखकारी भवतु । शोभनं मृडीकं सुखं यस्मात्स सुमृडीकः । कीदृश इन्द्रः । सुत्रामा सुष्ठु त्रायते रक्षति सुत्रामा 'आतो मनिन्-' (पा० | ३ । २ । ७४) इति मनिन् । स्ववान् स्वं धनमस्यास्तीति स्ववान् । 'आतोऽटि नित्यम्' (पा. ८।३।३) इत्यनुनासिकत्वम् । 'दीर्घादटि समानपादे' (पा० ८ । ३ । ९) इति नस्य रुः । विश्ववेदाः विश्वं सर्वं वेदो धनं यस्य सः । स चेन्द्रो द्वेषः दौर्भाग्यं बाधतां निवर्तयतु । अभयं च कृणोतु करोतु । किंच इन्द्रप्रसादाद्वयं सुवीर्यस्य धनस्य पतयः स्वामिनः स्याम भवेम । शोभनाश्च ते वीराश्च सुवीराः पुत्रादयः तेभ्यो हितं सुवीर्यं तस्य ॥५१॥

द्विपञ्चाशी।
तस्य॑ व॒यᳪ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
स सु॒त्रामा॒ स्ववाँ॒२ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द् द्वेष॑: सनु॒तर्यु॑योतु ।। ५२ ।।
उ० तस्य वयम् । तस्येन्द्रस्य सुत्राम्णः वयं सुमतौ कल्याणमतौ स्याम । यज्ञियस्य यज्ञसंपादिनः । अपि किंच । भद्रे भन्दनीये सौमनसे कल्याणमनसि स्याम वयम् । ततोऽनुग्राह्यबुद्धौ वर्तमानानामस्माकम् । स सुत्रामा शोभनत्राणः । स्ववान् धनवान् इन्द्रः अस्मे अस्मत्तः आराच्चित्